नीलिका, स्त्री, (नीलक + टाप् । कापि अत इत्वम् । नीलीव इवार्थे कन् टाप् पूर्व्वह्रस्वः । इति केचित् ।) नीलसिन्दुवारः । इति राज- निर्घण्टः ॥ नीलिनी । (पर्य्यायोऽस्या यथा, -- “नीली तु नीलिनी तूली कालदोला च नीलिका । रञ्जनी श्रीफली तुच्छा ग्रामीणा मधुपर्णिका ॥ क्लीतका कालकेशी च नीलपुष्पा च सा स्मृता ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) शेफालिका । इति मेदिनी । के, १११ ॥ नेत्र- रोगविशेषः । यथा, -- “दोषे दृष्ट्याश्रिते तिर्य्यगेकं वै मन्यंते द्बिधा । तिमिराख्यः स वै दोषश्चतुर्थपटलं गतः ॥ रुणद्धि सर्व्वतो दृष्टिं लिङ्गनाशमतः परम् । अस्मिन्नपि तमोभूते नातिरूढे महागदे ॥ चन्द्रादित्यौ सनक्षत्रावन्तरीक्षे च विद्युतः । निर्म्मतानि च तेजांसि भ्राजिष्णूनि च पश्यति । स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः ॥” क्षुद्ररोगभेदः । यथा, -- “क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः । मुखमागत्य सहसा मण्डलं विसृजत्यतः ॥ नीरुजं तनुकं श्यावं तं व्यङ्गमिति निर्द्दिशेत् । कृष्णमेवं गुणं गात्रे मुखे वा नीलिकां विदुः ॥” इति माधवकरः ॥ जलस्य ज्वरः । यथा, “भूमेरूषरा वृक्षस्य कोटरः जलस्य नीलिका इत्यादि ।” इति ज्वरप्रकरणे विजयरक्षितः ॥ क्षुद्ररोगविशेषः । तल्लक्षणं यथा, -- “कृष्णमेवं गुणं वक्त्रे गात्रे वा नीलिकां विदुः ।” एवं गुणं नीरुजं तनुकं मण्डलम् ॥ तच्चिकित्सा यथा, -- “शिरावेधैः प्रलेपैश्च तथाभ्यङ्गैरुपाचरेत् । व्यङ्गञ्च नीलिकां वापि न्यच्छञ्च तिलकालकम् ॥ वटाङ्कुरा मसूराश्च प्रलेपाद्व्यङ्गनाशनाः । व्यङ्गे मञ्जिष्ठया लेपः प्रशस्तो मधुयुक्तया ॥ [] अथवा लेपनं शस्तं शशस्य रुधिरेण च । व्यङ्गहृद्वरुणत्वक् स्यादजामूत्रेण पेषिता ॥ जातीफलस्य लेपस्तु हरेद्व्यङ्गञ्च नीलिकाम् । अर्कक्षीरहरिद्राभ्यां मर्द्दयित्वा प्रलेपनात् ॥ मुखकार्ष्ण्यं समं याति चिरकालोद्भवं ध्रुवम् । मसूरैः क्षीरसंपिष्टैर्लिप्तमास्यं घृतान्वितैः ॥ सप्तरात्रात् भवेत् सत्यं पुण्डरीकदलोपमम् । वटस्य पाण्डुपत्राणि मालती रक्तचन्दनम् ॥ कुष्ठं कालीयकं लोध्रमेभिर्लेपं प्रयोजयेत् ॥ युवानपिडकानान्तु व्यङ्गानाञ्च विनाशनम् । स्यादेतेन मुखञ्चापि वर्जितं नीलिकादिभिः ॥ कालीयकं कलम्बक इति लोके । युवानपिडका युवाननं तत्र पिडका पृषोदरादित्वान्नकारलोपः । कुङ्कुमं चन्दनं लोध्रं पत्तङ्गं रक्तचन्दनम् । कालीयकमुशीरञ्च मञ्जिष्ठा मधुयष्टिका ॥ पत्रकं पद्मकं कुष्ठं पद्मं गोरोचना निशा । लाक्षा दारुहरिद्रा च गैरिकं नागकेशरम् ॥ पलाशकुसुमञ्चापि प्रियङ्गुश्च वटाङ्कुराः । मालती च मधूच्छिष्टं सर्षपाः सुरभिर्व्वचा ॥ चतुर्गुणपयःपिष्टैरेतैरक्षमितैः पृथक् । पचेन्मन्दाग्निना वैद्यस्तैलं प्रस्थद्बयोन्मितम् ॥ वदनाभ्यञ्जनादेतद्व्यङ्गं नीलिकया सह । तिलकं माषकं न्यच्छं नाशयेन्मुखदूषिकाम् ॥ पद्मिनीकण्टकं वापि हरेज्जतुमणिं तथा । विदध्याद्बदनं पूर्णचन्द्रमण्डलसुन्दरम् ॥ पत्तङ्गं वकम् इति लोके । कालीयकं कलम्ब इति लोके । सुरभिर्व्वचा महाभरी इति लोके । कुङ्कुमाद्यं तैलम् ।” इति भावप्रकाशः ॥
📄 मूल मुद्रित पृष्ठ (2-917-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।