नेत्ररोगः, पुं, (नेत्रस्य चक्षुषो रोगः ।) चक्षू- रोगः । तस्य निदानं यथा, -- “उष्णाभितप्तस्य जलप्रवेशाद्- दूरेक्षणात् स्वप्नविपर्य्ययाच्च । स्वेदाद्द्रजोधूमनिषेवणाच्च छर्द्देर्व्विघाताद्बमनातियोगात् ॥ द्रवात्तथान्नान्निशि सेविताच्च विण्मूत्रवातक्रमनिग्रहाच्च । [] प्रसक्तसंरोदनशोककोपा- च्छिरोऽभिघातादतिमद्यपानात् ॥ तथा ऋतूनाञ्च विपर्य्ययेण क्लेशाभिघातादतिमैथुनाच्च । वास्पग्रहात् सूक्ष्मनिरीक्षणाच्च नेत्रे विकारान् जनयन्ति दोषाः ॥ वातात् पित्तात् कफाद्रक्तादभिस्यन्दश्चतुर्विधः । प्रायेण जायते घोरः सर्व्वनेत्रामयाकरः ॥” तस्य सम्प्राप्तिर्यथा, -- “निस्तोदनस्तम्भनरोमहर्ष- संघर्षपारुष्यशिरोऽभितापाः । विशुष्कभावः शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति ॥ दाहप्रपाकौ शिशिराभिनन्दा धूमायनं वास्पसमुच्छ्रयश्च । उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति ॥ उष्णाभिनन्दा गुरुताक्षिशोथः कण्डूपदेहावतिशीतता च । स्रावो बहुः पिच्छिल एव चापि कफाभिपन्ने नयने भवन्ति ॥ ताम्राश्रुता लोहितनेत्रता च बाह्यः समन्तादतिलोहितश्च । पित्तस्य लिङ्गानि च यानि तानि रक्ताभिपन्ने नयने भवन्ति ॥” इति माधवकरः ॥ (अस्य निदानादिपूर्व्वकं लक्षणं चिकित्सा च यथा, -- “उष्णातिक्षारकटुकैरभिघातेन वा पुनः । सूक्ष्मवस्त्वीक्षणेनापि दोषाः कुप्यन्ति नेत्रजाः ॥ सहजा ये परा ज्ञेया वक्ष्यामि शृणु लक्षणम् । रूक्षः कण्डूश्च तोदश्च शुष्कशीतास्रसन्ततिः । वातिकं तं विजानीयात् पैत्तिकं शृण्वतः परम् ॥ सरक्तदाहे नेत्रे च उष्णस्रावश्च पैत्तिके । शोफकण्डूः सन्निपाते शीतजाड्ये कफात्मके ॥ द्वन्द्वजो मिश्रलिङ्गैश्च सर्व्वैस्तैः सान्निपातिकः । एतद्धि लक्षणं ज्ञात्वा चोपचारं शृणुष्व मे ॥ शुण्ठी सुराह्वसुरसाः सह काञ्जिकेन चोष्णेन धावनमिदं सहपैत्तिके च । श्लेष्मोद्भवे त्रिफलकल्कमिदं समूत्र- मन्यैस्तथा कथितमत्रभिषग्वरैस्तत् ॥ शुण्ठी शठी च रजनी त्रिफला सनिम्बा पत्राणि सैन्धवयुतानि तुषाम्लकेन । शस्तं वदन्ति नयने च ससन्निपाते रक्तोद्भवे च सरुजे च तथा प्रशस्तम् ॥ फलत्रिकं दारु निशासु धूमो वचासु वर्षाभवसैन्धवेन । प्रलेपनं श्लेष्मभवे विकारे सवातिके वा हितमेव शस्तम् ॥ शुण्ठी सैन्धवतक्रेण ताम्रभाण्डे विघर्षितम् । अपामार्गस्य मूलं वा मूलं धूस्तूरकस्य वा ॥ अञ्जनञ्च हितं तेषां वातनेत्रामयापहम् ॥ [] दुग्धोत्पन्नं नवनीतं यष्टीनिम्बस्तिलाश्च संयोज्याः । त्रिफला गुडसंयुक्ता लेपनं कफनेत्रजरोगघ्नम् ॥ शुण्ठी सैन्धवतुल्यं मागधिका ताम्रभाजने घृष्टम् । दध्ना धृतेनाञ्जनकं निहन्ति सर्व्वांश्च नेत्रगदान् ॥ वातपित्तकफदोषसम्भवान् नेत्रयोर्बहुपीडनं क्षणात् । एक एव हरति प्रयोजितः शिशुपल्लवरसः समाक्षिकः ॥” इति हारीते चिकित्सितस्थाने ४४ अध्यायः ॥)
📄 मूल मुद्रित पृष्ठ (2-923-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।