🕉️ 21 November 2026, Saturday · 06:30:04 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

पंचगव्य
paṃcagavya
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
पंचगव्य संज्ञा पुं॰ [सं॰ पञ्चगव्य] गाय से प्राप्त होनेवाले पाँच द्रव्य—दूध, दही, घी, गोबर ओर गोमूत्र जो बहुत पवित्र माने जाते हैं और पापों के प्रायश्चित आदि में खिलाए जाता हैं । विशेष—पंचगव्य में प्रत्येक द्रव्य का परिमाण इस प्रकार कहा गया है—घी, दूध, गोमूत्र एक एक पल, दही एक प्रसृति (पसर) और गोबर तीन तोले ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
पञ्च—गव्य n. the 5 products of the cow (viz. milk, coagulated or sour milk, butter, and the liquid and solid excreta), L.
N. of wk.
📄 मूल मुद्रित पृष्ठ (575,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
पञ्चगव्य न० गोर्विकारः यत् पञ्चगुणितं गव्यम् । गोमूत्रादि पञ्चके तस्य प्रमाणादि हेमा० ब्र० ख० उक्तं यथा स्कन्दपुराणे विष्णुना “तथा वह्नीन्द्रवाय्वर्कदैवतानि यथा- क्रमम् । विद्ध्येतानि कुशोदञ्च पितृराजाधिदैवतम् । [] प्रोक्तामावे त्वथैतानि कपिलायाः प्रकल्पयेत् । गोमूत्र- भागस्तस्यार्द्धं शकृत् क्षीरस्य च त्रयम् । द्वयं दध्नो घृतस्यैकमेकश्च कुशवारिजः । गायत्र्या चैव गोमूत्रं गन्धद्वारेति गोमयम् । आप्यायस्वेति च क्षीरं दधि क्राव्णेति वै दधि । तेजोऽमि शुक्रमित्याज्यं देवस्य त्व- कुशोदकम् । एभिस्तु पञ्चभिर्युक्तं पञ्चगव्यं प्रचक्षते । एतदेव महापुण्यं ब्रह्मकूर्चमिति स्मृतम्” । व्यासेन “गोमूत्रं ताम्रवर्णायास्त्वेकमाषकसङ्ख्यया । पुण्यं व- रुणदैवत्यङ्गायत्र्यर्चाभिमन्त्रितम् । गोमयं श्वेतवर्णा- याश्चतुर्माषकमात्रया । गृह्णीयादग्निदैवत्यङ्गन्धद्वारेति वै शनैः । क्षीरं काञ्चनवर्णायाः सोमदैवत्यमेव च । आप्यायस्वेति मन्त्रेण माषद्वादशसम्प्रितम् । गृह्णीत वायुदैवत्यं कृष्णवर्णोद्भवं दधि । दशमाषमात्रकन्तु दधि- क्रावण इति स्मरन् । घृतं तु नीलवर्णार्याः पञ्चमाषक- संख्यया । गृह्णीत सूर्यदैवत्यं तेजोऽसीति जपन् क्र- मात् । शतत्रयं माषमानं चत्वारिंशच्च पञ्च च । कुशो- दकस्य गृह्णीयाद्देवस्यत्वेति कीर्त्तयन् । ताम्रपात्रे प- लाशे वा पात्रे मिश्रीकृतञ्च तत् । आपोहि ष्ठेति चा- चोड्य प्रणवेन प्रिबेच्च तत् । उदङ्मुखस्त्रिराचम्प ततो गच्छेत् स्वकं गृहम् । तत्रापि होमे प्राग्वच्च कृत्वा दद्याच्च दक्षिणाम् । ब्राह्मणस्य यथा शक्त्या शीभनं तु मनोहरम् । गवां वर्णास्तु शुक्लाद्याः सन्ति देशेषु यत्र न! तत्र वर्णाविभागेन पञ्च गव्यानि चाहरेत् । वर्णालाभान्नदोषोऽस्ति मात्राहीनं विवर्जयेत् । त्याज्यानि दूषितानां च दधिमूत्रपयांसि च । चेलकेशास्थिभक्ष्या- णामभक्ष्यैः सम्पृचां तथा । रोगार्त्तानां च यूकार्त्ति मृताण्डानाममङ्गलम् । (मृताण्डा मृतगर्भाः) निष्फ- लत्वेन वन्ध्यानां कृत्तानां कृमिभिस्तथा । अमानप्रति- दत्तानि सन्धिनीप्रभवानि च । शुद्धभाण्डे मनोज्ञे च मूमावपतितानि च । ग्रहीतव्यानि विबिधं खेदं तासां न कारयेत्” । ब्रह्मकूर्चव्रतमिदं सर्वपाप प्रणाशनम् । सर्वकामप्रदं पुंसां रूपारोग्ययशःप्रदम् । महतामपि पापानां नाशनं श्रीविवर्द्धनम्” ।
📄 मूल मुद्रित पृष्ठ (4184-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
पञ्चगव्यं, क्ली, (गोर्विकारः गव्यम् । पञ्चगुणितं गव्यम् ।) गोसम्बन्धिपञ्चप्रकारद्रव्यम् । (यथा, मनुः । ११ । १६५ । “भक्ष्यभोज्यापहरणे यानशय्यासनस्य च । पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनम् ॥”) [] तत्तु गोमयगोमूत्रदुग्धदधिघृतरूपम् । यथा, -- “पञ्चगव्यं दधिक्षीरघृतगोमूत्रगोमयैः ।” इति शब्दचन्द्रिका ॥ * ॥ तत्परिमाणं यथा, -- “पलमात्रं दुग्धभागं गोमूत्रं तावदिष्यते । घृतञ्च पलमात्रं स्यात् गोमयं तोलकत्रयम् ॥ दधि प्रसृतमात्रं स्यात् पञ्चगव्यमिदं स्मृतम् । अथवा पञ्चगव्यानां समानो भाग इष्यते ॥” इति गौतमीयतन्त्रम् ॥ * ॥ अपि च । “गोशकृद्द्विगुणं मूत्रं पयः स्यात्तच्चतुर्गुणम् । घृतं तद्द्विगुणं प्रोक्तं पञ्चगव्यं तथा दधि ॥” * ॥ तस्य पानफलं यथा, -- “पञ्चगव्येन पूतन्तु वाजिमेधफलं लभेत् । गव्यन्तु परमं मेध्यं गव्यादन्यन्न विद्यते ॥ सौम्ये मुहूर्त्ते संयुक्ते पञ्चगव्यन्तु यः पिबेत् । यावज्जीवकृतात् पापात् तत्क्षणादेव मुच्यते ॥” गव्यानां देवप्रीतिकरत्वं यथा, -- “दध्ना हि त्रिदशाः सर्व्वे क्षीरेण च महेश्वरः । घृतेन पावको नित्यं पायसेन पितामहः ॥ सकृद्दत्तेन प्रीयन्ते वर्षाणाञ्च त्रयोदश । तां दत्त्वा चैव पीत्वा च प्रेतो मेध्यस्तु जायते ॥” इति वराहपुराणम् ॥ * ॥ तस्य विशेषो यथा, -- “पयः काञ्चनवर्णायाः श्बेतवर्णोत्थगोमयम् । गोमूत्रं ताम्रवर्णाया नीलवर्णाभवं घृतम् ॥ दधि स्यात् कृष्णवर्णाया दर्भोदकसमायुतम् । गोमूत्रमाषकाण्यष्टौ गोमयस्य चतुष्टयम् ॥ क्षीरस्य द्बादश प्रोक्ता दध्नस्तु दश उच्यते । घृतस्य माषकाः पञ्च पञ्चगव्यं मलापहम् ॥” इति गारुडे प्रायश्चित्तप्रकरणम् ॥
📄 मूल मुद्रित पृष्ठ (3-007-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "पंचगव्य" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें