पाञ्चाली, स्त्री, (पञ्चभिर्वर्णैरलतीति । अल + अच् । गौरादित्वात् ङीष् ।) पाञ्चालिका । (यथा, देवीभागवते । ४ । १९ । ४ । [] “यन्माया मोहितश्चाहं सदावर्त्ते परात्मनः । परवान् दारुपाञ्चाली मायिकस्य यथा वशे ॥”) (पाञ्चाले भवा । पाञ्चाल + अण् । स्त्रियां ङीप् ।) पाण्डवपत्नी । तत्पर्य्यायः । कृष्णा २ पाण्डु- शर्म्मिला ३ पार्व्वती ४ द्रौपदी ५ याज्ञसेनी ६ वेदिजा ७ । इति जटाधरः ॥ सैरन्ध्री ८ नित्य- यौवना ९ । इति हेमचन्द्रः ॥ (यथा, महा- भारते । १ । १६८ । ४१ । “कुमारी चापि पाञ्चाली वेदीमध्यात् समु- त्थिता ॥” अस्य जन्मादिविवरणं द्रौपदीशब्दे द्रष्टव्यम् ॥ रीतिविशेषः । पाञ्चालानां प्रियत्वादेवास्या- स्तथात्वम् । यथा, साहित्यदर्पणे । ९ । २ । “वैदर्भी चाथ गौडी च पाञ्चाली लाटिका तथा ॥” एतल्लक्षणं यदाह भोजः । “समस्तपञ्चषपदामोजःकान्तिसमन्विताम् । मधुरां सुकुमाराञ्च पाञ्चालीं कवयो विदुः ॥”)
📄 मूल मुद्रित पृष्ठ (3-099-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।