पादुक त्रि० पद--उकञ् । १ गमनशीले पादू + स्वार्थे क “के- ऽणः” पा० ह्रस्वः । चर्भमयपादत्राणे स्त्री अमरः । तस्या उत्पत्तिकथा आतपत्रशब्दे ६४९ पृ० दृश्या तत्र चानुशासनिकपर्वाध्यायसंख्या ९२९३ स्थाने ९५ ९६ संख्या ज्ञेया । “वर्षातपादिके छत्री दण्डी रात्र्यटवीषु च । शरीरत्राणकामो वै सोपानत्कः शदा व्रजेत्” ज्यो० त० “पादप्रधारणं वृष्यमोजस्यं चक्षुषो हितम् । सुखप्रचार- मायुष्यं बल्यं पादरुजापहम्” । तस्या अधारणे दोषा यथा “पादाभ्याममुपानद्भ्यां नृणां च क्रमणं यदा । अनारोग्यमनायुष्यमिन्द्रियघ्नमदृष्टिकृत्” राजनि० अधिकं दिनचर्य्याशब्दे ३५९० पृ० दृश्यम् । “दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ । स्नातकाय महावाहो! संशिताय द्विजातये । सोऽपि लोकानवाप्नोति दैव- तैरपि पूजितान् । गोलोके स मुदा युक्तो वसति प्रेत्य भारत!” भा० आनु० ९६ अ० । कचित्पादुकाधारणनि- षेधः “वहन्नुपानहौ पद्भ्यां यस्तु मासुपसंक्रमेत् । चर्मकारस्तु जायेत वर्षाणान्तु त्रयोदश” वराहपु० । “सोपनत्कश्च यद्भुङक्ते तद्वै रक्षांसि भुञ्जते” मनुः । देवतापादुकानिर्माणप्रकारो देवीपु० यथा “मणिरत्नमयी कार्य्या हेमरूप्यमयी तथा । चन्दवेनापि कर्त्तव्या पादुका प्रतिमापि वा । श्रीपर्णा श्रीद्रुमा चापि देवदारुमयी तथा । षडङ्गुला च सा कार्य्या पादुकां पूजयेत् सदा” ।
📄 मूल मुद्रित पृष्ठ (4305,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।