पापयोनि स्त्री पापा गर्ह्या योनिः । १ तिर्य्यगयोन्यादौ । पापहतुका योनिः । २ पापहेतुके जन्मभेदे तद्भेदे कार- णभेदो याज्ञ० उक्तो यथा “महापातकजान् घोरान्नरकान् प्राप्यगर्हितान् । कर्म- क्षयात् प्रजायन्ते महापातकिनस्त्विह । मृगाश्वशूकरो- ष्ट्रणां ब्रह्महा योनिमृच्छति । स्वरपुक्कशवणानां सु- रापो नात्र संशयः । कृमिकीटपतङ्गत्वं स्वर्णहारी स- माप्नुयात् । तृणगुल्मलतात्वञ्च क्रमशो गुरुतल्पगः” । “तैलहृत्तैलपायी स्यात् पूतिवक्त्रस्तु सूचकः । परस्य [] योषितं हृत्वा व्रह्मस्वमपहृत्य च । अरण्ये निर्जने घोरे भवति ब्रह्मराक्षसः । हीनजातौ प्रजाययेत पररत्नाप- हारकः । पत्रशाकं शिखी हृत्वा गन्धांश्छुच्छुन्दरिः शुभान् । मूषिको धान्यहारी स्याद् यानमुष्ट्रं फलं कपिः । जलं प्लवः पयः काको गृहकारी ह्युपस्क- रम् । मधु, दंश फलं गृध्रो, गां गोधाऽग्निं वकस्तथा । शित्री वस्त्रं श्वा रसन्तु चीरी लवणहारकः । प्रदर्शना- र्थमेतत्तु मयोक्तंस्तेयकर्मणि । द्रव्यपकारा हि यथा तथैव प्राणिजातयः । यथा कर्मफलं प्राप्य तिर्य्यक्त्वं का- लपर्य्ययात् । जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषा- धमाः” । गौतमोऽपि क्वचिद्विशेषमाह “विद्याविक्रयी पुरुषमृगः वेदविक्रयी द्वीपी, बहुयाजको जलप्लवः, अयाज्ययाजको वराहः, अनिमन्त्रितभोजी वायस, मिष्टैकभोजी वानरः, यतस्ततोऽश्नन् नार्जारः, कक्षव- नदहनात् खद्योतः, दारकाचार्य्यो मुखविगन्धिः, पर्यु- षितभोजी कृमिः, अदत्तादायी वलीवर्द्दो, मत्सरी भ्र- मरः, अग्न्युत्सादी मण्डलकुष्ठी, शूद्राचार्य्यः श्वपाकः, गोहर्ता सर्पः, स्नेहापहारी क्षयी, अन्नापहार्य्यजीर्णी, ज्ञानापहारी मूर्खः, चण्डालीपुष्कसीगमनेऽजगरः, प्रव्रजितागमने मरुपिशाचः, शूद्रागमने दीर्घकीटः सवर्णाभिगानी दरिद्रः, जलहारी मत्स्यः क्षीरहारी वलाका । वार्धुसिकोऽङ्गपीनः, अविक्रेयविक्रयी गृध्रः, राजमहिषीगामी नपुंसकः, राजाक्रोशको गर्दभः, गोगामी मण्डूकः, अनध्यायाध्ययने शृगालः परद्रव्यापहारी परप्रेष्यः, मत्स्यबधे गर्भवासी, इत्ये- तेऽमूर्द्धगमना इति । स्त्रियोऽप्येतेषु निमित्तेषु पूर्वोक्तास्वेव जातिषु स्त्रीत्वमनुभवन्ति” । विष्णुस० ४४ अ० अन्येऽपि पापभेदकृतयोनिभेदा दर्शिताः । बहु० । ३ तद्युते त्रि० ।
📄 मूल मुद्रित पृष्ठ (4309-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।