पापरोग पु० पापविशेषकृते रोगभेदे स च विष्णुसं० उक्तो यथा “नरकानुभूतदुःखानां तिर्य्यक्त्रमुत्तीर्णानां मनु- ष्येषु लक्षणानि भवन्ति । कुष्ठ्यतिपातकी । ब्रह्महा यक्ष्मी । सुरापः श्यावदन्तकः । सुवर्णहारी कुनखः । गुरुतल्पगो दुश्चर्मा । पूतिनासः पिशुनः । पूतिवक्त्रः सू- चकः, धान्यचौरोऽङ्गहीनः । मिश्रचौरोऽतिरिक्ताङ्गः । अन्नापहारकस्त्वामयावी । वागपहारको मूकः । वस्त्रा- पहारकः श्वित्री । अश्वापहारकः पङ्गुः । देवब्राह्मण- क्रोशकोमूकः । लोलजिहो गरदः । उन्मत्तोऽग्निदः । गुरुप्रतिकूलोऽपस्मारी । गोघ्नन्त्वन्धः । दीपापहारकश्च [] काणश्च दीपनिर्वापकः । त्रपुचामरसीसकविक्रयी र- जकः । एकशफविक्रयी मृगव्याधः । कुण्डाशी मगास्यः, घाण्टिकःस्तेनः । वार्धुषिको भ्रामरी । मिष्टाश्येकाकी वातगुल्मी । समयभेत्ता खल्वाटः, श्लीपद्यवकीर्णी । परवृत्तिघ्नो दरिद्रः । परपीडाकरो दीर्घरोगी । एवं कर्मविशेषेण जायन्ते लक्षणान्विताः । रोगान्वितास्तथा न्धाश्च कुब्जखञ्जैकलोचनाः । वामनावधिरामूका दुर्ब- लाश्च तथा परे । तस्मात् सर्वप्रयत्नेन प्रायश्चित्तं स- माचरेत्” । यद्यपि सर्वेषां रोगाणां दुःखदायकत्वेन पापहेतुकत्वं तथापि उन्मादाद्यष्टरोगाणां प्राधान्येन “महापापजत्वेन पापरोगत्वं यथोक्तं शु० त० रघुनन्दनेन “महारोगिण इति पापरोगाष्टकान्यतमरोगवतः । ते च उन्मादस्त्वगदोषो राजयक्ष्मा श्वासो मधुमेहो भगन्दरः उदरोऽश्मरी इत्यष्टौ पापरोगा नारदोक्ताः । कर्मविपा- कशब्दे १७४५ पृ० विस्तरः । २ मसुरीरोगे शब्दरत्ना० ।
📄 मूल मुद्रित पृष्ठ (4310-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।