पारणा, स्त्री, (पार + युच् + टाप् ।) उपवासव्रता- नन्तरदिवसकर्त्तव्यप्राथमिकभोजनम् । यथा, -- “पारणं पावनं पुंसां सर्व्वपापप्रणाशनम् । उपवासाङ्गभूतञ्च फलदं शुद्धिकारणम् ॥ सर्व्वेष्वेवोपवासेषु दिवापारणमिष्यते । अन्यथा फलहानिः स्यादृते धारणपारणम् ॥ न रात्रौ पारणं कुर्य्यादृते वै रोहिणीव्रतात् । निशायां पारणं कुर्य्याद्वर्ज्जयित्वा महानिशाम् ॥ पूर्व्वाह्ने पारणं शस्तं कृत्वा विप्र ! सुरार्च्चनम् । [] सर्व्वेषां सम्मतं कुर्य्यादृते वै रोहिणीव्रतम् ॥” इति ब्रह्मवैवत्त श्रीकृष्णजन्मखण्डे ८ अध्यायः ॥ अथ श्रीकृष्णजन्माष्टमीव्रतपारणकालः । “अष्टम्यामथ रोहिण्यां न कुर्य्यात्पारणं क्वचित् । हन्यात् पुराकृतं कर्म्म उपवासार्जितं फलम् ॥ तिथिरष्टगुणं हन्ति नक्षत्रञ्च चतुर्गुणम् । तस्मात् प्रयत्नतः कुर्य्यात्तिथिभान्ते च पारणम् ॥” अत्रोभयवियोगे पारणमुक्तम् । “यदा सार्द्ध- प्रहरनिशाभ्यन्तरे एकस्यैव वियोगस्तदैकतर- वियोगेऽपि पारणम् ॥ तथा च नारदीये । “तिथिनक्षत्रसंयोगे उपवासो यदा भवेत् । पारणन्तु न कर्त्तव्यं यावन्नैकस्य संक्षयः ॥ सांयोगिके व्रते प्राप्ते यद्यप्येको वियुज्यते । तत्रैव पारणं कुर्य्यादेवं वेदविदो विदुः ॥ यद्यैकस्यापि सार्द्धप्रहरनिशाभ्यन्तरे न वियोग- स्तदा तयोरवियोगेऽपि प्रातरुत्सवान्ते पार- णम् । तिथ्यन्ते चोत्सवान्ते वा व्रती कुर्व्वीत पारणम् । इत्युक्तत्वात् ॥ * ॥ महाष्टम्युपवास- पारणं मत्स्यमांसोपहारेण कर्त्तव्यम् । यथा, -- “अष्टम्यां समुपोष्यैव नवम्यामपरेऽहनि । मत्स्यमांसोपहारेण दद्यान्नैवेद्यमुत्तमम् ॥ तेनैव विधिनान्नन्तु स्वयं भुञ्जीत नान्यथा ॥” स्त्रियास्तु पशुमांसभक्षणनिन्दया न तेन पारणं किन्तु मत्स्येन । अष्टम्युपवासपारणे रविवारादौ मांसनिषेधः । एवं मांसाशनत्यागकृतनियमेन नियोगादिष्वपि मांसं वर्ज्जनीयम् ॥ * ॥ अथ श्रीरामनवमीव्रतपारणकालः । “नवमी चाष्टमीविद्धा त्याज्या विष्णुपरायणैः । उपोषणं नवम्यां वै दशम्यामेव पारणम् ॥” अथैकादशीव्रतपारणकालः । “मन्त्रं जपित्वा हरये निवेद्योपोषणं व्रती । द्वादश्यां पारणं कुर्य्याद्वर्ज्जयित्वा ह्युपोदकीम् ॥” द्वादशीलङ्घने दोषमाह नारदीयम् । “महाहानिकरी ह्येषा द्वादशी लङ्घिता नृणाम् ॥ विष्णुधर्म्मोत्तरे । “द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः । तमतिक्रम्य कुर्व्वीत पारणं विष्णुतत्परः ॥” अथ श्रवणद्वादश्युपवासपारणकालः । “तिथिनक्षत्रसंयोगे उपवासो यदा भवेत् । तावदेव न भोक्तव्यं यावन्नैकस्य संक्षयः ॥ विशेषेण महीपाल श्रवणं वर्द्धते यदि । तिथिक्षयेण भोक्तव्यं द्वादशीं नैव लङ्घयेत् ॥” तिथिक्षयेण एकादशीक्षयेण भोक्तव्यं द्वादश्यां पारयेदित्यर्थः ॥ * ॥ अथ शिवरात्र्युपवास- पारणकालः । “जयन्ती शिवरात्रिश्च कार्य्ये भद्रजयान्विते । कृतोपवासं तिथ्यन्ते तदा कुर्य्याच्च पारणम् ॥” तिथ्यन्ते पारणन्तु जयन्तीमात्रपरम् । अत्र चतुर्द्दश्यामेव तत् । “ब्रह्माण्डोदरमध्ये तु यानि तीर्थानि सन्ति वै । पूजितानि भवन्तीह भूताहे पारणे कृते ॥” * ॥ [] पारणदिने वर्ज्यानि यथा, ब्रह्माण्डपुराणम् । “कांस्यं मांसं सुरां क्षौद्रं लोभं वितथभाषणम् । व्यायामञ्च व्यवायञ्च दिवास्वप्नं तथाञ्जनम् ॥ शिलापिष्टं मसूरांश्च द्वादशैतानि वैष्णवः । द्वादश्यां वर्ज्जयेन्नित्यं सर्व्वपापैः प्रमुच्यते ॥” सूरिसन्तोषे । “कांस्यं मांसं मसूरञ्च चणकं कोरदूषकम् । शाकं मधु परान्नञ्च त्यजेदुपवसन् स्त्रियम् ॥” अत्रोपवसन्निति तद्दिने भोजनासम्भवात् सामीप्यात् पूर्व्वापरयोर्ग्रहणम् । इति तिथ्यादि- तत्त्वम् ॥
📄 मूल मुद्रित पृष्ठ (3-120-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।