पिण्डिका, स्त्री, (पिण्डन्ते संहतानि भवन्ति पिण्ड्यन्ते राशीक्रियन्ते वा अराणि यस्याम् । पिण्ड + घञ् । गौरादित्वात् ङीष् । ततः कन् । ह्नस्वश्च ।) रथनाभिः । इत्यमरः । २ । ८ । ५६ ॥ सा रथचक्रमध्ये मण्डलाकारा यस्यां सर्व्वाणि काष्ठान्यासज्यन्तें । इति रायमुकुटः ॥ (पिण्डम् । यथा, हारीते प्रथमस्थाने सप्तमेऽध्याये । “कांस्यपात्रे समुद्धृत्य परीक्षेत भिषग्वरः । शुद्धकर्म्मा स तल्लब्ध्वा श्वेतशाल्योदनस्य वा ॥ पिण्डिका तत्र संक्षिप्ता नान्यथा भातिसा पुनः ॥”) पिचिण्डिका । सा जानुनोऽधोमांसलप्रदेशः । इति हेमचन्द्रः ॥ पायेर डिम् इति भाषा ॥ (यथा, चरके सूत्रस्थाने ७ अध्याये । “पकाशयशिरःशूलं वातवर्च्चो निरोधनम् । पिण्डिकोद्वेष्टनाध्मानं पुरीषे स्याद्विधारिते ॥”) श्वेताम्लिः । इति राजनिर्घण्टः ॥ पीठः । यथा, सूत उवाच । “पिण्डिकालक्षणं वक्ष्ये यथावदनुपूर्व्वशः । पीठोच्छ्रायं यथावच्च भागान् षोडश कारयेत् ॥ भूमावकः प्रतिष्ठः स्याच्चतुर्भिर्जगतो मता । वृत्तो भागस्तथैकः स्यात् वृत्तपट्टस्य भागतः ॥ [] भागैस्त्रिभिस्तथा कण्ठं कण्ठपट्ठस्तु भागतः । भागेन वृत्तपट्टस्तु शेषभागेन पट्टिकी ॥ प्रचिन्त्यं भागमेकैकं जगती यावदेव तु । निर्गमस्तु पुरस्तस्या यावद् विशेषपट्टिकाः ॥ पीठिकानान्तु सर्व्वासामेतत् सामान्यलक्षणम् । निःशेषाद्देवताभेदात् शृणुध्वं द्बिजसत्तमाः ॥ स्थण्डिला वाथ वापी च यक्षी वेदी च मण्डला । पूर्णचन्द्रा च वज्री च पद्मा वार्द्धशशिस्तथा ॥ त्रिकोणा दशमी तासां संस्थानञ्च निबोधत । स्थण्डिला चतुरस्रा तु वर्जिता मेखलादिभिः ॥ वापी द्बिमेखला ज्ञेया यक्षी चैव त्रिमेखला । चतुरस्रायतां वेदीं न तां लिङ्गेषु योजयेत् ॥ मण्डला वर्त्तुला या तु मेखलाभिर्गणप्रिया । रिक्ता द्विमेखला मध्ये पूर्णचन्द्रा तु सा भवेत् ॥ मेखलात्रयसंयुक्ता षडस्रा वज्रिका भवेत् । षोडशास्रा भवेत् पद्मा किञ्चिद्ध्रस्वा च मूलतः ॥ तथैव धनुराकारा सार्द्धचन्द्रा प्रशस्यते । त्रिशूलसदृशा तद्वत् त्रिकोणानूर्द्ध्वतो मता ॥ प्रागुदक्प्रवणा तद्वत्प्रशस्ता लक्षणान्विता । परिवेषस्त्रिभागेन निर्द्देशन्तत्र कारयेत् ॥ विस्तारन्तत्प्रमाणन्तु मूले चाग्रे तदूर्द्ध्वतः । जलवाहश्च कर्त्तव्यस्त्रिभागेन सुशोभनः ॥ लिङ्गस्यार्द्धत्रिभागेन स्थौल्येन समधिष्ठिता । मेखला तु त्रिभागेन खातं वै तत्प्रमाणतः ॥ अथवा पादहीनन्तु शोभनं कारयेत् सदा । उत्तरस्थं प्रमाणतु प्रमाणादधिकं भवेत् ॥ स्थण्डिलायामथारोग्यं धनधान्यञ्च पुष्कलम् । गोप्रदा तु भवेत् यक्षी वेदी सम्पत्प्रदा भवेत् ॥ मण्डलायां भवेत् कीर्त्तिर्व्वरदा पूर्णचन्द्रिका । आयुःप्रदा भवेद्वज्री पद्मा सौभाग्यदायिनी ॥ पुत्त्रप्रदार्द्धचन्द्रा स्यात् त्रिकोणा शत्रुनाशिनी । देवस्य यजनार्थन्तु पिण्डिका दश कीर्त्तिताः ॥ शैले शैलमयीं दद्यात् पार्थिवे पार्थिवीन्तथा । दारुजे दारुजां कुर्य्यान्मिश्रे मिश्रान्तथैव च ॥ नान्ययोनिस्तु कर्त्तव्या सदा शुभफलेप्सुभिः ॥ अर्च्चायामसमं दैर्घ्यं लिङ्गायामसमं तथा । यस्य देवस्य या पत्नी तां पीठे परिकल्पयेत् ॥ एवमेतत् समाख्यातं समासात् पीठलक्षणम् ॥” इति मत्स्यपुराणे पीठिकानुकीर्त्तनं २३६ अः ॥ (लिङ्गपीठम् । गौरीपट्टः । यथा, काशीखण्डे बायुसंहितायामुत्तरखण्डे । २८ । ६ । “लिङ्गं पिण्डिकया सार्द्धं पञ्चगव्यैश्च शोधयेत् ॥”)
📄 मूल मुद्रित पृष्ठ (3-142-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।