पिण्याकः, पुं, क्ली, (पिनष्टीति । पिषॢ संचूर्णने + “पिनाकादयश्च ।” उणां । ४ । १५ । इति आकप्रत्ययेन निपातनात् साधुः ।) तिल- कल्कः । (अस्य गुणाः यथा, -- “पिण्याको ग्लपनो रूक्षो विष्टम्भी दृष्टिदूषणः ॥” इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥ यथा, महाभारते । १२ । १६७ । ३६ । “नवनीतं यथा दध्नस्तथा कामोऽर्थधर्म्मतः । श्रेयस्तैलं हि पिण्याकात् घृतं श्रेय उदश्वितः ॥”) अस्य भक्षणे दोषो यथा, -- “पिण्याकं भक्षयित्वा तु यो वै मामुपसर्पति । तस्य वै शृणु सुश्रोणि ! प्रायश्चित्तं सुशोभनम् ॥ उलूको दशवर्षाणि कच्छपस्तु समास्त्रयः । जायते मानवस्तत्र मम कर्म्मपरायणः ॥” इति वराहपुराणम् ॥ हिङ्गु । वाह्लीकम् । सिह्लकः । इति मेदिनी ॥ (सरलरसः । अस्य पर्य्यायो यथा, -- “तैलपर्णी दधित्थाख्यः पिण्याको रक्तशीर्षकः । वेष्टो रसाह्वः श्रीवासः श्रीपिष्टसरलद्रवौ ॥” इति वैद्यकरत्नमालायाम् ॥)
📄 मूल मुद्रित पृष्ठ (3-143-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।