🕉️ 19 November 2026, Thursday · 02:34:53 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

पीनस
pīnasa
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
पीनस १ संज्ञा पुं॰ [सं॰] नाक का एक रोग जिसमें उसकी घ्राण या वास पहचानने की शक्ति नष्ट हो जाती है । विशेष—इस रोग में नाक के नथने शुष्क, कफ से भरे हुए और क्लिन्न अर्थात् गीले रहते हैं तथा उनमें जलन भी रहती है । वात और कफ के प्रकोपवाले जुकाम के लक्षण प्रायः इसमें मिलते हैं ।
पीनस २ संज्ञा स्त्री॰ [फा़॰ फीनस] पालकी ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
पी-नस m. (prob. fr. पी = अपि + नस्; cf. अपी-नस) cold (affecting the nose), catarrh, Suśr.
📄 मूल मुद्रित पृष्ठ (630,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
पीनसः 1 Cold affecting the nose. --2 Cough, catarrh.
📄 मूल मुद्रित पृष्ठ (0705-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
पीनस पु० पीनं पीनतां स्यति सो--क । १ नासिकारोगभेदे प्रतिश्याये अमरः तद्रोगस्य निदानादि माघवकरीक्तं यथा “आनह्यते यस्य विशुष्यते च प्रक्लिद्यते घूप्यति चैव- [] नासा । न येत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येत् खलु पीनसेन । तञ्चागिकश्लेष्ममवं विकारं ब्रूयात् प्रतिश्यायसमानलिङ्गम्” । आमपीनसलक्षणं यथा “शिरोगुरुत्वमरुचिर्नासास्रावस्तनुस्वरः । क्षामः ष्ठीवति क्षाभीक्ष्ममाभपीनसलक्षणम्” । पक्वपीनसलक्षणं यथा “आमलिङ्गाग्वितः श्लेष्मा घनः खेषु निमज्जति । स्वर- वर्णविशुद्धिश्च पक्वपीनसलक्षणम्” । २ कर्कठ्यां स्त्री राजनि० गौरा० ङीष् ।
📄 मूल मुद्रित पृष्ठ (4347-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
पीनसः, पुं, (पीनं स्थूलमपि जनं स्यति नाशय- तीति । सो + कः ।) नासिकारोगविशेषः । पीनास इति भाषा । तत्पर्य्यायः । प्रतिश्यायः २ । इत्यमरः । २ । ६ । ५१ ॥ अपीनसः ३ प्रतिश्याः ४ । इति भरतः ॥ नासिकामयः ५ । इति शब्दरत्नावली ॥ तस्य निदानं यथा, -- “आनह्यते यस्य विशुष्यते च प्रक्लिद्यते धूप्यति चैव नासा । न वेत्ति यो गन्धरसांश्च जन्तु- र्जुष्टं व्यवस्येत् खलु पीनसेन ॥ तञ्चानिलश्लेष्मभवं विकारं ब्रूयात् प्रतिश्यायसमानलिङ्गम् ॥” इति माधवकरः ॥ आमपीनसलक्षणं यथा, -- “शिरोगुरुत्वमरुचिर्नासास्रावस्तनुस्वरः । क्षामः ष्ठीवति चाभीक्ष्णमामपीनसलक्षणम् ॥” पक्वपीनसलक्षणं यथा, -- “आमलिङ्गान्वितः श्लेष्मा घनः खेषु निमज्जात । स्वरवर्णविशुद्धिश्च पक्वपीनसलक्षणम् ॥” * ॥ तस्यौषधानि यथा, -- “सर्व्वेषु सर्व्वकालं पीनसरोगेषु जातमात्रेषु । मरिचं गडेन दषा भञ्जीत नरः मुखं लभते ॥ १ [] कट्फलं पौष्करं शृङ्गी व्योषं यासश्च कारवी । एषां चूर्णं कषायं वा दद्यादार्द्रकजै रसैः ॥ पीनसे स्वरभेदे च नासास्रावे हलीमके । सन्निपाते कफे वाते कासे श्वासे च शस्यते ॥ २ ॥ व्योषचित्रकतालीशतिन्तिडीकाम्लवेतसम् । सचव्याजाजितुल्यांशमेलात्वक्पत्रपादिकम् ॥ व्याषादिकमिदं चूर्णं पुराणगुडमिश्रितम् । पीनसश्वासकासघ्नं रुचिस्वरकरं परम् ॥” ३ ॥ इति भावप्रकाशः ॥ * ॥ “पिप्पलीत्रिफलाचूर्णं मधुसैन्धवसंयुतम् । सर्व्वरोगज्वरश्वासशोषपीनसहृद्भवेत् ॥” इति गारुडे १८९ अध्यायः ॥ (अस्य चिकित्सान्तरं यथा, -- “वातात् सकासवैस्वर्य्यं सक्षारं पीनसे घृतम् । पिबेद्रसं पयश्चोष्णं स्नैहिकं धूममेव वा ॥” “दशमूलस्य निष्क्वाथे रास्नामधुककल्कवत् । सिद्धं ससैन्धवं तैलं दशकृत्वो गुणाः स्मृतम् । स्निग्धस्यास्थापनैर्दोषं निर्हरेद्वातपीनसे ॥ स्निग्धाम्लोष्णैश्च लघ्वन्नं ग्राम्यादीनां रसैर्हितम् । उष्णाम्बुना स्नानपाननिवातोष्णप्रतिश्रयः । चिन्ताव्यायामवाक्चेष्टाव्यवायविरतो भवेत् । पैत्ते सर्पिः पिबेत् सिद्धं शृङ्गबेरशृतम्पयः ॥ पाचनार्थं पिबेत् पक्वे कार्य्यमूर्द्ध्वविरेचनम् । पाठाद्विरजनीमूर्व्वापिप्पलीजातिपल्लवैः ॥ दन्त्या च साधितं तैलं नस्यं सम्पक्वपीनसे । पूयास्रे रक्तपित्तघ्नाः कषायो लवणानि च ॥ पाकदाहाद्यरुक्षेषु शीता लेपाः ससेचनाः । घ्रेयनस्योपचारश्च कषायस्वादुतिक्तकाः ॥” “गौरवारोचकेष्वादौ लङ्घनं कफपीनसे । स्वेदाः सेकाश्च पाकार्थं लिप्ते शिरसि सर्पिषा ॥ लशुनं मुद्गचूर्णेन व्याषक्षारसमायुतम् । देयं कफघ्नं वमनमुत्क्लिष्टश्लेष्मणे हितम् ॥ अपीनसे पूतिनस्ये घ्राणस्रावसकण्डुके । घूमः शस्तोऽवपीडश्च कटुभिः कफपीनसे ॥ मनःशिला वचाव्योषं विडङ्गं हिङ्गु गुग्गुलुः । चूर्णो घ्रेयः प्रधमनः कटुभिश्च फलैस्तथा ॥” “स्निग्धस्य व्याहते वेगे छर्द्दनं कफपीनसे । वमनीयशृतक्षीरतिलमाषयवागुभिः ॥” “सर्व्वजित् पीनसे दुष्टे काय्यं शोफे च शोफजित् । क्षारोऽर्व्वुदाधिमांसेषु क्रिया सर्व्वेष्ववेक्ष्य च ॥” इति चरके चिकित्सास्थाने २६ अध्याये ॥ “सर्व्व एव प्रतिश्याया नरस्याप्रतिकारिणः । कालेन रोगजनना जायन्ते दुष्टपीनसाः ॥ वाधिर्य्यमान्ध्यमघ्राणं घोरांश्च नयनामयान् । कासाग्निसादशोफांश्च वृद्धाः कुर्व्वन्ति पीनसाः ॥” इत्युत्तरतन्त्रे चतुर्व्विंशेऽध्याये सुश्रुतेनोक्तम् ॥)
📄 मूल मुद्रित पृष्ठ (3-160-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "पीनस" आता है (3)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें