🕉️ 25 November 2026, Wednesday · 04:07:29 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

पुरश्चरण
puraścaraṇa
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
पुरश्चरण संज्ञा पुं॰ [सं॰]
१. किसी कार्य की सिदि्ध के लिये पहले से ही उपाय सोचना और अनुष्ठान करना ।
२. हवन आदि के समय किसी विशिष्ट देवता का नाम जप (को॰) ।
३. किसी मंत्र स्तोत्र आदि को किसी अभीष्ट कार्य की सिदि्ध के लिये किसी नियत समय और परिमाण तक नियमपूर्वक जपना या पाठ करना । प्रयोग । उ— मैं अब पुरश्चरण करने जाता हूँ, आप विघ्नों का निषेध कर दीजिए ।— भारतेंदु ग्रं॰, भा॰ २, पृ॰ ३०३ ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
पुरश्—चरण mfn. making preparations, preparatory to (comp.; -ता f.), MBh.
पुरश्—चरण n. a preparatory or introductory rite, preparation, ŚBr.
📄 मूल मुद्रित पृष्ठ (634,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
पुरश्चरणं, क्ली, (पुरोऽग्रतश्चरणं मन्त्रजपादि- पञ्चाङ्गकर्म्माचरणमिति ।) पुरस्क्रिया । सा तु स्वेष्टदेवतामन्त्रसिद्ध्यर्थं तद्देवतापूजापूर्व्वकं तन्- [] मन्त्रजपहोमतर्पणाभिषेकब्राह्मणभोजनरूपप- ञ्चाङ्गकसाधना । यथा, योगिनीहृदये । “गुरोराज्ञां समादाय शुद्धान्तःकरणो नरः । ततः पुरस्क्रियां कुर्य्यान्मन्त्रसंसिद्धिकाम्यया ॥ जीवहीनो यथा देही सर्व्वकर्म्मसु न क्षमः । पुरश्चरणहीनोऽपि तथा मन्त्रः प्रकीर्त्तितः ॥ तस्मादादौ स्वयं कुर्य्यात् गुरुं वा कारयेद्बुधः । गुरोरभावे विप्रं वा सर्व्वप्राणिहिते रतम् । स्निग्धं शास्त्रविदं मित्रं नानागुणसमन्वितम् ॥ स्त्रियं वा सद्गुणोपेतां सपुत्त्रां विनियोजयेत् ॥ आदौ पुरस्क्रियां कर्त्तुं स्थाननिर्णय उच्यते ॥” योगिनीहृदये । “पुण्यक्षेत्रं नदीतीरं गुहापर्व्वतमस्तकम् । तीर्थप्रदेशाः सिन्धूनां सङ्गमः पावनं वनम् ॥ उद्यानानि विविक्तानि विल्वमूलं तटं गिरेः ॥ तुलसीकाननं गोष्ठं वृषशून्यं शिवालयम् ॥ अश्वत्थामलकीमूलं गोशालाजलमध्यतः । देवतायतनं कूलं समुद्रस्य निजं गृहम् ॥ साधनेषु प्रशस्तानि स्थानान्येतानि मन्त्रिणाम् । अथवा निवसेत्तत्र यत्र चित्तं प्रसीदति ॥” * ॥ तथा । “गृहे शतगुणं विद्याद्गोष्ठे लक्षगुणं भवेत् । कोटिर्देवालये पुण्यमनन्तं शिवसन्निधौ ॥ म्लेच्छदुष्टमृगव्यालशङ्कातङ्कविवर्ज्जिते । एकान्तपावने निन्दारहिते भक्तिसंयुते ॥ सुदेशे धार्म्मिके देशे सुभिक्षे निरुपद्रवे । रम्ये भक्तजनस्थाने निवसेत् तापसः प्रिये ! ॥ गुरूणां सन्निधाने च चित्तैकाग्रस्थले तथा । एषामन्यतमस्थानमाश्रित्य जपमाचरेत् ॥ यत्र ग्रामे जपेन्मन्त्री तत्र कूर्म्मं विचिन्तयेत् ॥” गौतमीये । “पर्व्वते सिन्धुतीरे वा पुण्यारण्ये नदीतटे । यदि कुर्य्यात् पुरश्चर्य्यां तत्र कूर्म्मं न चिन्तयेत् ॥” विल्वमूलादावपि कूर्म्मचिन्ता नास्ति तदुक्तं वैशम्पायनसंहितायाम् । “पुण्यक्षेत्रं गृही तीर्थं देवतायतनं शुभम् । नदीतीरं तथा सिन्धुसङ्गमोऽतिमनोहरः ॥ पर्व्वतस्य गुहाश्चैव तथा पर्व्वतमस्तकम् । विल्वमूलं समुद्रश्च वनमुद्यानमेव च ॥ एषु स्थानेषु विप्रेन्द्र ! कूर्म्मचक्रं न चिन्तयेत् । ग्रामे वा यदि वा वास्तौ गृहे तञ्च विचिन्त- येत् ॥” अथ पुरश्चरणे भक्ष्यादिनियमः । गौतमीये । “पुरश्चरणकृन्मन्त्री भक्ष्याभक्ष्यं विचारयेत् । अन्यथा भोजनाद्दोषात् सिद्धिहानिः प्रजायते ॥ शस्तान्नञ्च समश्नीयात् मन्त्रसिद्धिसमीहया । तस्मान्नित्यं प्रयत्नेन शस्तान्नाशी भवेन्नरः ॥” अगस्त्यसंहितायाम् । “दधि क्षीरं घृतं गव्यं ऐक्षवं गुडवर्ज्जितम् । तिलाश्चैव सिता मुद्गाः कन्दः केमुकवर्ज्जितः ॥ नारिकेलफलञ्चैव कदली लवली तथा । [] आम्रमामलकञ्चैव पनसञ्च हरीतकी ॥ व्रतान्तरे प्रशस्तञ्च हविष्यं मन्यते बुधैः ॥” व्रतान्तर इति । “हैमन्तिकं सितास्विन्नं धान्यं मुद्गास्तिला यवाः । कलायकङ्गुनीवारा वास्तूकं हिलमोचिका ॥ षष्टिका कालशाकञ्च मूलकं केमुकेतरत् । लवणे सैन्धवसामुद्रे गव्ये च दधिसर्पिषी ॥ पयोऽनुद्धृतसारञ्च पनसाम्रहरीतकी । पिप्पली जीरकञ्चैव नागरङ्गञ्च तिन्तिडी ॥ कदलीलवलीधात्रीफलानिगुडमैक्षवम् । अतैलपक्वं मुनयो हविष्यान्नं प्रचक्षते ॥ भुञ्जानो वा हविष्यान्नं शाकं यावकमेव वा । पयो मूलं फलं वापि यत्र यत्रोपलभ्यते ॥ रम्भाफलं तिन्तिडीकं कमला नागरङ्गकम् । फलान्येतानि भोज्यानि एभ्योऽन्यानि विवर्ज्ज- येत् ॥” यत्तु योगिनीतन्त्रे । “चिञ्चाञ्च नालिकाशाकं कलायं लकुचं तथा । कदम्बं नारिकेलञ्च व्रते कुष्माण्डकं त्यजेत् ॥” तत्तु व्रतान्तरे बोध्यम् । चिञ्चा तिन्तिडी ॥ * ॥ अथ वर्ज्यानि । “विवर्ज्जयेन्मधु क्षारलवणं त
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "पुरश्चरण" आता है (3)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬