पू(र्व्व)र्ब्बः, त्रि, (पूर्व्व निमन्त्रणे निवासे वा + अच् ।) प्रथमः । (यथा, कुमारे । १ । ५३ । “यदैव पूर्व्वे जनने शरीरं सा दक्षरोषात् सुदती ससर्ज्ज । तदा प्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरिग्रहोऽभूत् ॥” यथाच मनुः । २ । १८४ । “गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु । अलाभे त्वन्यगेहानां पूर्व्वं पूर्व्वं विवर्ज्जयेत् ॥”) आदिः । (यथा, मनुः । २ । ७४ । “ब्राह्मणः प्रणवं कुर्य्यादादावन्ते च सर्व्वदा । स्रवत्यनोङ्कृतं पूर्व्वं पुरस्ताच्च विशीर्य्यति ॥”) प्राग्दिग्-देशकालाः । इत्यमरः ॥ (यथा, मनुः । ५ । ९२ । “दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् । पश्चिमोत्तरपूर्व्वैस्तु यथायोगं द्विजन्मनः ॥”) समग्रम् । इति तट्टीकायां स्वामी ॥ अग्रः । इति हलायुधः ॥ (यथा, मनुः । २ । ५० । “त्रिराचामेदपः पूर्व्वं द्विः प्रमृज्यात्ततो मुखम् । खानि चैव स्पृशेदद्भिरात्मानं शिर एव च ॥”)
📄 मूल मुद्रित पृष्ठ (3-222-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।