पृथक्त्व न० पृथक् इत्यस्य भावः त्व । वैशेषिकोक्ते पृथक्त्व- वुद्धिसम्पादके गुणभेदे । तत्परीक्षा च कणा० सू० वृत्त्यार्दर्शिता यथा “तथा पृथक्त्वम्” सू० । “एक- त्वतुल्यतयैकपृथकत्वमपि साधयितुमाह अपोद्धार व्यवहारस्तावदस्ति इदमस्मात् पृथगन्यदर्थान्तरमित्याकारः अपवृज्यावधिमपेक्ष्य य उद्धारो निर्द्धारणं सह्यपोद्धारः तत्र च न रूपादि तन्त्रं व्यभिचारादवध्यनिरूप्यत्वाच्च । नन्वन्योन्याभाव एव पृथकत्वम् इदमस्मात् पृथगन्य- दर्थान्तरमितिवद्भिन्नमिति प्रतीतेरन्योन्याभावावलम्बन- त्वात्, न, पृथगादिशब्दानां पर्य्यायत्वेऽपि नान्योन्याभावा- र्थत्वं तत्र पञ्चमीप्रयोगानुपपत्तेः इदमस्मात् पृथक् इद- मिदं न भवतीति प्रतीत्योर्भिन्नविषयत्वात्, न चान्योन्या- भाबवानर्थः पृथक्त्वम् अथटः पट इत्यत्रापि पञ्चमी प्रयोगापत्तेः । ननु पृथगिति विशिष्ट इति प्रतीत्यो- ऐकाकारत्वाद्वैशिष्ट्यमेव पृथक्त्वमिति चेन्न मैत्रस्य दण्ड- वैशिष्ट्यदशायां मैत्रात् पृथगयं मैत्र इत्यपि प्रतीत्या- पत्तेः । एवं शब्दविशिष्टे व्योम्नि बुद्धिविशिष्टे चात्मनि पृथक्त्वव्यवहारापत्तेः । अतएव वैधर्म्यमपि न पृथक्त्वं पाकरक्ते घटे श्यामाद्घटात् पृथगयं घट इति व्यव- हारापत्तेः तद्विरोधिधर्मवत्त्वमेव हि तद्वैधर्म्यं तच्च श्यामानन्तरं रक्ततादशायामपि । न च सामान्यमेव पृ- थक्त्वं सामान्यस्यावध्यनिरूप्यत्वात् जातिसङ्करप्रसङ्गाच्च । सन्मात्रवृत्तित्वे सत्तया, द्रव्यमात्रवृत्तित्वे द्रव्यत्वेनान्यूना- नतिरिक्तवृत्तित्वापत्तेः” वृत्तिः । “एकत्वैकपृथक्त्वयोरेक त्वैकपृथक्त्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः” क० सू० । “नन्वेकमेकत्वं रूपादिभ्यः पृथक्पृथकत्वमिति व्यव- हारादेकत्वेऽप्येकत्वं पृथक्त्वेऽपि पृथकत्वमेवं तत्र तत्रा- पीत्यत आह यथाऽणुत्वमहत्त्वे नाणुत्वमहत्त्ववती तद्व्यवहारस्तत्र भाक्तस्तथैकत्वैकपृथक्त्वे नैकत्वैकपृथक्- त्ववती तद्व्यवहारस्तत्र भाक्त इत्यर्थः । कर्मभिः कर्माणि गुणैगुणाः इत्यपि दृष्टान्तसूत्रद्वयं पूर्वदृष्टान्तसूत्रेणैक- [] वाक्यतापन्नमेवात्र भासते यथा कर्माणि न कर्मवन्ति गुणाश्च न गुणवन्तस्तथैकत्वैकपृथकत्वे न तद्वती इत्यर्थः” वृत्तिः ।
📄 मूल मुद्रित पृष्ठ (4413-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।