🕉️ 28 November 2026, Saturday · 08:28:27 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

प्रतिग्रह
pratigraha
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
सेना के पीछे की रक्षक टुकड़ी (2.8.79)
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
प्रतिग्रह संज्ञा पुं॰ [सं॰]
१. स्वीकार । ग्रहण ।
२. उस दान का लेना जो ब्राह्मण को विधिपूर्वक दिया जाय । इस प्रकार का दान लेना ब्राह्मण के छह कर्मों में से एक है ।
३. पकड़ना । अधिकार में लाना ।
४. पाणिग्रहण । विवाह । जैसे, दारप्रतिग्रह ।
५. ग्रहण । उपराग ।
६. स्वागत । अभ्यर्थना ।
७. विरोध करना । मुकाबला करना ।
८. उत्तर देना । जवाब देना ।
९. सेना का पिछला भाग ।
१०. उगालदान । पीकदान ।
११. अनुग्रह । भेंट । उपहार (को॰) ।
१२. श्रवण करना । सुनना (को॰) ।
१३. स्वीकरण (को॰) ।
१४. कर्तन करनेवाला । काटने छाटनेवाला । जैसे, केश- प्रतिग्रह = नापित (को॰) ।
१५. ग्रहण करनेवाला । वह जो ग्रहण करे । ग्रहीता (को॰) ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
प्रति-˚ग्रह m. receiving, accepting, acceptance of gifts (as the peculiar prerogative of Brāhmans; cf. IW. 237; 262), ŚBr.; ŚrS.; Mn.; MBh. &c. (˚ग्रहं-√ कृ, to receive presents, Mn.)
friendly reception, MBh.
favour, grace, MBh.
taking a wife, marrying, R.
receiving with the ear i.e. hearing, Kathās.
a grasper, seizer (केश-, a hair-cutter, barber), Gobh. a receiver, KātyŚr.; R.
a chamber-vessel or any similar convenience for sick persons, Car.
a spittoon, L.
a gift, present (esp. a donation to a Brāhman at suitable periods), Yājñ.; MBh. &c. (instr. ‘as a present’, Kathās.)
N. of the objects or functions corresponding to the 8 Grahas, L.
= क्रिया-कार, L.
the reserve of an army (a detachment posted with the general 400 yards in the rear of a line), W.
the sun near the moon's node, ib.
📄 मूल मुद्रित पृष्ठ (665,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
प्रतिग्रहः 1 Receiving, accepting. [] --2 Receiving or accepting a donation. --3 The right of receiving or accepting a donation. --4 The right of receiving gifts (which is a peculiar prerogative of Brāhmaṇas); Ms. 1. 88; 4. 86; Y. 1. 118. --5 A gift, present, donation; राज्ञः प्रतिग्रहोऽयं Ś. 1; Śi. 14. 35. --6 A receiver (of a gift). --7 Kind or friendly reception. --8 Favour, grace. --9 Marrying. --10 Listening to. --11 The rear of an army. --12 A spitting-pot. --13 The sun near the moon's node.
📄 मूल मुद्रित पृष्ठ (0736-c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
प्रतिग्रह पु० प्रति + ग्रह--अप् । १ स्वीकारे २ अदृष्टार्थदत्त- द्रव्यस्य ग्रहणे ३ सैत्यपृष्ठे ४ पतद्ग्रहे च मेदि० । प्रति- ग्रहश्चादृष्टार्थत्यक्तद्रव्यस्वीकारः । तत्र दानस्यैव स्वस्वत्व ध्वंसमित परस्वत्वोन्पत्तिं प्रति हेतुता प्रतिग्रहस्य तु यथेष्टविनियोगार्हताप्रयोजकस्वत्वं प्रति कारणता यथोक्तं दायभागे “दृष्टञ्च लोकेऽपि दाने हि चेतनोद्देशविशिष्टत्यागादेव दातृव्यापारात् सम्प्रदानस्य द्रव्ये स्वामित्वम् । न च स्वोकरणात् स्वत्वं स्वकर्तुरेव दातृत्वापत्तेः परस्वत्वा पत्तिफलेन हि दानरूपता तच्च फलं सम्प्रदानाधीनं यथा देवतोद्देशेन द्रव्यत्यागं कुर्वन्नपि यजमानो न होता किन्तु तस्यैव त्यागस्य होमाभिधाननिमित्तं प्रक्षेपं कुर्वन् ऋत्वे गेव होतेत्युच्यते तद्वदत्रापि स्यात् । किञ्च मनसा पात्र [] मुद्दिश्येत्यादिशास्त्रे स्वीकारात् प्रागेव दानपदा दृष्टम् । ननु ग्रहणं स्वीकारः अभूततद्भावे च्विप्रयोगात् अस्वं स्वं कुर्वन् व्यापारः स्वीकारो भवति कथं तत् प्रागेव स्वत्वम् । उच्यत उत्पन्नमपि स्वत्वं सम्प्रदानव्यापारेण ममेदमिति ज्ञानेन यथेष्टव्यवहारार्हं क्रियत इति स्वीकारशब्दार्थः । याजनाध्यापनसाहचर्व्याच्च प्रतिग्रहस्य स्वत्वमजनयती- ऽपि अजेनरूपता न विरुद्धा याजनादौ दक्षिणादानादेव स्वत्वात्” मूलम् । व्याख्यातमेतत् श्रोकृष्णेन यथा “ननु त्यागात् केवलं स्वत्वनाशः सम्प्रदानस्वत्वं तु ममे- दमिति भाविस्वत्वावगाहितत्स्वीकारादेवेति मतं निरा- करोति नचेति । स्वीकर्तुरेवेत्येवकारेण त्यक्तुर्व्यव- च्छेद । इदमुपपादयति परस्वत्वापत्तिफलेन हीति । अत्रायमाशयः धात्वर्यतावच्छेदकफलानुकूलव्यापारवत एव तृजन्ततद्धातुव्य्यदेश्यत्वं यथा धात्वर्यतावच्छेदकोत्तर- देशसंयोगानुकूलव्योपारवति चैत्रे गन्तेति व्यवहारः । स्वीकारस्य स्वत्वहेतुत्वे धात्वर्थतावच्छेदकपरस्वत्वामुकूल- स्वीकाररूपव्यापारवतः स्वीकर्त्तरेव दातृपदव्यपदेश्यत्वा- पत्तिरिति पूर्वस्वत्वध्वंसरूपफलस्य न तद्व्यपदेशनिया- मकता तथात्वे उपेक्षितुछपि दातृपदव्यपदेश्यत्वापत्ति- रिति । केचित्तु स्वीकारस्य स्वत्वहेतुत्वे परस्वत्वफलोप- हितत्यागात्मकदाने सर्वांशे एकस्यापि कर्तृत्वासन्धवात् एकांशमादायैव दातृत्वव्यवहारे कर्त्तव्ये प्रधानीभूतफलां- शानुकूलव्यः पारवत्येव दातृव्यवहारः स्यादिति व्याचक्रुः । दृष्टान्तेनेदं द्रढयति यथा होति । होमाभिधाननि- मित्तर्मिति । विशिष्टदेशावच्छिन्नपक्षेपोपहितत्यानस्य होमत्वात् प्रक्षेपस्य तदभिधाननिमित्तत्वमित्यर्थः । तेन हुधात्वर्यतावच्छेदकप्रक्षेपानुकूलव्यापारवति ऋत्विजि- होतेति व्यपदेशो यथा तथेत्यर्यः । व्यागस्य स्वत्वहतुत्व स्फुटमेव शास्त्रं प्रमाणयति किञ्चेति । आदिना भूमौ तोयं विनिःक्षिपेदित्युत्तरप्रतीकपरिग्रहः । शास्त्रे शास्त्र- कोधितत्यगे । दानपदं दृष्टमिति । “विद्यते सागर- स्वान्तो दानस्यान्तो न विद्यते” इति तद्वचनस्योत्तरार्द्धे दानपदं प्रयुक्तमित्यर्थः । तथाच निरन्वरयोरेव स्वस्वत्ववंस- परस्वत्वात्पत्तिफलयोर्ददातिघात्वर्थतावच्छेदकत्वात् दा- नस्य परस्वत्वहेतुता शास्त्रसिद्धैवेति भावः । स्वीका- रात् प्रागेव स्वत्वे ग्रहणस्य स्वीकारपदार्थत्वासम्भबमाश- ङ्कते नन्विति । खीकारशब्दार्थ इति । तथाच स्वपदस्य यथेष्टविनियोगार्हत्वविशिष्टे लक्षणेति भावः । ननु याज- [] नाध्यापनप्रतिग्रहैर्ब्राह्मणो धनमार्जयेदित्यत्र राजसूयेन यजेतेत्यादिवत् याजनाद्यात्मकैर्द्धनमर्जयेदित्यन्वयात् प्रति- ग्रहस्यार्जनरूपता सिद्धा प्रतिग्रहस्य स्वत्वाहेतुत्व च त- द्विरुद्धं स
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
प्रतिग्रहः, पुं, (प्रतिग्रहणमिति । प्रति + ग्रह + “ग्रहवृदृनिश्चिगमश्च ।” ३ । ३ । ५८ । इति भावे अप् ।) स्वीकरणम् । सैन्यपृष्ठम् । (प्रति- गृह्णाति निष्ठीवनादिकमिति । प्रति + ग्रह + “विभाषा ग्रहः ।” ३ । १ । १४३ । इति पक्षे अच् ।) पतद्ग्रहः । (प्रतिगृह्यते इति । प्रति + ग्रह + अप् ।) द्विजेभ्यो विधिवद्देयम् । तद्- ग्रहः । ग्रहभेदः । इति मेदिनी । हे, ३१ ॥ * ॥ ब्राह्मणस्यार्थः प्रतिग्रहार्ज्जितः । यथा, -- “प्रतिग्रहार्जिता विप्रे क्षत्त्रिये शस्त्रनिर्जिताः । वैश्ये न्यायार्जिताश्चार्थाः शूद्रे शुश्रूषयार्जिताः ॥” अयाचितप्रतिग्रहे दोषाभावो यथा, -- “अयाचितोपपन्ने तु नास्ति दोषः प्रतिग्रहे । अमृतं तं विदुर्द्देवास्तस्मात्तन्नैव निर्णुदेत् ॥ * ॥ गुरुभृत्यांश्चोज्जिहीर्षुरर्च्चिष्यन् देवतातिथीन् । सर्व्वतः प्रतिगृह्णीयात् न तु तृप्येत् स्वयं ततः ॥ साधुतः प्रतिगृह्णीयादथवासाधुतो द्विजः । गुणवानल्पदोषश्च निर्गुणो हि निमज्जति ॥ एवं तस्करवृत्त्या वा कृत्वा भरणमात्मनः । कुर्य्याद्विशुद्धिं परतः प्रायश्चित्तं द्विजोत्तमः ॥” इति गारुडे २१५ अध्यायः ॥ * ॥ तीर्थे प्रतिग्रहनिषेधो यथा, -- “सुवर्णमथ युक्तात्मा तथैवान्यप्रतिग्रहम् । स्वकार्य्ये पितृकार्य्ये वा देवताभ्यर्च्चनेऽपि वा ॥ निष्फलं तस्य तत्तीर्थं यावत्तद्धनमश्नुते । अतस्तीर्थे न गृह्णीयात् पुण्येष्वायतनेषु च ॥” इति कौर्म्मे ३३ अध्यायः ॥ * ॥ राजादितः प्रतिग्रहनिषेधो यथा, -- “न राज्ञः प्रतिगृह्णीयान्न शूद्रपतितादपि । न चान्यस्मादशक्तश्च निन्दितान् वर्जयेद- बुधः ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥ * ॥ विद्यारहितस्य प्रतिग्रहनिषेधो यथा, -- “हेम भूमिं तिलान् गाश्च अविद्वानाददाति यः । भस्मीभवति सोऽह्नाय दातुः स्यान्निष्फलञ्च तत् ॥ [] तस्मादविद्वान्नादद्यादल्पशोऽपि प्रतिग्रहम् । विषमन्त्रापरिज्ञानी विषेणाल्पेन नश्यति ॥” * ॥ गर्हितप्रतिग्रहादिर्यथा, -- “हस्तिकृष्णाजिनाद्यास्तु गर्हिता ये प्रतिग्रहाः । सद्विप्रास्तान्न गृह्णीयुर्गृह्णन्तस्तु पतन्ति ते ॥ कृष्णाजिनप्रतिग्राही हयानां शुक्रविक्रयी । नवश्राद्धस्य भोक्ता च न भूयः पुरुषो भवेत् ॥” * ॥ आपदि गर्हितप्रतिग्रहकर्त्तव्यता यथा, -- “प्रोक्तप्रतिग्रहाभावे प्रोक्तायां बृहदापदि । विप्रोऽश्नन् प्रतिगृह्णन् वा यतस्ततोऽपि नाघभाक् ॥ गुर्व्वादिपोष्यवर्गार्थं देवाद्यर्थञ्च सर्व्वशः । प्रत्यादद्याद्द्विजो यस्तु भृत्यर्थमात्मनोपि च ॥ दधिक्षीराज्यमांसानि गन्धपुष्पाम्बुमत्स्यकान् । शय्याशनासनं शाकं प्रत्याख्येयं न कर्हिचित् ॥ अपि दुष्कृतकर्म्मभ्यः समादद्यादयाचितम् । पतितेभ्यस्तथान्येभ्यः प्रतिग्राह्यमसंशयम् ॥” * ॥ प्रतिग्रहीतुं शक्तस्य लभ्यमानपरित्यागेन स्वर्गो भवति । यथा, -- “शक्तः प्रतिग्रहीतुं यो वेदवृत्तः सुसंयतः । लभ्यमानं न गृह्णाति स्वर्गस्तस्य सुनिश्चितम् ॥ * ॥ प्रतिग्रहमृणं वापि याचितं यो न यच्छति । तत्कोटिगुणितग्रस्तो मृतो दासत्वमृच्छति ॥ * ॥ दाता च न स्मरेद्दानं प्रतिग्राही न याचते । तावुभौ नरकं यातौ दाता चैव प्रतिग्रही ॥ * ॥ वदन्ति कवयः केचिद्दानप्रतिग्रहौ प्रति । प्रत्यक्षं लिङ्गमेवेह दातृयाचकयोर्ब्बलम् ॥ दातृहस्तो भवेदूर्द्ध्वमधस्तिष्ठेत् प्रतिग्रही । यद्दानं प्रतिगृह्णीयात् प्रतिग्राही ब्रजत्यधः ॥” * ॥ प्रतिग्रहप्रकारो यथा, -- “भूमेः प्रतिग्रहं कुर्य्याद्भूमिं कृत्वा प्रदक्षिणम् । करे गृह्य तथा कन्यां दासदास्यौ तथा द्विजाः ॥ करं हि हृदि विन्यस्य धर्म्म्यो ज्ञेयः प्रतिग्रहः । आरुह्य च गजस्योक्तः कर्णे चाश्वस्य कीर्त्तितः ॥ तथा चैकशफानाञ्च सर्व्वेषामविशेषतः । प्रतिगृह्णीत गां शृङ्गे पुच्छ
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "प्रतिग्रह" आता है (4)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬