🕉️ 29 November 2026, Sunday · 08:25:53 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

प्रतिनिधि
pratinidhi
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
प्रतिनिधि संज्ञा पुं॰ [सं॰]
१. प्रतिमा । प्रतिमूर्ति ।
२. वह व्यक्ति जो किसा दूसरे की ओर से कोई काम करने के लिये नियुक्त हो । दूसरों का स्थानापन्न होकर काम करनेवाला । विशेष— (क) हमारे यहाँ प्राचीन काल से धार्मिक कृत्यों आदि के लिये प्रतिनिधि नियुक्त करने की प्रथा है । यदि कोई मनुष्य नित्य या नैमित्तिक आदि कर्म आरंभ करने के उपरांत बीच में ही असमर्थ हो जाय तो वह उसकी पूर्ति के लिये किसी दूसरे व्यक्ति को अपना प्रतिनिधि स्वरूप नियुक्त कर सकता है । (ख) आजकल साधारणतः सर्व- साधारण की ओर से सभाओं आदि में, विचार प्रकट करने और मत देने के लिये, अथवा किसी राज्य या बड़े आदमी की ओर से किसी बात का निर्णय करने के लिये लोग प्रतिनिधि बनाकर भेजे जाते हैं ।
३. जमानतदार । प्रतिभू । जामिन (को॰) ।
४. प्रतिबिंब (डिं॰) ।
५. वह वस्तु या द्रव्य जो किसी वस्तु के अभाव में प्रयुक्त हो (को॰) ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
प्रति-˚निधि m. substitution
a substitute, representative, proxy, surety, ŚrS.; Mn.; MBh. &c.
a resemblance of a real form, an image, likeness, statue, picture, Kāv.
(ifc.) an image of i.e. similar, like, Kāvyād. (˚धी-√ कृ, to substitute anything [acc.] for [comp.] MBh.; Ragh.)
📄 मूल मुद्रित पृष्ठ (666,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
प्रतिनिधिः 1 A representative, substitute; सोऽभवत्प्रतिनिधिर्न कर्मणा R. 11. 13, 1. 81; 4. 54; 5. 63; 9. 40. --2 A deputy, vicegerent. --3 Substitution. --4 A surety, --5 An image, likeness, picture.
📄 मूल मुद्रित पृष्ठ (0737-c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
प्रतिनिधि पु० प्रतिरूपं निधीयते तुल्यरूपतया स्वाप्यते पति + नि + धा--कि । १ प्रतिरूपे तुल्यरूपे अमरः । बैदिककर्माङ्गद्रव्यादीनां सुख्यानामलाभे २ तुल्यरूपत- यान्यस्मिन् निधीयमाने । कुत्र प्रतिनिधिर्भवति कुत्र वा न मवति तत्सर्वं विशेषसहितं कात्या० श्रौ० १४ कण्डि- कायां व्यवस्थापितं यस्य संक्षिप्तार्थस्यु कात्यायनशब्दे १८६५ पृष्ठादो दर्शितः । तदनुसारेण स्मार्त्तादिसम्मत- व्यवस्था प्रदर्श्यते तत्र एकादशीतत्त्वे उक्तं यथा स्कन्दपुराणम् “पुत्रञ्च विनियोपेतं भनिनीं भ्रातर- न्तथा । एपामभाव एवान्य ब्राह्मणं विनियोजयेत्” । नरुडपुराणम् “भार्य्या भर्तृव्रतं कुर्य्याद्भार्य्यायाश्च पति- स्तथा । असामर्थ्य द्वयोस्ताभ्यां व्रतभङ्गो न जायते” । वराहपुराणे “पितृमातृपतिभ्रातृस्वसृगुर्वादिभूभुजाम् । अदृष्टार्थसुपोवित्वा स्वयश्च फलभाम् भवेत्” । अत्रैव विषये कात्यायनः “दक्षिणा नात्र कर्त्तव्या शुश्रूषा वि- हिता च सा” ननु प्रतिनिधौ ममेह शर्म इत्यादिमन्त्र- स्थफलं कुत्रान्वेतु इति चेत् प्रधान एव । तथाच शारी- रकभाष्ये श्रुतिः “यां वे काञ्चन यज्ञ आशिवमाशासते यजमानायेव तामाशासते इति होवाच” इति । ब्राह्मण सुर्वस्वे यजमानायेत्यत्र यजमानखेति पाथः । सरलायां [] सूत्रं “यां वै काञ्चन ऋत्विगाशिषमाशास्ते सा यजमा- नस्यैवेति” । अत्र ऋत्विग्यजमानपदे प्रतिनिधिप्रधानपरे आकाङ्क्षितत्वात् । अतएव प्रतिनिधिपुत्रादिना “आयान्तु नः पितरः” इत्यादिरनूह एव षठ्यते वाक्यस्य काल्पनिक- त्वान्न तथेति । कालमाधवीये “काम्ये प्रतिनिधिर्नास्ति नित्ये नैमित्तिके हि सः । काम्येषुपक्रमादूर्द्ध्वमन्ये प्रति- निधिं विदुः” यथा नित्यं नैमित्तिकञ्च प्रतिनिधिना- प्युपक्रम्य कारयेत् काम्ये तु स्वसामर्थ्यं परीक्ष्य स्वय- मेवोपक्रम्य कुर्य्यात् । असामर्थ्ये उपक्रमादूर्द्ध्वं प्रति- निधिनापि कारयेत् । एतच्च श्रौतकाम्यपरं स्मार्त्त- काम्यन्तु अन्यद्वाराप्युपक्रम्य कार्य्यम् । तथा च पराशर- भाष्ये शातातपः “श्रौतं कर्म स्वयं कुर्य्यादन्योऽपि स्मार्त्त- माचरेत् । अशक्तौ श्रौतमप्यन्यः कुर्य्यादाचारमन्ततः” । अन्तत उपक्रमात् परतः । एतच्च काम्येऽपि प्रतिनिधि- विधायक नैमित्तिकमात्रपरत्वे श्रौतस्मार्त्तभेदोपादान व्यर्थं स्यात् तयोरविशेषादेव प्रतिनिधिलाभात् । अत एव भारतपाठादौ तथा समाचारः । स्मृत्यर्थसारे “ना- भावस्य प्रतिनिधिरभावान्तरमिष्यते” । सजातीयत्वे- ऽप्यभावान्तरमभावस्य प्रतिनिघिर्नेष्यते । भावस्तु कदा- चिद्यथोपवासादौ ब्राह्मणभोजनादीति । “नापि प्रतिनिधातव्यं निषिद्धं वस्तु कुत्रचित् । श्रोत्रिया- णामभोज्य यद्द्रव्यं हि तदशेषतः । ग्राह्यं प्रति- निधित्वेन होमकार्य्ये न कुत्रचित् । द्रव्यं वैकल्पिकं किञ्चिद् यत्र सङ्कल्पितं भवेत् । तदभावे सदृग् ग्राह्यं न तु वैकल्पिकान्तरम् । उपात्ते तु प्रतिनिधौ सुख्या- र्थो लभ्यत यदि । तत्र मुख्यमनादृत्य गौणेनैव समा- पयेत् । संस्काराणामयोग्योऽपि मुख्य एव हि लभ्यते । न तु संस्कारयोम्योऽन्यो गृह्यते प्रतिरूपकः । मुख्ये कार्य्यासमर्थे तु लब्धेऽप्येतस्य नादरः । प्रतिरूपक- मादाय शक्तमेवोपजायते । कार्य्यैरूपैस्तथा पत्रैः क्षीरैः पुष्पैस्तथा फलैः । गन्धै रसैः सदृग् ग्राह्यं पूर्वालाभे षरं परम् । ग्राम्याणान्तु मवेद्ग्राम्यमारण्यानामर- ण्यजम् । यवालाभे तु गोघूमास्तथा रेणुयवादयः । हविष्ये गोर्घृतं ग्राह्यं तदभावेऽपि माहिषम् । आजं वा तदभावे तु साक्षात्तैलं प्रयुज्यते । तैलाभावे ग्रही- तव्यं तैलजं तिलसम्भवम्” । तलजं तैलभृष्टं तिल- सम्भवम तिलपिष्टादि । “तदभावे तृ सस्नेहं कौ- सुम्भं सर्षपोद्भव
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
प्रतिनिधिः, पुं, (प्रतिनिधीयते सदृशीक्रयते इति । प्रति + नि + धा + “उपसर्गे धोः किः ।” ३ । ३ । ९२ । इति किः ।) प्रतिमा । इत्यमरः । २ । १० । ३६ ॥ सदृशः । (यथा, रघौ । १ । ८१ । “सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः । आराधय सपत्नीकः प्रीता कामदुघा हि सा ॥”) तस्य विवेचनं यथा । “अत्यन्तासामर्थेषु स्कन्द- पुराणम् । ‘पुत्त्रं वा विनयोपेतं भगिनीं भ्रातरं तथा । एषामभाव एवान्यं ब्राह्मणं विनियोजयेत् ॥’ गरुडपुराणे । ‘भार्य्या भर्त्तृव्रतं कुर्य्यात् भार्य्यायाश्च पतिस्तथा । असामर्थ्ये तयोस्ताभ्यां व्रतभङ्गो न जायते ॥’ वराहपुराणे । ‘पितृमातृपतिभ्रातृश्वश्रूगुर्व्वादिभूभुजाम् । अदृष्टार्थमुपोषित्वा स्वयञ्च फलभागभवेत् ॥’ अत्रैव विषये कात्यायनः । ‘दक्षिणा नात्र कर्त्तव्या शुश्रूषा विहिता च या ।’ ननु प्रतिनिधौ ममेह शर्म्माद्यङ्गमन्त्रस्थफलं कुत्रान्वेति चेत् प्रधान एव । तथा च शारी- रिकभाष्ये श्रुतिः । ‘यां वै काञ्चनयज्ञऋत्विज आशिषमाशासते यजमानायैव तामाशासते इति होवाच इति ।’ ब्राह्मणसर्व्वस्वे तु यज- मानायेत्यादौ यजमानस्यैव सेतिं पाठे विशेषः । तथा च सरलायां सूत्रम् । ‘यां वै काञ्चनयज्ञ- ऋत्विगाशिषमाशास्ते सा यजमानस्यैवेति ।’ ऋत्विग्यजमानपदे प्रतिनिधिप्रधानपरे आका- ङ्क्षितत्वादिति । अतएव प्रतिनिधिपुत्त्रादिनाप्या- यान्तु नः पितर इत्यादिवदनूह एव पठ्यते वाक्यस्य काल्पनिकत्वात्तत्र न तथेति ॥ * ॥ अत्र प्रतिनिधिप्रसङ्गेन स्मृत्यनुसारात् किञ्चि- ल्लिख्यते । कालमाधवीये । ‘काम्ये प्रतिनिधिर्नास्ति नित्यनैमित्तिके हि सः । काम्येषूपक्रमादूर्द्ध्वमन्ये प्रतिनिधिं विदुः ॥’ अस्यार्थस्तु माधवाचार्य्येणाभिहितः । यथा नित्यनैमित्तिकं प्रतिनिधिनाप्युपक्रम्य कारयेत् । काम्यन्तु स्वसामर्थ्यं परीक्ष्य स्वयमेव उपक्रम्य कुर्य्यात् । असामर्थ्ये तु उपक्रमादूर्द्ध्वं प्रतिनिधि- नापि तत्कारयेत् । एतच्च काम्यं श्रौतपरम् । काम्यस्मार्त्तन्तु अन्यद्बाराप्युपक्रम्य कुर्य्यात् । तथा च पराशरभाष्ये शातातपः । [] ‘श्रौतं कर्म्म स्वयं कुर्य्यादन्योऽपि स्मार्त्तमाचरेत् । अशक्तौ श्रौतमप्यन्यः कुर्य्यादाचारमन्ततः ॥’ अन्ततः उपक्रमात् परतः । अन्यथा नित्य- नैमित्तिकमात्रपरत्वे श्रौतस्मार्त्तभेदेनोपादानं व्यर्थं स्यात्तयोरविशेषादेव प्रतिनिधिलाभात् । अतएव भारतपाठादौ तथा समाचारः ॥ * ॥ स्मृत्यर्थसारे । ‘नाभावस्य प्रतिनिधिरभावान्तरमिष्यते ।’ सजातीयमप्यभावान्तरमभावस्य प्रतिनिधि- र्नेष्यते । भावस्तु कदाचित् । यथोपवासादौ- ब्राह्मणभोजनादि । ‘नापि प्रतिनिधातव्यं निषिद्धं वस्तु कुत्रचित् । श्रोत्रियाणामभोज्यञ्च यद्द्रव्यं तदशेषतः । ग्राह्यं प्रतिनिधित्वेन होमकार्य्ये न कुत्रचित् ॥ द्रव्यं वैकल्पिकं किञ्चिद्यत्र सङ्कल्पितं भवेत् । तदलाभे सदृग्ग्राह्यं न तु वैकल्पिकान्तरम् ॥ उपात्ते तु प्रतिनिधौ मुख्यार्थो लभ्यते यदि । तत्र मुख्यमनादृत्य गौणेनैव समापयेत् ॥ संस्काराणामयोग्योऽपि मुख्य एव हि गृह्यते । न तु संस्कारयोग्योऽन्यो गृह्यते प्रतिरूपकः ॥ मुख्ये कार्य्यासमर्थे तु लब्धेऽप्येतस्य नादरः । प्रतिरूपमुपादाय शक्तमेवोपयुज्यते ॥ काष्ठै रूपैस्तथा पर्णैः क्षीरैः पुष्पैः फलैस्तथा । गन्धै रसैः सदृग्ग्राह्यं सर्व्वालाभे परं परम् ॥ ग्राम्याणान्तु भवेद्ग्राम्यमारण्यानामरण्यजम् । यवाभावे तु गोधूमास्तथा वेणुयवादयः ॥ हविष्ये गोघृतं ग्राह्यं तदलाभे तु माहिषम् । आजं वा तदलाभे तु साक्षात्तैलं प्रयुज्यते ॥ तैलाभावे ग्रहीतव्यं तैलजं तिलसम्भवम् ॥’ तैलजं तिलसम्भवं तैलभृष्टतिलपिष्टम् । ‘तदभावे तु सस्नेहं कौसुम्भं सर्षपोद्भवम् ॥
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "प्रतिनिधि" आता है (9)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬