प्रदीपः, पुं, (प्रकर्षेण दीपयति प्रकाशयति प्रदी- प्यते इति वा । प्र + दीप् + णिच् वा + कः ।) [] दीपः । इत्यमरः । २ । ७ । १६८ ॥ तत्पर्य्यायः । स्नेहादीपकः २ कज्जलध्वजः ३ शिखातरुः ४ गृहमणिः ५ ज्योत्स्नावृक्षः ६ दशेन्धनः ७ दोषातिलकः ८ दोषास्यः ९ नयनोत्सवः १० । इति शब्दरत्नावली ॥ (यथा, रघौ । ५ । ३७ । “रूपं तदोजस्वि तदेव वीर्य्यं तदेव नैसर्गिकमुन्नतत्वम् । न कारणात् स्वाद्बिभिदे कुमारः प्रवर्त्तितो दीप इव प्रदीपात् ॥”) दीपमाहात्म्यम् । यथा, -- “दीपेन लोकान् जयति दीपस्तेजोमयः स्मृतः । चतुर्व्वर्गप्रदो दीपस्तस्माद्दीपं यजेत् प्रिये ! ॥” सप्तप्रकारा दीपा यथा, -- “घृतप्रदीपः प्रथमस्तिलतैलोद्भवस्ततः । सार्षपः फलनिर्यासजातो वा राजिकोद्भवः ॥ दधिजश्चान्नजश्चैव प्रदीपाः सप्त कीर्त्तिताः ॥” तस्य पञ्चप्रकारा वर्त्तिका यथा, -- “पद्मसूत्रभवा दर्भगर्भसूत्रभवाथवा । सालजा वादरी वापि फलकोषोद्भवाथवा ॥ वर्त्तिका दीपकृत्येषु सदा पञ्चविधाः स्मृताः ॥” दीपपात्राणि यथा, -- “तैजसं दारवं लौहं मार्त्तिक्यं नारिकेलजम् । तृणध्वजोद्भवं वापि दीपपात्रं प्रशस्यते ॥” * ॥ दीपवृक्षे दीपस्थापनं भूमौ तन्निषेधश्च यथा, -- “दीपवृक्षाश्च कर्त्तव्यास्तैजसाद्यैश्च भैरव ! । वृक्षे च दीपो दातव्यो न तु भूमौ कदाचन ॥ सर्व्वंसहा वसुमती सहते न त्विदं द्बयम् । अकार्य्यपादघातञ्च दीपतापन्तथैव च ॥ तस्माद्यथा तु पृथिवी तापं नाप्नोति वै तथा । दीपं दद्यान्महादेव्यै अन्येभ्योऽपि च भैरव ! ॥ कुर्व्वन्तं पृथिवीतापं यो दीपमुत्सृजेन्नरः । स ताम्रतापं नरकमाप्नोत्येव शतं समाः ॥ * ॥ सुवृत्तवर्त्तिः सस्नेहः पात्रेऽभग्ने सुदर्शने । सूच्छ्राये वृक्षकोटौ तु दीपं दद्यात् प्रयत्नतः ॥ लभ्यते यस्य तापस्तु दीपस्य चतुरङ्गुलात् । न स दीप इति ख्यातो ह्योघवह्निस्तु स श्रुतः ॥ नेत्राह्लादकरः सर्व्वभूमितापविवर्ज्जितः । सुशिखः शब्दरहितो निर्धूमो नातिह्रस्वकः ॥ दक्षिणावर्त्तवर्त्तिस्तु प्रदीपः श्रीविवृद्धये । दीपवृक्षस्थिते शुद्धस्नेहेनैव प्रपूरिते ॥ दक्षिणावर्त्तवर्त्त्या तु चारुदीपः प्रदीपकः । उत्तमः प्रोच्यते पुत्त्र ! सर्व्वतुष्टिप्रदायकः ॥ वृक्षेण वर्ज्जितो दीपो मध्यमः परिकीर्त्तितः । विहीनः पात्रतैलाभ्यामधमः परिकीर्त्तितः ॥” इति कालिकापुराणे ६८ अध्यायः ॥ * ॥ कार्त्तिके तद्दानफलं यथा, -- “कार्त्तिके मासि यो दद्यात् प्रदीपं सर्पिरादिना । आकाशे मण्डले वापि स चाक्षयफलं लभेत् ॥” इति कर्म्मलोचनम् ॥ * ॥ अपि च । “समभ्यर्च्च्य हरिं भक्त्या दीपं दत्त्वा दिवानिशम् । तत्र पापविशुद्धात्मा नरो याति दिवं नृप ! ॥ [] कृष्णपक्षे विशेषेण तत्र पञ्च दिनानि तु । पुण्यानि तेषु यद्दत्तमक्षयं सर्व्वकामिकम् ॥ एकादश्यां हरिमुद्दिश्य दीपं प्रज्वाल्य मूषिका । मानुष्यं दुर्लभं प्राप्य परां गतिमवाप सा ॥ द्वादश्यां तस्करो रात्रिदीपमुद्बोध्य चौर्य्यतः । कारणात् परमं प्राप्तो लोकं विष्णोः सनातनम् ॥ श्वपचोऽपि त्रयोदश्यां दीपान् दत्त्वापरैः कृतान् । वेश्या लीलावती भूत्वा जगाम स्वर्गमक्षयम् ॥ लुब्धकोऽपि चतुर्द्दश्यां पूजयित्वा जनार्द्दनम् । निर्भक्तिः परसंगत्या विष्णुलोकं जगाम सः ॥ गोपः कश्चिदमावास्यां पूजां दृष्ट्वाथ शार्ङ्गिणः । सुदुर्जयस्त्वजापालो राजराजेश्वरोऽभवत् ॥ तस्माद्दीपाः प्रदातव्या रात्रावस्तमिते रवौ । गृहेषु सर्व्वगोष्ठेषु चैत्येष्वायतनेषु च ॥ देवानाञ्चैव रथ्यासु श्मशानेषु सरःसु च ॥” इत्यग्निपुराणम् ॥
📄 मूल मुद्रित पृष्ठ (3-275-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।