बौध्य पु० वोधस्य गोत्रापत्यमाङ्गिरसः यञ् । आङ्गिरसे बोध- गोत्रापत्ये तद्गीता च भा० शा० १७८ अ० दर्शिता यथा “बौध्य उवाच । “उपदेशेन वर्त्तामि नानुशास्मीह कञ्चन । लक्षणं तस्य वक्ष्येऽहं तत्स्वयं परिमृश्यताम् । पि- ङ्गला कुररः सर्पः सारङ्गान्वेषणं वने । इषुकारः कु- मारी च षडेते गुरवो मम” । भीष्म उवांच “आशा- बलवती राजन्नैराश्यं परमं सुखम् । आशां निराशां कृत्वा तु सुखं स्वपिति पिङ्गला १ । सामिषं कुररं दृष्ट्वा बध्यमानं निरामिषैः । आमिषस्य परित्यागात् कुररः २ सुखमेधते । गृहारम्भो हि दुःखाय न सुखाय कदा- चन । सर्पः ३ परकृतं वेश्म प्रविश्य सुखमेधते । सुखं जीवन्ति मुनयो भैक्ष्यवृत्तिं समाश्रिताः । अद्रोहेणैव भूतानां सारङ्गा ४ इव पक्षिणः । इषुकारो ५ नरः कश्चि- दिषावासक्तमानसः । समीपेनापि गच्छन्तं राजानं नाव- बुद्धवान् । बहूनां कलहो नित्यं द्वयोः सङ्कथनं ध्रुवम् । एकाकी विचरिष्यामि कुमारीशङ्खको ६ यथा” । बोधो देशभेदोऽभिजनोऽस्य शण्डिक्या० ञ्य । पित्रादि- क्रमेण २ तद्देशवासिनि त्रि० ।
📄 मूल मुद्रित पृष्ठ (4591,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।