मरुवकः, पुं, (मरुव + स्वार्थे इवार्थे वा कन् ।) कण्टकिवृक्षविशेषः । मयना इति भाषा । तत्पर्य्यायः । पिण्डीतकः २ श्वसनः ३ करहा- टकः ४ शल्यः ५ मदनः ६ । (पर्य्यायान्तरं यथा, -- “मदनश्छर्द्दनः पिण्डो नटः पिण्डीतकस्तथा । करहाटो मरुवकः शल्यको विषपुष्पकः ॥”) स्वल्पपत्रतुलसी । तत्पर्य्यायः । समीरणः २ प्रस्थपुष्पः ३ फणिज्झकः ४ जम्बीरः ५ । इत्यमरः । २ । ४ । ७९ ॥ (एतत्पर्य्यायो यथा, -- “मरुत्तको मरुवको मरुभ्मरुरपि स्मृतः । फणी फणिज्कश्चापि प्रस्थपुष्पः समीरणः ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) जम्बीरभेदः । इत्यमरटीकायां भरतः ॥ पुष्प- वृक्षविशेषः । मरुयाफुल इति भाषा । तत्- र्य्यायः । शुक्लपुष्पः २ तिलकः ३ कुलकः ४ । क्षुपविशेषः । नागदाना इति भाषा । तत्- पर्य्यायः । खरपत्र २ गन्धपत्रः ३ । इति रत्न- माला ॥ व्याघ्रः । राहुः । भयानके, त्रि । इति जटाधरः ॥
📄 मूल मुद्रित पृष्ठ (3-640-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।