🕉️ 27 November 2026, Friday · 08:56:02 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

यज्ञसूत्र
yajñasūtra
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
यज्ञसूत्र संज्ञा पुं॰ [सं॰] यज्ञोपवीत । जनेऊ ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
यज्ञ—सूत्र n. the sacrificial thread or cord (see यज्ञोपवीत), R.
📄 मूल मुद्रित पृष्ठ (840,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
यज्ञसूत्र न० यज्ञार्थं योग्यं संस्कृतं वा सूत्रं शाक० त० । यज्ञोपवीते जटा० । तत्स्वरूपादि यथा “ऊर्द्धन्तु त्रिवृतं सूत्रं सधवानिर्मितं शनैः । तन्तुत्रय- [] मधोवृत्तं यज्ञसूत्रं विदुर्वुधाः । त्रिगुणं तद्ग्रन्थियुक्तं वेदप्रवरसम्मितम् । शिरोधरान्नाभिमध्यात् पृष्ठार्द्ध परिमाणकम् । यजुर्विदां नाभिमितं सामगानामयं विधिः । वामस्कन्धेन विधृतं यज्ञसूत्रं वलप्रदम्” कालिकापु० ४ अ० । “उपवीतमाह गोभिलः “यज्ञोपवीतं कुरुते सूत्रं वस्त्रं वा अपि वा कुशरज्ज्वुमेव” । यज्ञोप- वीतं विशिष्टविन्यासधारणकर्मतया कुरुते । किं तत्- सूत्रं विशेषयति छन्दोगपरिशिष्टम् “ऊर्द्धन्तु त्रिवृतं कार्य्यं तन्तुत्रयमधोवृतम् । त्रिवृतञ्चोपवीतं स्यात्तस्यैको ग्रन्थिरिष्यते” । वामावर्त्तवलितं तन्तुत्रयं त्रिगुणं कृत्वा दक्षिणावर्तवलितं कार्य्यम् एवं त्रिवृतं त्रिवृतम् उपवीतं स्यात् एकोग्रन्थिरिति नानात्वनिषेधार्थम् । तथा च बोधायनः “कौषां सूत्रं त्रिस्त्रिवृतं यज्ञोपवीमानाभेः” । कौषं कृंमकाषोद्भवं पट्टसूत्रादिमयमित्यथैः । सौत्रं कार्पासोद्भवम् । तथाच मनुः “कार्पासमुपवीतं स्यात् विप्रस्योर्द्धवृतं त्रिवृत् । शणसूत्रमयं राज्ञो वैश्यस्या- विकसौत्रिकम्” । त्रिस्त्रिवृतमित्युक्तत्वात् मनुवचनेऽपि त्रिवृन्मात्रं त्रिरावृत्तत्वेन विशेष्यम् । यत्तु पैठीनसिवच- नम् “कार्पासमुपधीतं षट्तन्तु त्रिवृतं ब्राह्मणस्य । क्षौमं राजन्यस्य आविकं वैश्यस्य” । तन्नवतन्त्वसम्भवे षट्तन्तु विधायकम् । नवतन्तुत्वं व्यक्तमाह देवलः “यज्ञोपवीतं कुर्वीत सूत्राणि नवतन्तुभिः । एकेन ग्रन्थिना तन्तुर्द्वि- गुण स्त्रगुणोऽथवा” । एकेन ग्रन्थिना युक्त इति शेषः । द्विगुणश्त्रीगुणोऽथ वेति तन्तुवलेन द्विसवो स्त्रिसवो वा कर्त्तव्यः । द्विसवत्वं त्रिसवत्वासम्भवे । गोभिले वा शब्दो विकल्पार्थः । अपिशब्दो वस्त्रकुशरज्ज्वोः सूत्रानुकल्पत्वप्रदर्शनार्थः । एवकारोऽत्रिसवत्वव्यव- छेदार्थः । द्वितीयो वाशब्दोऽनुक्तमौञ्जवालादिसमुच्च- यार्थः । तथा च निगमपरिशिष्टम् “वाससा यज्ञोपवीतानि कुरुते तदमावे त्रिवृता सूत्रेण कुशमुञ्जवालप्रतिसव रज्जुभिर्वा । वालोऽत्र गोवालः यथाह देवलः “कार्पास क्षौमगोवाल वररज्जुतृणोद्भवम् । सदा सम्भवतो धार्य्य मुपवीतं द्विजातिभिः” । तदभाव इतिकरणाद्वस्त्राभावे कुशरज्जुभिरिति वोद्धव्यम्” । श्रा० वि० ।
📄 मूल मुद्रित पृष्ठ (4770-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
यज्ञसूत्रं, क्ली, (यज्ञे धृतं सूत्रम् ।) यज्ञोपवीतम् । यथा, -- “पवित्रं यज्ञसूत्रञ्च यज्ञोपवीतमित्यपि । यज्ञसूत्रं तदेवोपवीतं स्याद्दक्षिणे भुजे ॥ उद्धृते वामवाहौ तु प्राचीनावीतमप्यदः । निवीतन्तु तदेव स्यादूर्द्ध्ववक्षसि लम्बितम् ॥” इति जटाधरः ॥ तस्य प्रमाणं यथा, -- “ऊर्द्ध्वन्तु त्रिवृतं सूत्रं सधवानिर्म्मितं शनैः । तन्तुत्रयमधोवृत्तं यज्ञसूत्रं विदुर्ब्बुधाः ॥ त्रिगुणं तद्ग्रन्थियुक्तं वेदप्रवरसम्मितम् । शिरोधरान्नाभिमध्यात् पृष्ठार्द्धपरिमाणकम् ॥ यजुर्व्विदां नाभिमितं सामगानामयं विधिः । वामस्कन्धेन विधृतं यज्ञसूत्रं बलप्रदम् ॥” इति कल्किपुराणे ४ अध्यायः ॥ अस्य धारणे मन्त्रो यथा, -- “यज्ञोपवीतमसि यज्ञस्य त्वोपवीतेनोपन- ह्यामि ।” इति संस्कारतत्त्वधृतभट्टभाष्यम् ॥ यजुषान्तु, -- “यज्ञोपवीतं परमं पवित्रं बृहस्पतेर्यत् सहजं पुरस्तात् । आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥” इति पशुपतिः ॥ युगभेदे तत्सूत्रनियमो यथा, -- “सत्ये स्वर्णमयं सूत्रं त्रेतायां राजतं तथा । द्वापरे ताम्रजं प्रोक्तं कलौ कार्पाससम्भवम् ॥” इति बृहद्राजमार्त्तण्डः ॥ अन्यच्च । “यज्ञार्थं धार्य्यते सूत्रं यज्ञं ब्रह्मण्यमिष्यते । स्वर्णं रौप्यं ताम्रमूर्णं पट्टं कार्पासवार्हिषम् ॥ मृगाजिनं गुटं शङ्खी यथालब्धं निधाय च । यज्ञसूत्रं परिचरेद्ब्रह्मलिङ्गक्रियात्मकम् ॥ न तत्र नियमो ग्राह्यः सूत्रब्रह्मण्यशङ्कया ॥” इति बृद्धादित्यसंहिता ॥
📄 मूल मुद्रित पृष्ठ (4-008-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "यज्ञसूत्र" आता है (3)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬