🕉️ 19 November 2026, Thursday · 09:10:19 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

रंभ
raṃbha
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
रंभ संज्ञा पुं॰ [सं॰ रम्भ]
१. बाँस ।
२. एक प्रकार का वाण ।
३. पुराणानुसार महिषासुर के पिता का नाम । विशेष— इसने महादेव से वर पाकर महिषासुर को पुत्र रुप में प्राप्त किया था । यह भी कहा जाता है कि यही दूसरे जन्म में रक्तवीज हुआ था ।
४. भारी शब्द । कलकल । हलचल । उ॰— माथे रंभ समुद्र जस होई ।—जायसी (शब्द॰) । ५ धूर । धूलि (को॰) ।
६. छड़ी । दंड । डंडा (को॰) ।
७. सहारा । आसरा (को॰) ।
८. एक वानर का नाम (को॰) ।
९. कदली । केला ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
1. रम्भ m. (for 2. See p. 868, col. 2) a prop, staff, support, RV. viii, 45, 20
a bamboo, L.
N. of the fifth Kalpa (q.v.), Cat.
of the father of the Asura Mahiṣa and brother of Karambha, ib.
of a Nāga, VP.
of a son of Āyu, Hariv.; Pur.
of a son of Viviṃśati, BhP.
of a king of Vajra-rātra, Kathās.
of a monkey, R.
1. रम्भ &c. See p. 867, col. 2.
2. रम्भ mfn. sounding, roaring, lowing &c. (see गो-र्˚)
📄 मूल मुद्रित पृष्ठ (867,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
रंभः 1 Sounding, roaring &c. --2 A support, prop. --3 A stick. --4 A bamboo. --5 Dust.
📄 मूल मुद्रित पृष्ठ (0905-a)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
रम्भ पु० रभि--अच् मुम् । १ रेणौ २ असुरभेदे च मेदि० । स च महिषासुरजनकः कालिकापु० । ४ कदल्याम् ५ अप्सरोभेदे स्त्री मेदि० ६ वेश्यायां धरणिः । ७ गवां ध्वनौ हेमच० । ८ गौर्य्याञ्च स्त्री शब्दर० । ९ उत्तरस्यां दिशि निघण्टुः ।
📄 मूल मुद्रित पृष्ठ (4793,a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
रम्भः, पुं, (रम्भते रागमूर्च्छनादिकमनेनेति । रभि + कर्म्मणि घञ् ।) वेणुः । (रम्मते उद्यम- शीलो भवति निरन्तरमुदरभरणायेति भावः । रभि + अच् ।) वानरविशेषः । इति मेदिनी । भे, ७ ॥ महिषासुरपिता । यथा, -- श्रीऔर्व्व उवाच । “आराधितो महादेवो रम्भेण सुरवैरिणा । चिरेण स च सुप्रीतस्तपसा तस्य शङ्करः ॥ अथ तुष्टो महादेवः प्रत्यक्षं रम्भमुक्तवान् । प्रीतोऽस्मि ते वरं रम्भ वरयस्व यथेप्सितम् ॥ एवमुक्तः प्रत्युवाच रम्भस्तं चन्द्रशेखरम् । अपुत्त्रोऽहं महादेव यदि ते मय्यनुग्रहः ॥ मम जन्मत्रये पुत्त्रो भवान् भवतु शङ्कर । एवमुक्तस्तु दैत्येन प्रत्युवाच वृषध्वजः ॥ भवत्वेतद्वाञ्छितं ते भविष्यामि सुतस्तव । इत्युक्त्वा स महादेवस्तत्रैवान्तरधीयत ॥ रम्भोऽपि यातः स्वस्थानं हर्षोत्फुल्लविलोचनः । पथि गच्छन् स रम्भोऽथ ददृशे महिषीं शुभाम् ॥ त्रिहायणीं चित्रवर्णां सुन्दरीं ऋतुशालिनीम् । स तां दृष्ट्वाथ महिषीं रम्भः कामेन मोहितः ॥ दोर्भ्यां गृहीत्वा च तदा चकार सुरतोत्सवम् । तयोः प्रवृत्ते सुरते सा तदा तस्य तेजसा ॥ दधार महिषी गर्भं तदाभून्महिषासुरः ॥” इति कालिकापुराणे ५९ अध्यायः ॥ (असौ एव जन्मान्तरे रक्तबीजो जातः । एतद्विवरणं यथा, देवीभागवते । ५ । २ । १७-४९ । व्यास उवाच । “दनोः पुत्त्रौ महाराज ! विख्यातौ क्षिति- मण्डले । रम्भश्चैव करम्भश्च द्बावास्तां दानवोत्तमौ ॥ तावपुत्त्रौ महाराज ! पुत्त्रार्थं तेपतुस्तपः । बहून् वर्षगणान् कामं पुण्ये पञ्चनदे जले ॥ करम्भस्तु जले मग्नश्चकार परमं तपः । वृक्षं रसालवटं प्राप्य स रम्भोऽग्निमसेवत ॥ पञ्चाग्निसाधनासक्तः स रम्भस्तु यदाभवत् । ज्ञात्वा शचीपतिर्दुःखमुद्ययौ दानवौ प्रति ॥ [] गत्वा पञ्चनदे तत्र ग्राहरूपं चकार ह । वासवस्तु करम्भन्तं तदा जग्राह पादयोः ॥ निजघान च तं दुष्टं करम्भं वृत्रसूदनः । भ्रातरं निहतं श्रुत्वा रम्भः कोपं परङ्गतः ॥ स्वशीर्षं पावके होतुमैच्छच्छित्वा करेण ह । केशपाशे गृहीत्वाशु वामेन क्रोधसंयुतः ॥ दक्षिणेन करेणोग्रं गृहीत्वा खड्गमुत्तमम् । छिनत्ति शीर्षं तत्तावद्बह्निना प्रतिबोधितः ॥ उक्तश्च दैत्य मूर्खोऽसि स्वशीर्षं छेत्तुमिच्छसि । आत्महत्यातिदुःसाध्या कथं त्वं कर्त्तुमुद्यतः ॥ वरं वरय भद्रं ते यस्ते मनसि वर्त्तते । मा म्रियस्व मृतेनाद्य किन्ते कार्य्यं भविष्यति ॥ व्यास उवाच । तच्छ्रुत्वा वचनं रम्भः पावकस्य सुभाषितम् । ततोऽब्रवीद्बचो रम्भस्त्यक्त्वा केशकलापकम् ॥ यदि तुष्टोऽसि देवेश ! देहि मे वाञ्छितं वरम् । त्रैलोक्यविजयी पुत्त्रः स्यान्नः परबलार्द्दनः ॥ अजेयः सर्व्वथा स स्याद्देवदामवमानवैः । कामरूपी महावीर्य्यः सर्व्वलोकाभिवन्दितः ॥ पावकस्तं तथेत्याह भविष्यति तवेप्सितम् । पुत्त्रस्तव महाभाग ! मरणाद्विरमाधुना ॥ यस्यां चित्तं तु रम्भ ! त्वं प्रमदायां करिष्यसि । व्यास उवाच । तस्यां पुत्त्रो महाभाग ! भविष्यति बलाधिकः ॥ इत्युक्तो वह्निना रम्भो वचनं चित्तरञ्जनम् । श्रुत्वा प्रणम्य प्रययौ वह्निं तं दानवोत्तमः ॥ यक्षैः परिवृतं स्थानं रमनीयं श्रियान्वितम् । दृष्ट्वा चक्रे तदा भावं महिष्यां दानवोत्तमः ॥ मत्तायां रूपपूर्णायां त्रिहायन्यां च योषितम् । सा समागाच्च तरसा कामयन्ती मुदान्विता ॥ रम्भोऽपि गमनं चक्रे भवितव्यप्रणोदितः । सा तु गभवती जाता महिषी तस्य वीर्य्यतः ॥ तां गृहीत्वाथ पातालं प्रविवेश मनोहरम् । महिषेभ्यश्च तां रक्षन् प्रियामनुमतां किल ॥ कदाचित् महिषश्चान्यः कामार्त्तस्तामुपाद्रवत् । स्वयमागत्य तं हन्तुं दानवः समुपाद्रवत् ॥ स्वरक्षार्थं समागम्य महिषं समताडयत् । सोऽपि तं निजघानाशु शृङ्गाभ्यां काममोहितः ॥ ताडितस्तेन तीक्ष्णाभ्यां शृङ्गाभ्यां हृदये भृशम् । भूमौ पपात
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें