लाङ्गली, [न्] पुं, (लाङ्गलमस्त्यस्येति । लाङ्गल + इनिः ।) बलरामः । इति शब्दरत्नावली ॥ (यथा, हरिवंशे । ३८ । ३८ । “स्थापयित्वा विलद्वारि यदून् लाङ्गलिना सह । शार्ङ्गधन्वा विलस्थन्तु जाम्बवन्तं ददर्श ह ॥”) नारिकेलः । इत्यमरः ॥ (यथा, -- “नारिकेलो दृढफलो लाङ्गली कूर्च्चशीर्षकः । तुङ्गस्कन्धफलश्चैव तृणराजः सदाफलः ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) सर्पः । इति शब्दचन्द्रिका ॥ (लाङ्गलविशिष्टे, त्रि । यथा, रामायणे । २ । ३२ । ३० । [] “तत्रासीत् पिङ्गलो गार्ग्यस्त्रिजटोंनामवै द्बिजः । क्षतवृत्तिर्वने नित्यं फालकुद्दाललाङ्गली ॥” तथा, महाभारते । १ । २२२ । ५३ । “रामः पाणिग्रहणिकं ददौ पार्थाय लाङ्गली ॥” स्त्रियां ङीष् । नदीविशेषः । यथा, मार्कण्डेये । ५७ । २९ । “लाङ्गलिनी वंशकरा महेन्द्रप्रभवाः स्मृताः ॥”)
लाङ्गली, स्त्री, (लाङ्गलाकारोऽस्त्यस्या इति । लाङ्गल + अच् । ङीष् ।) लाङ्गलाकारपुष्प- जलजशाकविशेषः । काँचडा इति भाषा । तत्पर्य्यायः । शारदी २ तोयपिप्पली ३ शकुला- दनी ४ । इत्यमरः ॥ जलाक्षी ५ जलपिप्पलिः ६ । इति शब्दरत्नावली ॥ पित्तला ७ श्यामा- दिनी ८ मत्स्यगन्धा ९ । इति जटाधरः ॥ कलि- कारी १० । इति राजनिर्घण्टः ॥ (शालपर्णी । तत्पर्य्यायो यथा, -- “स्थिरा विदारिगन्धा च शालपर्ण्यस्तमत्यपि । लाङ्गली कलसी चैवक्रोष्टुपुच्छा गुहा मता ॥” इति गारुडे २०८ अध्यायः ॥)
📄 मूल मुद्रित पृष्ठ (4-214-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।