व(ब)र्हिः [स्], पुं, (वृंहति वर्द्धते इति । वृहि वृद्धौ + “वृंहेर्नलोपश्च ।” उणा० २ । ११० । इति इसिः नलोपश्च ।) अग्निः । इति मेदिनी । से, ३६ ॥ दीप्तिः । इत्युणादिकोषः ॥ यज्ञः । इति हेम- चन्द्रः ॥ (यथा, ऋग्वेदे । ७ । ७५ । ८ । “नूनो गोमद्वीरवद्वेहि रत्न- मुषो अश्वावत् पुरुभोजो अस्मे । मानो बर्हिः पुरुषता निदेक- र्यूयं पातस्वस्तिभिः सदा नः ॥” “नोऽस्माकं बर्हिर्यज्ञम् ।” इति तद्भाष्ये सायणः ॥) चित्रकम् । इत्यमरः ॥ (बृहद्राजस्य पुत्त्रः । यथा, भागवते । ९ । १२ । १३ । “बृहद्राजस्तु तस्यापि वर्हिस्तस्मात् कृत- ञ्जयः ॥”)
व(ब)र्हिः [स्], पुं, क्ली, (वृंहति वर्द्धते इति । वृहि वृद्धौ + “वृंहेर्नलोपश्च ।” उणा० २ । ११० । इति इसिः नलोपश्च ।) कुशः । इति मेदिनी । से, ६३ ॥ (यथा, कुमारे । १ । ६१ । “अवचितवलिपुष्पा वेदिसन्मार्गदक्षा नियमविधिजलानां वर्हिषाञ्चोपनेत्री ॥”)
वर्हिः [स्] क्ली, (वृंहतीति । वृहि वृद्धौ + इसिः नलोपश्च ।) ग्रन्थिपर्णम् । इति शब्दरत्ना- वली ॥
📄 मूल मुद्रित पृष्ठ (4-298-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।