🕉️ 21 November 2026, Saturday · 09:28:21 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

वातरक्त
vātarakta
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
वातरक्त संज्ञा पुं॰ [सं॰] एक रोग जिसमें कुपथ्य और अयुक्ताहार विहार से रक्त वायु से दूषित हो जाता है । विशेष—इसमें पैर के तलवे से घुटने तक छोटी छोटी फुंसियाँ हो जाती हैं, जठराग्नि मंद पड़ जाती है और शरीर दुर्बल होता जाता है ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
वात—रक्त m. w˚ (in the body) and blood, Suśr.
acute gout or rheumatism (ascribed to a vitiated state of w˚ and blood), ib. (cf. -शोणित)
📄 मूल मुद्रित पृष्ठ (934,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
वातरक्तं, क्ली, (वातदूषितं रक्तं यत्र ।) रोग- विशेषः । तस्य विप्रकृष्टं निदानमाह । “लवणाम्लकटुक्षारस्निग्धोष्णाजीर्णभोजनैः । क्लिन्नशुष्काम्बुजानूपमांसपिण्याकमूलकैः ॥ कुलत्थमासनिष्पावशाकादिपललेक्षुभिः । दध्यारनालसौवीरशुक्ततक्रसरासवैः ॥ विरुद्धाध्यशनक्रोधदिवास्वप्नातिजागरैः । प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम् । स्थूलानां सुखिनां चापि प्रकुप्येद्वातशोणितम् ॥ हस्त्यश्वोष्ट्रैर्गच्छतश्चाश्नतश्च विदाह्यन्नं संविदाहाशनस्य ॥ * ॥ क्षारो यवक्षारादिः । अजीर्णभोजनैः अजी- र्णाय भोजनैः । अतिमात्रभोजनैरित्यर्थः । क्लिन्नादीनि मांसस्य विशेषणानि । क्लिन्नं शटि- तम् । शुष्कमातपे शोषितम् । अम्बुजं मत्स्यादि- मांसम् । आनूपं गौडादिपूर्व्वदेशजं मांसम् । पिण्याकं तिलखलिः । मूलकं प्रसिद्धमेव । निष्पावः वोडाशाकम् । शाकं पत्रशाकम् । आदिशब्देन वृन्ताकादीनि फलशाकानि गृह्यन्ते । पललं शटितत्वादिदोषरहितमपि मांसं वात- शोणितं प्रकोपयेत् । शटितादि तु मांसं विशेषतो वातशोणितं प्रकोपयेत् । आरनालं सन्धानभेदः । शुक्तं सन्धानभेदः । सौवीरं सन्धानभेदः । तक्रं चतुर्थांशजलयुक्तं बस्त्रपूतं दधि । सुरा सन्धानभेदः । आसवः सन्धान- भेदः । विरुद्धं क्षीरमत्स्यादि । अध्यशनम् । अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते । अतिजागरो निशि । प्रायशः बाहुल्येन । सुकु- माराणां अल्पतरकायव्यापाराणाम् । अथवा मिथ्याहारविहारिणाम् । अयथाहारविहा- राभ्यां स्थूलानां सुखिनाञ्च रक्तवृद्ध्या । हस्त्य- श्वोष्ट्रैर्गच्छतः यतो वायुर्व्विवर्द्धते रुधिरञ्चाधो गच्छति । हस्त्यादय उपलक्षाणि । पद्भ्या- [] मप्यति चलतः । अश्नतः विदाह्यन्नम् । विदाहि निष्पावकुलत्थसर्षपशाकादि । संविदाहाशनस्य । संविदाहेऽशनं यस्य भुक्ते विदग्धे तदुपरि भुञ्जानस्येत्यर्थः । अध्यशनमुक्त्वाप्येतद्वचनं विदग्धाजीर्णभोजनस्य विशेषतो हेतुत्वार्थम् । पश्चात् वातशोणितं प्रकुप्येदित्यनेनान्वयः । एतेषां कारणानां मध्ये केनचिद्वायुः केन- चिदुभयमपि प्रकुप्येत् ॥ * ॥ संप्राप्तिमाह । “कृत्स्नं रक्तं विदहत्याशु तच्च दुष्टं स्रस्तं पादयोश्चीयते तु । तत् संपृक्तं वायुना दूषितेन तत्प्राबल्यादुच्यते वातरक्तम् ॥” पूर्व्वोक्तैर्हेतुभिः कृत्स्नं समस्तं रक्तं विदहति अत्र दहधातुरविवक्षितकर्म्मकः । तेन विद- हति विदग्धं भवतीत्थर्थः । तच्च दुष्टं रक्तम् । स्रस्तं अधोगतम् । पादयोश्चीयते सञ्चितं भवति । तद्रुधिरं दूषितेन स्वहेतुवायुना संपृक्तं मिलितं वातरक्तं उच्यते । ननु चैत्रस्य संप्राप्तिरुक्ता सुश्रुतेन । “शीघ्रं रक्तं दुष्टिमायाति तच्च वायोर्मार्गं संरुणद्ध्याशु वातः । क्रुद्धोऽत्यर्थं मार्गरोधात् स वायु- रत्युद्रिक्तं दूषयेदुक्तमाशु ॥” अत्र प्रथमं रक्तस्य दुष्टिरतो रक्तवातमिति व्यपदेष्टुमुचितं भवत्यत आह । तत्प्राबल्या- दिति । तस्य वातस्य दोषत्वेन प्राधान्याद्वात- रक्तमिति व्यपदिश्यते ॥ * ॥ पूर्व्वरूपमाह । “स्वेदोऽत्यर्थं न वा कार्श्यं स्मर्शाज्ञत्वं क्षतेऽति- रुक् । सन्धिशैथिल्यमालस्यं सदनं पिडकोद्गमः ॥ जानुजङ्घोरुकट्यंशहस्तपादाङ्गसन्धिषु । निस्तोदः स्फुरणं मेदो गुरुत्वं सुप्तिरेव च ॥ कण्डूः सन्धिषु रुक् दाहो भूत्वा नश्यति चास- कृत् । वैवर्ण्यं मण्डलोत्पत्तिर्व्वातासृक्पूर्व्वलक्षणम् ॥” अथाधिकृतवातस्य वातरक्तस्य लक्षणमाह । “वातेऽधिकेऽधिकं तत्र शूलस्फुरणतोदनम् । शोथस्य रौक्षं कृष्णत्वं श्यावतावृद्धिहानयः ॥ धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्गग्रहोऽतिरुक् । शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः ॥” तत्र पादयोः शूलादिकमधिकम् । यत आह सुश्रुतः । “स्पर्शोद्विग
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "वातरक्त" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें