🕉️ 19 November 2026, Thursday · 02:03:07 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

वापी
vāpī
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
वापी १ संज्ञा स्त्री॰ [सं॰] छोटा जलाशय । बावली ।
वापी २ वि॰ [सं॰ वापिन्] बोनेवाला [को॰] ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
वापी f. any pond (made by scattering or damming up earth), a large oblong pond, an oblong reservoir of water, tank, pool, lake, Mn.; MBh. &c. (cf. क्रीडा-व्˚)
a partic. constellation, VarBṛS.
📄 मूल मुद्रित पृष्ठ (941,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
वापिः --पी f. [वप्-इञ् वा ङीप्; Uṇ. 4. 125] A well, any large oblong or circular reservoir of water; वापी चास्मिन्मरकतशिलाबद्धसोपानमार्गा Me. 76. --Comp. --हः the Cātaka bird.
📄 मूल मुद्रित पृष्ठ (0959-c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
वापि(पी) स्त्री वप--इञ् वा ङीप् । “द्रोणात् दशगुणा षापी” इत्युक्तलक्षणे १ जलाशयभेदे जलाशयशब्दे दृश्यम् २ जनाशयमःत्रे च “वापीं स्नातुभितो गतासि” इति काव्यप्र० । “यो वापीमथ वा कूपं देशे वारिविवर्जिते । खानयेत् स दिवं याति विन्दो विन्दौ शतं समाः” कल्प तरौ वायुपु० तज्जलगुणाः “वाप्यं गुरु कदुक्षारं पित्तल कफवातजित्” राजवल्लभ । “वापीकूपतडागं वा पासादं वा निकेतनम् । न कुर्य्याद्वृद्धिकामस्तु अनला- निलनैरृते । आग्नेय्यां मनसस्तापो नैरृते क्रूरकर्म कृत् । वायव्यां बलवित्तञ्च पीयमाने जले प्रिवे! । स्थानस्य पःपके भागे वापीकूपतडानकम् । अग्निदाह सदा कुर्याव समानुषचतुष्पदाम् । नैरृते पीयमा- नन्तु आत्मना दुःखितो भवेत् । कन्यापि तज्जलं पीत्वा पतिं गृह्णाति कामतः” देवीपु० ।
📄 मूल मुद्रित पृष्ठ (4880,a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
वापी, स्त्री, (वापि + कृदिकारादिति ङीष् ।) दीघिका । इत्यमरः । १ । १० । २८ ॥ उप्यते पद्मादिकं अस्याम् । वाप्यां वापिरपि स्मृता । इति द्विरूपकोषः ॥ इति तट्टीकायां भरतः ॥ * ॥ तस्या लक्षणं यथा । नव्यवर्द्धमानधृतो वशिष्ठः । शतेन धनुर्भिः पुष्करिणी । त्रिभिः शतै- र्दीर्घिका । चतुर्भिर्द्रोणः । पञ्चभिस्तडागः । द्रोणाद्दशगुणा वापी । तेन चतुर्द्दिक्षु पञ्चत्रिंश- द्धस्तान्यूनतायां द्वादशशतहस्तान्तरान्यूनत्वेन दीर्घिका । चतुर्द्दिक्षु चत्वारिंशद्धस्तान्यूनतायां षोडशशतहस्तान्तरान्यूनत्वेन द्रोणः । चतु- र्द्दिक्षु त्रिंशदधिकशतहस्तान्यूनतायां षोडश- सहस्रहस्तान्तरान्यूनत्वेन वापी । इति जला- शयोत्सर्गतत्त्वम् ॥ * ॥ तत्खननफलं यथा, -- “यो वापीमथवा कूपं देशे वारिविवर्ज्जिते । खानयेत् स दिवं याति बिन्दौ बिन्दौ शतं समाः ॥” इति कल्पतरौ वायुपुराणम् ॥ तज्जलगुणाः । “याप्यं गुरु कटु क्षारं पित्तलं कफवातजित् ।” इति राजवल्लभः ॥ तत्खनने दिङ्निषेधो यथा, -- “वापीकूपतडागं वा प्रासादं वा निकेतनम् । न कुर्य्याद्वृद्धिकामस्तु अनलानिलनैरृते ॥ [] आग्नेय्यां मनसस्तापो नैरृते क्रूरकर्म्मकृत् । वायव्यां बलवित्तञ्च पीयमाने जले प्रिये ॥ स्थानस्य पावके भागे वापीकूपतडागकम् । अग्निदाहं सदा कुर्य्यात् समानुषचतुष्पदाम् ॥ नैरृते पीयमानन्तु आत्मना दुःखितो भवेत् । कन्यापि तज्जलं पीत्वा पतिं गृह्णाति कामतः ॥ इति देवीपुराणे नन्दाकुण्डप्रवेशाध्यायः ॥ तत्करणफलं यथा, -- शर्म्मिल उवाच । “तडागोदकवापीनां कृतानामिह यत् फलम् । विशेषेण पितृश्रेष्ठ वक्तुमर्हस्यशेषतः ॥ यम उवाच । धर्म्मस्यार्थस्य कामस्य यशसश्च द्बिजोत्तम । तडागं सुप्रभूताम्बु परमायतनं स्मृतम् ॥ देवताः पितरो नागा गन्धर्व्वा यक्षराक्षसाः । पशुपक्षिमनुष्याश्च संश्रयन्ति जलाशयम् ॥ कृत्स्नं तारयते वंशं पश्य खाते जलाशये । गावः पिबन्ति पानीयं मनुष्याः पशवस्तथा ॥ शरदृतौ तडागेषु सलिलं यस्य तिष्ठति । अग्निष्टोमफलं तस्य प्रवदन्ति मनीषिणः ॥ येषां शिशिरकाले तु पानीयं प्रतितिष्ठति । वाजपेयातिसत्राभ्यां फलं बिन्दन्ति मानवाः ॥ वसन्ते चैव ग्रीष्मे तु सलिलं यस्य तिष्ठति । राजसूयाश्वमेधाभ्यां स फलं समुपाश्नुते ॥ तडागं सर्व्वसत्त्वानां जीवनन्तु दिवानिशम् । तस्मात् सर्व्वात्मना वत्स तडागमिह कार- येत् ॥ कृत्स्नं हि तारयेद्बंशं पुरुषस्य न संशयः । सावतारः कृतः कूपः सम्प्रभूतजलस्तथा ॥ यस्य स्वादुजलं कूपे पिबन्ति सततं जनाः । स नरो विरजो लोके देववद्दिवि मोदते ॥ पीत्वैवेक्षुरसं क्षीरं दधि मधु सुरासवम् । तावत् पिपासा नापैति यावत्तोयं न पीयते ॥ जीवन्ति चान्नरहिता दिवसानि बहून्यपि । तृषितस्तोयरहितो दिनमेकं न जीवति ॥ तस्माद्ददाति यो नित्यं पानीयं प्राणिनामिह । स ददाति नरः प्राणान् माभूत्ते ह्यत्र संशयः ॥ प्राणदानात् परं नाम नान्यद्दानं हि विद्यते । तस्माद्वापीश्च कूपांश्च तडागानि च कार- येत् ॥ सवृक्षाणि ह विप्रर्षे यदीच्छेत् श्रियमात्मनः । शुष्कं परनिपानन्तु यः कारयति शक्तितः । सन्तारयति भूयोऽपि द्विगुणं तस्य वै फलम् ॥” इति वह्निपुराणे तडागवृक्षप्रशंसानामाध्यायः ॥
📄 मूल मुद्रित पृष्ठ (4-336-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "वापी" आता है (5)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें