🕉️ 19 November 2026, Thursday · 02:48:49 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

वाहु
vāhu
🟠 शब्दसागर🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
वाहु संज्ञा स्त्री॰ [सं॰]
१. हाथ के ऊपर का भाग जो कुहनी और कंधे के बीच में होता है । भुजदंड । दे॰ बाहु ।
२. गणित शास्त्र में त्रिकोणादि क्षेत्रों के किनारे की (पार्श्व) रेखा । भुजा ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
वा(बा)हुः, पुं, (बाधते शत्रूनिति । बाधृ लोडने + “अर्त्तिदृशिकमीति ।” उणा० । १ । २८ । इति कुः हकारादेशश्च ।) कक्षावध्यङ्गुल्यग्र- पर्य्यन्तावयवः । यथा । भुजवाहुः प्रवेष्टो द्योरि- त्यमरः ॥ वहत्यनेन वाहुः नाम्नीति उण् । घञि वाहोऽदन्तः । वाहोऽश्वभुजयोः पुमान् । इति दामोदरः । स्त्रियां वाहा च । वाहो वाहा भुजा वाहुर्दोषो दोषा च दोः पुमान् । इति कोषान्तरम् ॥ इति तट्टीकायां भरतः ॥ कूर्प- रस्योर्द्ध्वभागो वाहुस्तस्याधोभागः प्रवाहुः । यथा, -- “मुखं वाहू प्रवाहू च मनः सर्व्वेन्द्रियाणि च । रक्षत्वव्याहतैश्वर्य्यस्तव नारायणोऽव्ययः ॥” इति विष्णुपुराणे ५ अंशे ५ अध्यायः ॥ वाहुप्रवाहू च कूर्परस्योर्द्ध्वाधोभागौ । इति तट्टीका ॥ अन्यत् पवर्गीयवकारादिबाहुशब्दे द्रष्टव्यम् ॥ * ॥ अस्य शुभाशुभलक्षणं यथा, -- “निर्मांसौ चैब भग्नाल्पौ श्लिष्टौ च विपुलौ भुजौ । आजानुलम्बिनौ वाहू वृत्तौ पीनौ नृपेश्वरे ॥ निःस्वानां रोमशौ ह्नस्वौ श्रेष्ठौ करिकरप्रभौ । हस्ताङ्गुलय एव स्युरायुर्दा ललिताः शुभाः ॥ मेधाविनाञ्च सूक्ष्माः स्युर्भृत्यानां चिपिटाः स्मृताः । स्थूलाङ्गुलीभिर्निःस्वाः स्युर्नताःस्युर्वहिरन्तदाः ॥ कपितुल्यकरा निःस्वा व्याघ्रतुल्यकरैर्धनम् । मणिबन्धैर्निगूढैश्च सुश्लिष्टशुभसन्धिभिः ॥ नृपा हीनैः करच्छेदः सशब्दैर्धनवर्ज्जिताः । पितृवित्तविहीनाश्च निम्नात् करतलान्नराः ॥ संवृत्तैश्चैव निम्नैश्च धनिनः परिकीर्त्तिताः । प्रोक्ता नरकदातारो विषमैर्विषमा नराः ॥ करैः करतलैश्चैव लाक्षाभैरीश्वरास्तलैः । परदाररताः पीतै रूक्षैर्निःस्वा नरा मताः ॥ तुषतुल्यनखाः क्लीवाः कुटिलैः स्फुटितैर्नराः । निःस्वाश्चक्रनखैस्तद्वद्बिवर्णैः परतर्ककाः ॥ ताम्रैर्भूपा धनाढ्याश्च अङ्गुष्ठैः सयवैस्तथा । अङ्गुष्ठमूलजैः प्रेष्यः स्याद्दीर्घाङ्गुलिपर्व्वकः ॥ [] दीर्घायुः सुभगश्चैव निर्धनो विरलाङ्गुलिः । घनाङ्गुलिश्च सधनस्तिस्रो रेखाश्च यस्य वै ॥ नृपतेः करतलगा मणिबन्धे समुत्थिताः । युगमीनाङ्कितकरो भवेत् सत्रप्रदो नरः ॥ वज्राकाराश्च धनिनां मत्स्यपुच्छनिभा बुधे । शङ्खातपत्रशिविकागजपद्मोपमा नृपे ॥ कुम्भाङ्कुशपताकाभा मृणालाभा निरीश्वरे । दामाभाश्च गवाढ्यानां स्वस्तिकाभा नृपेश्वरे ॥ चक्रासितोमरधनुःकुन्ताभा नृपतेः करे । उदूखलाभा यज्ञाढ्ये वेदीभाश्चाग्निहोत्रिणि ॥ वापीदेशकुलाभाश्च त्रिकोणाभाश्च धार्म्मिके । अङ्गुष्ठमूलगा रेखाः पुत्त्राः सूक्ष्माश्च दारिकाः ॥ प्रदेशिनीगता रेखा कनिष्ठामूलगामिनी । शतायुषञ्च कुरुते छिन्नया तरुतो भयम् । निस्वाश्च बहुरेखाः स्युर्निर्द्रव्याश्चिवुकैः कृशैः ॥” इति गारुडे ६६ अध्यायः ॥
📄 मूल मुद्रित पृष्ठ (4-369-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें