🕉️ 20 November 2026, Friday · 04:12:37 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

विक्रय
vikraya
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
विक्रय संज्ञा पुं॰ [सं॰] मूल्य लेकर कोई पदार्थ देना । बेचना । बिक्री । उ॰ इस दलील के आधार पर क्रय विक्रय के मामूली व्यापार में दस्तंदाजी करना—अर्थात् किसी चीज के बेचने या मोल लेने की मनाई कर देना—और भी अनुचित बात होगी ।—स्वाधीनता (शब्द॰) । यौ॰—क्रय विक्रय ।
विक्रय प्रतिक्रोष्टा संज्ञा पुं॰ [सं॰ विक्रय प्रतिकोष्ट] बोली बोलकर बेचनेवाला । नीलाम करनेवाला ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
वि-क्रय &c. See below.
वि-क्रय m. sale, selling, vending, AV. &c. &c.
📄 मूल मुद्रित पृष्ठ (956,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
विक्रयः Sale, selling: Ms. 3. 54. --Comp. --अनुशयः rescission of a sale. --पत्रं a bill of sale, sale-deed.
📄 मूल मुद्रित पृष्ठ (0967-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
विक्रयः, पुं, (विक्रयणमिति । वि + क्री + “एरच् ।” ३ । ३ । ५६ । इति अच् ।) विक्रयणक्रिया । वेचा इति भाषा ॥ तत्पर्य्यायः । विपणः २ । इत्य- मरः ॥ विपणनम् ३ पणनम् ४ । इति शब्द- रत्नावली ॥ व्यवहारः ५ पणाया ६ । इति जटाधरः ॥ अस्य विहिताविहितनक्षत्राणि यथा, -- [] “यमाहिशक्राग्निहुताशपूर्व्वा नेष्टाः क्रये विक्रयणे प्रशस्ताः । पौष्णाग्निचित्राशतबिन्दुवाताः क्रये हिता विक्रयणे निषिद्धाः ॥” इति ज्योतिःसारसंग्रहः ॥ * ॥ क्रयविक्रयनिर्णयो यथा । मूल्यं दास्यामीति कृत्वा ग्रहणादपि क्रयसिद्धिः । तथा च विवाद- चिन्तामणौ कात्यायनः । “पण्यं गृहीत्वा यो मूल्यमदत्त्वैव दिशं व्रजेत् । ऋतुत्रयस्योपरिष्टात् तद्धनं वृद्धिमाप्नुयात् ॥” अतएव बृहस्पतिः । “गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्याक्षरान्वितम् । पत्रं कारयते यत्तु क्रयलेख्यं तदुच्यते ॥” क्रयविक्रये समयविशेषाभ्यन्तरे पश्चात्तापाद- सिद्धिः । यथा मनुः । “क्रीत्वा विक्रीय वा किञ्चित् यस्येहानुशयो भवेत् । सोऽन्तर्द्दशाहे तद्दव्यं दद्याच्चैवाददीत वा ॥” एतद्याज्ञवल्क्योक्तेतरपरम् । यथा याज्ञ- वल्क्यः । “दशैकपञ्चसप्ताहमासत्र्यहार्द्धमासिकम् । बीजायोबाह्यरत्नस्त्रीदोह्यपुंसां परीक्षणम् ॥” अत्र बृहस्पतिः । “अतोऽर्व्वाक् पण्यदोषस्तु यदि संजायते क्वचित् । विक्रेतुः प्रतिदेयन्तत् क्रेता मूल्यमवाप्नुयात् ॥” अतस्तद्द्रव्यपरीक्षणकालात् । कात्यायनः । “अविज्ञातन्तु यत् क्रीतं दुष्टं पश्चाद्विभावितम् । क्रीतं तत् स्वामिने देयं पण्यं कालेऽन्यथा न तु ॥” काले प्रागुक्तपरीक्षाकालाभ्यन्तरे । परीक्षिते तु बृहस्पतिः । “परीक्षेत स्वयं पण्यं अन्येषाञ्च प्रदर्शयेत् । परीक्षितं बहुमतं गृहीत्वा न पुनस्त्यजेत् ॥” अत्र विशेषयति नारदः । “क्रीत्वा मूल्येन यो द्रव्यं दुष्क्रीतं मन्यते क्रयी । विक्रेतुः प्रतिदेयं तत् तस्मिन्नेवाह्न्यविक्षतम् ॥ द्वितीयेऽह्नि ददत् क्रेता मूल्यात्त्रिंशांशमाहरेत् । द्विगुणन्तु तृतीयेऽह्नि परतः क्रेतुरेव तत् ॥” आहरेत् दद्यात् विक्रेत्रे इति शेषः । द्विगुणं त्रिंशांशस्य । याज्ञवल्क्यः । “राजदैवोपघातेन पण्ये दोष उपागते । हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः ॥” नारदः । “उपहन्येत वा पण्यं दह्येतापह्रियेत वा । विक्रेतुरेव सोऽनर्थो विक्रीयासंप्रयच्छतः ॥ दीयमानं न गृह्णाति क्रीतं पण्यन्तु यः क्रयी । स एवास्य भवेद्दोषो विक्रेतुर्योऽप्रयच्छतः ॥” इति प्रायश्चित्ततत्त्वम् ॥ * ॥ अपि च । “न्यासं कृत्वा परत्राधिं कृत्वा वाधिं करोति च । विक्रयं वा क्रिया तत्र पश्चिमा बलवत्तरा ॥” [] न्यासं कृत्वा आधिं करोति आधिं कृत्वा वा विक्रयं करोति । विक्रयपदं स्वत्वध्वंसकत्वात् दानं लक्षयति परा क्रिया सिद्धेत्यर्थः । एवञ्च विक्रेतृदात्रोर्मरणादिना आध्यनुद्धारे विक्रय- दाने तत्कर्त्तृतुल्यस्वत्वजननात तत्र तत्क्रेतृ- प्रतिग्रहीतृभ्यामाध्युद्धारः कार्य्यः । इति । तत्र च । “न च स्थावरस्य समस्तस्य गोत्रसाधारणस्य च । नैकः कुर्य्यात् क्रयं दानं परस्परमतं विना ॥ विभक्ता अविभक्ता वा सपिण्डाः स्थावरे समाः । एको ह्यनीशः सर्व्वत्र दानाधमनविक्रये ॥” इति व्यासवचनाभ्यामेकस्य दानबन्धकविक्रया- धिकारः इति वाच्यं यथेष्टविनियोगार्हत्वरूपस्य स्वत्वस्य द्रव्यान्तर इवात्राप्यविशेषात् वच- नञ्च स्वामित्वेन दुर्व्वृत्तपुरुषगोचरविक्रयादिना कुटुम्बविरोधादधर्म्मज्ञापनार्थनिषेधरूपं न तु विक्रयाद्यनिष्पत्यर्थमिति दायभागः ॥ * ॥ एवञ्च । “स्थावरे विक्रयो नास्ति कुर्य्यादाधिमनुज्ञया ॥” इति स्थावरस्य केवलविक्रयप्रतिषेधात् एवं भूमिं यः प्रतिगृह्णातीत्यादिवचने दानप्रशंसा- दर्शनाच्
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "विक्रय" आता है (7)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें