🕉️ 20 November 2026, Friday · 06:26:10 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

विभीतक
vibhītaka
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
विभीतक संज्ञा पुं॰ [सं॰] बहेड़ा । बहेड़े का वृक्ष ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
वि—भीतक , see s.v.
विभीतक m. (or f(ई). ) the tree Terminalia Bellerica
विभीतक n. its berry (used as a die), ŚBr.; MBh. &c.
📄 मूल मुद्रित पृष्ठ (951,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
विभीतः, -तं, विभीतकः -कं, विभीतकी, विभीता N. of a tree, Terminalia Belerica, one of the three myrobalans.
विभीतः, -तं, विभीतकः -कं, विभीतकी, विभीता N. of a tree, Terminalia Belerica, one of the three myrobalans.
📄 मूल मुद्रित पृष्ठ (0984-c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
विभीतक पु० विशेषेण भीत इव इवार्थे कन् । (वयडा) वृक्षे अमरः । “विभीतकं स्वादुपाकं कषायं कफपित्तनुत् । उष्णवीर्य्यं हिमस्पर्शं भेदनं कासनाशनम् । रूक्षं नेत्रहितं केश्यं कृमिवैस्वर्य्यनाशनम् । विभीतमज्जा तृट्छर्दि कफवातहरो लघुः । कषायो मदकृच्चाथ धात्री मज्जापि तद्गुणः” भावप्र० । काभावे विभीतोऽप्यत्र ।
📄 मूल मुद्रित पृष्ठ (4915,b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
विभीतकः, त्रि, वृक्षविशेषः । वहेडा इति भाषा । तत्पर्य्यायः । अक्षः २ तुषः ३ कर्षफलः ४ भूत- वासः ५ कलिद्रुमः ६ । इत्यमरः ॥ कल्पवृक्षः ७ संवर्त्तः ८ । इति रत्नमाला ॥ तैलफलः ९ भूतावासः १० संवर्त्तकः ११ वासन्तः १२ कलिवृक्षः १३ वहेडुकः १४ हार्य्यः १५ विषघ्नः १६ अनिलघ्नः १७ कासघ्नः १८ । (यथा, महा- भारते । ३ । ६४ । ५ । “पियालतालखर्ज्जूरहरीतकविभीतकैः ॥”) अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । कषा- यत्वम् । उष्णत्वम् । कफापहत्वम् । चक्षुष्यत्वम् । पलितघ्नत्वम् । विपाके मधुरत्वञ्च ॥ तन्मज्ज- गुणाः । तृष्णाच्छर्द्दीकफवातहरत्वम् । लघु- त्वम् । मधुरत्वम् । मदकारित्वञ्च ॥ तत्तैल- गुणाः । स्वादुत्वम् । हिमत्वम् । केश्यत्वम् । गुरुत्वम् । पित्तानिलार्त्तिनाशित्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अपि च । अथ विभीतक- नामानि गुणाश्च । “विभीतकस्त्रिलिङ्गः स्यादक्षः कर्षफलस्तु यः । कलिद्रुमो भूतवासस्तथा कलियुगालयः ॥ विभीतकं स्वादुपाकं कषायं कफपित्तनुत् । उष्णवीर्य्यं हिमस्पर्शं भेदनं काशनाशनम् । रूक्षं नेत्रहितं केश्यं कृमिवैस्वर्य्यनाशनम् ॥ विभीतमज्जा तृट्छर्द्दिकफवातहरो लघुः । कषायो मदकृच्चाथ धात्रीमज्जापि तद्गुणाः ॥” इति भावप्रकाशः ॥ * ॥ अन्यञ्च । “विभीतंभेदि तीक्ष्णोष्णं वैस्वर्य्यं क्रिमिनाशनम् । चक्षुष्यं स्वादुपाकञ्च कषायं कफपित्तनुत् ॥” इति राजवल्लभः ॥ * ॥ अस्य कलिद्रुमत्वकारणं यथा, -- पुलस्त्य उवाच । “ततो गतेषु देवेषु ब्रह्मलोकं प्रति द्विज । त्रैलोक्यं पालयामास बलिर्धर्म्मान्वितः सदा ॥ कलिस्तदा धर्म्मयुतं जगद्दृष्ट्वा कृते यथा । ब्रह्माणं शरणं भेजे स्वभावस्य निषेधनात् ॥ प्रणिपत्य तमाहाथ तिष्यो ब्रह्माणमीश्वरम् । मम स्वभावो बलिना नाशितो देवसत्तम ॥ तं प्राह भगवान् योगी स्वभावो जगतोऽपि हि । न केवलं हि भवतो हृतस्तेन बलीयसा ॥ पश्याद्य तिष्य देवेन्द्रं वरुणञ्च समागतम् । भास्वरोऽपि हि दीनत्वं प्रयातो हि बलाद्वलेः ॥ [] इत्येवमुक्तो देवेन ब्रह्मणा कलिरव्ययः । दीनान् दृष्ट्वा च शक्रादीन् विभीतकवनं गतः ॥” इति वामने १७ अध्यायः ॥ (अन्यच्च । यथा, महाभारते ३ । ७२ अध्याये । “एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै । तस्याक्षहृदयाज्ञस्य शरीरान्निःसृतः कलिः ॥” “तं शप्तुमैच्छत् कुपितो निषधाधिपतिर्नलः । तमुवाच कलिर्भीतो वेपनानः कृताञ्जलिः ॥ कोपं संयच्छ नृपते कीर्त्तिं दास्यामि ते पराम् ॥” “एवमुक्तो नलो राजा नियच्छत् कोपमात्मनः । ततो भीतः कलिः क्षिप्रं प्रविवेश विभी- तकम् ॥” “विभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात् ॥”)
📄 मूल मुद्रित पृष्ठ (4-412-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "विभीतक" आता है (3)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें