विमला, स्त्री, (विमल + टाप् ।) सप्तला । इत्यमरः ॥ चामरकषा इति भाषा ॥ (अस्याः पर्य्यायो यथा, -- “शातला सप्तला सारा विमला विदुला च सा । तथा निगदिता भूरिफेना चर्म्मकषेत्यपि ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) भूमिभेदः । इति मेदिनी । ले, १३१ ॥ देवी- भेदः । यथा, -- “यूथाख्यविमला कार्य्या शुद्धहारेन्दुवर्च्चसा । मुक्ताक्षसूत्रधारी च कमण्डलुकरा वरा ॥ नावासनसमारूढा श्वेतमाल्याम्बरप्रिया । दधिक्षीरोदनाहारा कर्पूरमदचर्च्चिता । सितपङ्कजहोमेन राष्ट्रायुर्नृपवर्द्धिनी ॥” इति देवीपुराणे संवत्सरदेवताद्वितीयविंश- तिकाविधिः ॥ * ॥ अन्यच्च । “पूजयेत् कर्णिकामध्ये वासुदेवन्तु नायकम् । विमला नायिका तस्य वासुदेवस्य कीर्त्तिता ॥” इति कालिकापुराणे ८२ अध्यायः ॥ * ॥ अपरञ्च । “उत्कले नाभिदेशञ्च विरजाक्षेत्र उच्यते । विमला सा महादेवी जगन्नाथस्तु भैरवः ॥” इति तन्त्रचूडामणौ ५१ पीठनिर्णयः ॥ (यथा च देवीभागवते । ७ । ३० । ६४ । “गयायां मङ्गला प्रोक्ता विमला पुरुषोत्तमे ॥”)
📄 मूल मुद्रित पृष्ठ (4-415-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।