विष्णुपदं, क्ली, (विष्णोः पदम् ।) आकाशम् । इत्यमरः ॥ (यथा, रघुवंशे । १६ । २८ । “वसुन्धराविष्णु पदं द्वितीय- मध्यारुरोहेव रजश्छलेन ॥”) क्षीरोदः । इति मेदिनी ॥ पद्मम् । इति हेम- चन्द्रः ॥ (तीर्थविशेषः । यथा, महाभारते । ७ । ८३ । ९५ । “तत्र विष्णुपदे स्नात्वा अर्च्चयित्वा च वामनम् । सर्व्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ॥” कैलासपर्व्वतस्य स्थानविशेषः । यथा, महा- भारते । ५ । १११ । २२ । “अत्र विष्णुपदं नाम क्रमता विष्णुना कृतम् ॥” पर्व्वतविशेषः । यथा, हरिवंशे । ३१ । ४३ । “तेन चित्ररथेनाथ तदा विष्णुपदे गिरौ ॥”) विष्णोः स्थानम् । यथा, “अपुण्यपुण्योपरमे क्षीणाशेषाप्तिहेतवः । यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् ॥ धर्म्मध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाक्षिणः । तत्सार्ष्ट्योत्पन्नयोगेद्धास्तद्विष्णोः परमं पदम् ॥ यत्रैतदोतं प्रोतं च यद्भूतं सचराचरम् । भाव्यञ्च विश्वं मैत्रेय तद्विष्णोः परमं पदम् ॥ दिवीव चक्षुराततं विततं तन्महात्मनाम् । विवेकज्ञानवृद्धञ्च तद्धि विष्णोः परं पदम् ॥” इति विष्णुपुराणे २ अंशे ८ अध्यायः ॥ भ्रूमध्यम् । यथा, -- “अरुन्धतीं ध्रुवञ्चैव विष्णोस्त्रीणि पदानि च । आसन्नमृत्युर्नो पश्येच्चतुर्थं मातृमण्डलम् ॥ अरुन्धती भवेज्जिह्वा ध्रुवो नासाग्रमुच्यते । विष्णोः पदानि भ्रूमध्ये नेत्रयोर्म्मातृमण्डलम् ॥” इति काशीखण्डे ४२ अध्याये १३ । १४ श्लोकौ ॥
📄 मूल मुद्रित पृष्ठ (4-458-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।