🕉️ 30 November 2026, Monday · 05:21:18 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

विष्णुपदी
viṣṇupadī
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
विष्णुपदी संज्ञा स्त्री॰ [सं॰]
१. गंगा नदी जो विष्णु के पैरों से निकली हुई मानी जाती है ।
२. वृष, वृश्चिक, कुंभ और सिंह इनमें से प्रत्येक की संक्रांति ।
३. द्वारिका पूरी (को॰) ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
विष्णु—पदी (ई), f. the sun's passage (into the zodiacal signs of Taurus, Leo, Scorpio and Aquarius), Tithyād.
N. of the Ganges (as issuing from V˚'s foot), MBh.; Hariv.; R. &c.
of the town Dvārikā, L.
📄 मूल मुद्रित पृष्ठ (999,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
विष्णुपदी स्त्री० विष्णुपदं कारणत्वेनास्त्यस्याः अच् गौरा० ङीष् । १ गङ्गायाम् “निर्गता विष्णुपादाब्जात् तेन विष्णुपदी स्मृता” ब्रह्मवै० प्र० ९ अ० । २ वृषसिंहवृश्चिक- कुम्भराशौ रवेः संक्रान्तौ च । “वृषवृश्चिककुम्भेषु सिहे विष्णुपदी स्मृता” “पुण्यायां विष्णुपद्याञ्च प्राक्पश्चादपि षोडश” ज्यो० त० । “अयने कोटिगुणितं लक्षं विष्णुपदोषु च” ति० त० “तदन्तरेषु संक्रान्तिद्वितयं द्वितयं पुनः । नैरन्तर्यात् तु संक्रान्तेर्ज्ञेयं विष्णुपदीद्वयम्” सू० सि० । “तदन्तरेषु विषुवायनान्तरालेषु । अत्रान्तरालानां चतुः- स्थाने सद्भावाद् बहुवचनम् । संक्रान्तिद्वितयं द्वितयं पुनाराश्यादिभागे ग्रहाणामाक्रमणं वारद्वयं भवति तदन्तराले राश्यादिभागौ द्वौ भवत इत्यर्थः । तथा हि मेषाख्यविषुवकर्काख्यायनयोरन्तराले वृषमिथुनयोरादी । कर्कतुलयोरन्तराले सिंहकन्ययोरादी । तुलामकरयोर- न्तराले वृश्चिकधनुषोरादी । मकरमेषयोरन्तराले कुम्भ- मीनयोरादी इति एव विषुवानन्तरं संक्रमणद्वयमन- न्तरमयनं तदनन्तरं संक्रान्तिद्वयं तदनन्तरं विषुवमन- न्तरं संक्रान्तिद्वयमनन्तरमयनमित्यादि पौनःपुन्येन [] ज्ञेयमित्यर्थः । संक्रान्तिद्वयमध्ये प्रथमसंक्रान्तौ विशेष- माह । नैरन्तर्यादिति । निरन्तरतया सम्भूतायाः संक्रान्तेः सकाशाद्विष्णुपदीद्वयं तदन्तराल इत्यर्थः” रङ्ग०
📄 मूल मुद्रित पृष्ठ (4936-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
विष्णुपदी, स्त्री, (विष्णोः पदं स्थानं यस्याः । गौरादित्वात् ङीष् ।) गङ्गा । इत्यमरः ॥ (यथा, भागवते । १ । १९ । ७ । [] “इति व्यवच्छिद्य स पाण्डवेयः प्रायोपवेशं प्रति विष्णुपद्याम् । दध्यौ मुकुन्दाङ्घ्रिमनन्यभावो मुनिव्रतो मुक्तसमस्तसङ्गः ॥”) अस्याः कारणं यथा, -- नारद उवाच । “कलेः पञ्चसहस्राब्दे समतीते सुरेश्वरी । क्व गता सा महाभाग तन्मे व्याख्यातुमर्हसि ॥ नारायण उवाच । गङ्गा सरस्वती लक्ष्मीश्चैतास्तिस्रो हरेः प्रियाः । तुलसीसहिता ब्रह्मन् चतस्रः कीर्त्तिताः श्रुतौ ॥ नारद उवाच । बभूव सा मुनिश्रेष्ठ गङ्गा नारायणप्रिया । अहो केन प्रकारेण तन्मे व्याख्यातुमर्हसि ॥ नारायण उवाच । पुरा बभूव गोलोके गङ्गा सा द्रवरूपिणी । राधाकृष्णाङ्गसंभूता तदंशा तत्स्वरूपिणी ॥ द्रवाधिष्ठातृदेवी सा रूपेणाप्रतिमा भुवि । सा सकामा कृष्णपार्श्वे समुवास सलज्जिता ॥ प्रफुल्लवदना हर्षान्नवसङ्गमलालसा । मूर्च्छिता प्रभुरूपेण पुलकाङ्कितविग्रहा ॥ एतस्मिन्नन्तरे तत्र विद्यमाना च राधिका । गोपीत्रिंशत्कोटिवृता कोटिचन्द्रसमप्रभा ॥ कोपेन रक्तपद्मास्या रक्तपङ्कजलोचना । सुचारुरागसंयुक्तमोष्ठं कम्पयती रुषा ॥ ताञ्च दृष्ट्वा समुत्तस्थौ कृष्णः सादरपूर्व्वकम् । उत्थाय गङ्गा सहसा सम्भाषाञ्च चकार सा ॥ कुशलं परिपप्रच्छ भीतातिविनयेन च । ध्यानेन शरणापन्ना श्रीकृष्णचरणाम्बुजे ॥ तद्धृत्पद्मस्थितो विष्णुर्भीतायै चाभयं ददौ । बभूव स्थिरचित्ता सा सर्व्वेश्वरवरेण च ॥ ऊर्द्ध्वसिंहासनस्थाञ्च राधां गङ्गा ददर्श सा । एतस्मिन्नन्तरे राधा जगदीशमुवाच सा ॥ केयं प्राणेश कल्याणी सस्मिता तन्मुखाम्बुजम् । पश्यन्ती सस्मितं पार्श्वे सकामा बक्रलोचना ॥ त्वञ्चापीमां सन्निरीक्ष्य सकामः सस्मितः सदा । मयि जीवति गोलोके भूता दुर्वृत्तिरीदृशी ॥ त्वमेवैवञ्च दुर्वृत्तं वारंवारं करोषि च । क्षमां करोमि प्रेम्णा च स्त्रीजातिः स्निग्ध- मानसा ॥ संगृह्येमां प्रियामिष्टां गोलोकाद्गच्छ लम्पट । अन्यथा न हि ते भद्रं भविष्यति व्रजेश्वर ॥ इत्येवमुक्त्वा सा राधा रक्तपङ्कजलोचना । गङ्गां वक्तुं समारेभे नम्रास्यां लज्जितां सतीम् । गङ्गा रहस्यं विज्ञाय योगेन सिद्धयोगिनी । तिरोभूय सभामध्यात् स्वजलं प्रविवेश सा ॥ राधा योगेन विज्ञाय सर्व्वत्रावस्थिताञ्च ताम् । पानं कर्त्तुं समारेभे गण्डूषात् सिद्धयोगिनी ॥ गङ्गा रहस्यं विज्ञाय योगेन सिद्धयोगिनी । श्रीकृष्णचरणाम्भोजं विवेश शरणं ययौ ॥ गोलोकञ्चैव वैकुण्ठं ब्रह्मलोकादिकं तथा । ददर्श राधा सर्व्वत्र नैव गङ्गां ददर्श सा ॥ [] ब्रह्मविष्णुशिवानन्तधर्म्मेन्द्रेन्दुदिवाकराः । मनवो मुनयः सर्व्वे देवाः सिद्धास्तपस्विनः ॥ गोलोकञ्च समाजग्मुः शुष्ककण्ठोष्ठतालुकाः । सर्व्वे प्रणेमुर्गोविन्दं सर्व्वेशं प्रकृतेः परम् । विज्ञाय तदभिप्रायं तानुवाच सुरेश्वरः ॥ श्रीभगवानुवाच । आगताः सुमहाभागा गङ्गानयनकारणात् । गङ्गा मच्चरणाम्भोजे भयेन शरणं गता ॥ राधेमां पातुमिच्छन्ती दृष्ट्वा मां सन्निधानतः । दास्यामीमां बहिष्कृत्य यूयं कुरुत निर्भयाम् ॥ श्रीकृष्णस्य वचः श्रुत्वा सस्मितः कमलोद्भवः । तुष्टाव सर्व्वाराध्यां तां राधां श्रीकृष्णपूजिताम् ॥ वक्त्रैश्चतुर्भिः संस्तूय भक्तिनम्रात्मकन्धरः । धाता चतुर्णां वेदानामुवाच चतुराननः ॥ गङ्गा त्वदङ्गसंभूता प्रभोश्च रासमण्डले । युवयोर्द्रवरूपा सा मुग्धयोः शङ्करस्वरात् ॥ कृष्णांशा च त्वदंशा च त्वत्कन्यासदृशी प्रिया । त्वन्मन्त्रग्रहणं कृत्वा करोतु पूजनं तव ॥ भविष्यति पतिस्तस्या वैकुण्ठेशश्चतुर्भुजः । ब्रह्मणो वचनं श्रुत्वा स्वीचकार च सस्मिता ॥ बहिर्बभूव सा कृष्णपादाङ्गुष्ठनखाग्रतः । तत्रैव स
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "विष्णुपदी" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬