वीतिः, स्त्री (वयनमिति । वी + क्तिन् ।) गतिः । दीप्तिः । (यथा, गो० रामायणे । २ । १०० । ४७ । “सुवर्णवीतिप्रतिमाः पद्मकिञ्जल्कसप्रभाः । दिव्या विंशति साहस्राः कुवेरप्रहिताः स्त्रियः ॥”) प्रजनम् । अशनम् । धावनम् । इति मेदिनी । ते, ५९ ॥ (पानम् । यथा, ऋग्वेदे । ७ । ६८ । २ । “प्रवामन्धांसि मद्यान्यस्थुररं गन्तं हविषो वीतये मे ॥” “हविषो वीतये पानाय ।” इति तद्भाष्ये सायणः ॥ प्राप्तिः । यथा, ऋग्वेदे । ३ । १३ । ४ । “स नः शर्म्माणि वीतयेऽग्निर्यच्छतु शन्तमा ॥” “वीतये सम्भजनाय अग्निहोत्रादिकर्म्म प्राप्त्य- [] र्थम् ।” इति तद्भाष्ये सायणः ॥ यज्ञः । यथा, ऋग्वेदे । ९ । १ । ४ । “अभ्यर्षमहानां देवानां वीतिमन्धसा ॥” “वीतिं यज्ञं अन्धसा धानाद्यन्नेन सह अभ्यर्ष अभिगच्छ ।” इति तद्भाष्ये सायणः ॥)
वीतिः, पुं, घोटकः । इति हेमचन्द्रः ॥ (यथा, राजतरङ्गिण्याम् । ७ । ३७७ । “अस्मिंस्तु वीतिमारूढे वीतिहोत्रसमे नृपे । कस्त्राता च त्वदीयानां तृणानामिव शस्त्रि- णाम् ॥”)
📄 मूल मुद्रित पृष्ठ (4-470-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।