शप, य ञ औ क्रोशे । इति कविकल्पद्रुमः । (दिवा०-भ्वा०-च-उभ०-सक०- अनिट् ।) द्बौ तालव्यादी । य ञ, शप्यति शप्यते । औ, शप्ता । औ, अशाप्सीत् । ञ, शपति शपते । क्रोश उक्तिविशेषः । निर्भर्त्सन- मिति चतुर्भुजः । सहस्रशोऽसौ शपथानपश्यत् । क्रोशो भ्वादिपक्षे गालिदानम् । शपते । ञित्वे- ऽपि शपथाशीर्गत्यनुकारेति नियमात् शपथे आत्मनेपदं अन्यत्र परस्मैपदम् । कृष्णाय शपते गापी । प्रजेति त्वां शशाप सा । इति रघौ । सख्यः शपामि यदि किञ्चिदपि स्मरामि । इति वाचा शरीरस्पर्शनाभावादिति पाणिनीयाः । केचित्तु शपथे नित्यमात्मनेपदं अन्यत्र विभा- षया इत्याहुः । तेन प्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभृते । इति माघः । इति दुर्गादासः ॥
शप, औ ञ क्रोशे । इति कविकल्पद्रुमः । (दिवा०-भ्वा०-च-उभ०-सक०- अनिट् ।) द्बौ तालव्यादी । य ञ, शप्यति शप्यते । औ, शप्ता । औ, अशाप्सीत् । ञ, शपति शपते । क्रोश उक्तिविशेषः । निर्भर्त्सन- मिति चतुर्भुजः । सहस्रशोऽसौ शपथानपश्यत् । क्रोशो भ्वादिपक्षे गालिदानम् । शपते । ञित्वे- ऽपि शपथाशीर्गत्यनुकारेति नियमात् शपथे आत्मनेपदं अन्यत्र परस्मैपदम् । कृष्णाय शपते गापी । प्रजेति त्वां शशाप सा । इति रघौ । सख्यः शपामि यदि किञ्चिदपि स्मरामि । इति वाचा शरीरस्पर्शनाभावादिति पाणिनीयाः । केचित्तु शपथे नित्यमात्मनेपदं अन्यत्र विभा- षया इत्याहुः । तेन प्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभृते । इति माघः । इति दुर्गादासः ॥
शपः, पुं, शपथः । इति हेमचन्द्रः ॥ निर्भर्त्सनम् । गालिदानम् । इति शपधात्वर्थदर्शनात् ॥
📄 मूल मुद्रित पृष्ठ (5-020-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।