🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
षट्कर्म संज्ञा पुं॰ [सं॰ षट्कर्मन्]
१. ब्राह्मणों के छह् कर्म— (१) यजन, (२) याजन, (३) अध्ययन, (४) अध्यापन, (५) दान देना और (६) दान लेना ।
२. स्मृतियों के अनुसार छह् काम जिनके द्वारा आपत्काल में ब्राह्मण अपनी जीविका कर सकता है (१) उंछ वृत्ति (कटे हुए खेतों में दाने बिनना), (२) दान लेना, (३) याचना करना, (४) कृषि, (५) वाणिज्य और (६) गोरक्षा (अथवा किसी किसी के मत से सूद पर रूपया देना) ।
३. तांत्रिकों के बध आदि छह कर्म—(१) शांति, (२) वशीकरण, (३) स्तंभन, (४) विद्धेष, (५) उच्चाटन तथा (६) मारण ।
७. योगाभ्यास संबंधी छह् क्रियाएँ (१) धोती, (२) वस्ती, (३) नेती, (४) नौकिली या नौलिक, (५) त्राटक तथा (६) कपालभाती (को॰) ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
षट्कर्म्म, [न्] क्ली, (षट्प्रकारं कर्म्म ।) षट्- प्रकारशान्त्यादिकर्म्म । यथा, शारदायाम् । “अथाभिधास्ये तन्त्रेऽस्मिन् सम्यक् षट्कर्म्म- लक्षणम् । सर्व्वतन्त्रानुसारेण प्रयोगः फलसिद्धिदः ॥ शान्तिवश्यस्तम्भनानि विद्वेषोच्चाटने ततः । मारणान्तानि शंसन्ति षट्कर्म्माणि मनीषिणः ॥ रोगकृत्या ग्रहादीनां निराशः शान्तिरीरिता । वश्यं जनानां सर्व्वेषां विधेयत्वमुदीरितम् ॥ प्रवृत्तिरोधः सर्व्वेषां स्तम्भनं तदुदाहृतम् । स्निंग्धानां क्लेशजननं मिथोविद्वेषणं मतम् ॥ उच्चाटनं स्वदेशादेर्भ्रंशनं परिकीर्त्तितम् । प्राणिनां प्राणहरणं मारणं तदुदाहृतम् ॥ स्वदेवतादिक्कालादोन् ज्ञात्वा कर्म्माणि साधयेत् रतिर्वाणी रमा ज्येष्ठा दुर्गा काली यथाक्रमम् । षट्कर्म्मदेवताः प्रोक्ताः कर्म्मादौ ताः प्रपूजयेत् ॥ ईशचन्द्रेन्द्रनिरृतिवाय्वग्नीनान्दिशो मताः । सूर्य्योदयं समारभ्य घटिकादशकं क्रमात् ॥ ऋतवः स्युर्व्वसन्ताद्याः अहोरात्रं दिने दिने । वसन्तग्रीष्मवर्षाख्यशरद्धेमन्तशैशिराः ॥” यद्वा, -- “अर्द्धरात्रं शरत्कालो हेमन्तश्च प्रभातकः । पूर्व्वाह्णश्च वसन्तः स्यात् मध्याह्नो ग्रीष्म एव च ॥ प्रावृडरूपोऽपराह्णः स्यात् प्रदोषः शिशिरः स्मृतः ॥” अथवा, -- “ऊषोयोगे च हेमन्तः प्रभाते शिशिरागमः । प्रहरार्द्धे वसन्तः स्यात् ग्रीष्मो मध्यन्दिनागमे । तुर्य्ययामे च वर्षाख्यः शरदस्तं गते रवौ ॥” * ॥ अथ कालनियमः । “हेमन्तः शान्तिके प्रोक्तो वसन्तो वश्यकर्म्मणि । शिशिरं स्तम्भने प्रोक्तो विद्वेषे ग्रीष्म एव च । प्रावृडुच्चाटने ज्ञेया शरन्मारणकर्म्मणि ॥” * ॥ अथ तिथिनियमः । “ग्रञ्चमो च द्वितीया च तृतीया सप्तमी तथा । बुधेज्यबारसंयुक्ता विज्ञेया द्वेषकर्म्मणि ॥ कृष्णा चतुर्द्दशी तद्वदष्टमी मन्दवारकाः । उच्चाटने तिथिः शस्ता प्रदोषे च विशेषतः ॥ [] चतुर्द्दश्यष्टमी कृष्णा अमावास्या तथैव च । मन्दभौमदिनोपेता शस्ता मारणकर्म्मणि ॥ बुधचन्द्रदिनोपेता पञ्चमी दशमी तथा । पौर्णमासी तु विज्ञेया तिथिः स्तम्भनकर्म्मणि ॥ शुभग्रहोदये कुर्य्यात् शुभानि च शुभोदये । रौद्रकर्म्माणि रिक्तार्के मृत्युयोगे च मारणम् ॥ * जपेत् पूर्व्वमुखो वश्ये दक्षिणञ्चाभिचारके । पश्चिमे स्तम्मनं विद्यात् उत्तरे शान्तिकं भवेत् ॥ आकर्षणमथाग्नेये नैरृते मारणं तथा । उच्चाटनन्तु वायव्ये ऐशान्यां मोक्षदायकम् ॥ * ॥ अथाभिचारे कार्य्या च दक्षिणाप्लवना मही । वसनं लोहितं प्रोक्तं उष्णीषं लोहितं स्मृतम् ॥ भूषणं लौहद्रव्येण वामेन पूजनादिकम् । नरस्नायुविशेषेण मारणे रज्जुरीरिता मृतस्य युद्धशून्यस्य दन्तस्य गर्द्दभस्य वा । कृत्वाक्षमालां जप्तव्यं शत्रूणां वधमिच्छता ॥ भग्नेभदन्तमणिभिर्जपेदाकर्षकर्म्मणि । साध्यकेशसूत्रप्रोतस्तुरङ्गदशदनोद्भवैः । अक्षमालां समालोक्य विद्वेषोच्चाटने जपेत् ॥ * पद्माक्षं स्वस्तिकं भूयो विकटं कुक्कुटं पुनः । वज्रं भद्रकमित्याहुरासनानि मनीषिणः ॥ पद्मासनन्तु संयोज्य जानूर्वोरन्तरे करौ । निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् ॥ अन्यानि वक्तव्यानि ॥ * ॥ “षण्मुद्राः क्रमतो ज्ञेयाः पद्मपाशगदाह्वयाः । मुषलाशनिखङ्गाख्याः शान्तिकादिषु कर्म्मसु ॥ जलं शान्तिविधौ शस्तं वश्ये वह्निरुदीरितः । स्तम्भने पृथिवी शस्ता विद्वेषे व्योम कोर्त्तितम् ॥ उच्चाटने स्मृतो वायुर्भूयोऽग्निर्न्मारणे स्मृतः । तत्तद्भूतोदये सम्यक् तत्तन्मण्डलसंयुतम् । तत्तत् कर्म्म विधातव्यं मन्त्रिणा निश्चितात्मना ॥ * शीतांशुसलिलक्षौणीव्योमवायुहविर्भुजाम् । वर्णः स्युर्म्मन्त्रबीजानि षट्कर्म्मसु यथाक्रमम् ॥ ग्रन्थनञ्च विदर्भश्च संपुटो रोधनं तथा । योगः पल्लव
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।