🕉️ 29 November 2026, Sunday · 05:02:48 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

संसर्गाभाव
saṃsargābhāva
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
संसर्गाभाव संज्ञा पुं॰ [सं॰]
१. संसर्ग का अभाव । संबंध का न होना ।
२. न्याय में अभाव का एक भेद । किसी वस्तु के संबंध में दूसरी वस्तु का अभाव । जैसे,—घर में घड़ा नहीं है । विशेष दे॰ अभाव ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
सं-सर्˚गाभाव m. (in Nyāya) a partic. form of the category of nonexistence (said to be of three kinds, prior, incidental, and final, or absence of birth, destruction of present being, and necessary cessation of existence)
📄 मूल मुद्रित पृष्ठ (1120,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
संसर्गाभाव पु० संसर्गेण सम्बन्धेनावच्छिन्नप्रतियोगिताको- भावः । ध्वंसप्रागभावात्यन्ताभावरूपे भेदभिन्ने १ अमावे २ सम्बन्धाभावे च “प्रागभावस्तश्रा ध्वंसोऽप्यन्ताभावःएव च । एवं त्रैविध्यमापन्नः संसर्गाभाव इष्यते” भाषा० । संस- र्गाभावत्वं च अन्यीन्याभावभिन्नाभावत्वं तत्र अन्योन्याभा- वस्य तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावरूपतया तद्भिन्नस्य संसर्गाभावत्वोक्तेः । तादात्म्यातिरिक्तसंसगाव- च्छिन्नप्रतियोगिताकत्वेन संयर्गाभावस्य यौगिकताऽपि । संसर्गप्रतियोगिकाभावत्वं तु न लक्षणं तथात्वे खण्ड- नकारोक्तं दूषणमापतेत् तथा हि अभावस्य संसर्ग- प्रतियोगिकत्वे घटादिप्रतियोगिकत्वं वाध्येय द्रव्यगुण- कर्मणां समवायिकारणेषु संसर्गस्य संमवायसम्बन्धरूप- तया तस्य नित्यत्वेन ध्वंसाधारे तत्संसर्गाभावस्य असम्भवात् । समवायावच्छिन्नप्रतियोगिताकत्वेन बोधने तु प्रतियीग्यसत्त्वदशायां समवायस्य नित्यत्वेन तबुद्धेरस- म्भवात् । संसर्गाभावश्च नञादिनिपातेन धातुना च बो- ध्यते तत्र निपातेन प्रातिपदिकार्थाभावस्य बोधने अनु- योगिनि सप्तम्यपेक्षा यथा गेहे घटो नास्तीति । विभ- क्त्यर्थसं सर्गाभावस्यं धात्वर्थादौ बोधने तु नायं नियमः यथा गगनं न पश्यति न कलञ्जं भक्षयेदित्यादौ तत्र दर्शने गगनकर्मत्वस्य कलञ्जभक्ष बलवदनिष्टासाधनत्वस्य नञा संसर्गाभावस्य बोधनान्न तत्र सप्तम्यपेक्षेति विवेकः । कणा० सू० वृत्त्योश्चान्यथोक्तं यथा “नास्ति घटो गेहे इति सतो घटस्य गेहसंसर्गप्रति- षेधः” कणा० सू० “गेहे घटस्य यः संसर्गः संयोगस्य प्रतिषेधः स च यदि कदाचिदपि न घटस्तदात्यन्तभाव एव भविष्यतः प्रागभाबो भूतस्य प्रध्वंसाभावः, तर्हि घटसंसर्गो गेहे नास्तीति प्रतीत्या भवितव्यमति चेत् प्रतीत्या भवितव्यमित्यस्य कोऽर्थः यदि तद्विषयया प्रतीत्या भवितव्यमित्पपादनार्थस्तदेष्टापत्तिः अथ तदुल्लेस्यि- न्येति तदा गेहे इत्यधिकरणोश्लेखस्यैव संसर्गोल्लेखप- र्य्यवसानमाधारत्वस्यैव धर्मसम्बन्धाकारत्वात् तत किं घट- स्तत्राख्ये? अस्त्येवेति कोऽर्थस्तत्र समवेतः संउउक्तो वा [] वाद्यः समवेतघटस्य तत्राभावात् न । द्वतायः संयोगस्य निषेधात् नन्वेवं घटादीनां केवलान्वयित्वप्रसङ्गः तत्सं- यागसमवायान्यतरस्यैव सर्वत्र निषेधादिति चेन्न तदभय- निषेधस्यैव घटनिषेधात्मकत्वात् तत् का घटस्तत्संयोगश्चे- त्येकं तत्त्वं येन घटस योगनिषेधो घटस्तत्संयोगश्चे- किं घटस्तत्संयोगसमवायावेकं तत्त्वं येन तद्विधिरेव घटविधिः स्यात् न हि तौ यत्र निषेध्येते तत्र घटान्वयो येन केवलान्वयित्वं तस्य स्यात् तथा च यस्य यो विधि- स्तन्निषेध एव तन्निषेध इति । यद्धा घटस्य समवायितया गेहेऽत्यन्ताभाव एव स एव गेहे घटो नास्तीति प्रतीति विषयः कपाले संयोगितयैव । एवं सति केवलान्वय्यत्य- न्ताभावप्रतियोगितया घटोऽसन स्यादिति चेत् भवेदेवं यदि संयोगित्वसमवायित्वाभ्यां सर्वत्रासन् स्यादिति” ।
📄 मूल मुद्रित पृष्ठ (5187-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
संसर्गाभावः, पुं, (संसर्गेण सम्बन्धेन अवच्छिन्नो- ऽभावः ।) सम्बन्धरहितत्वम् । न्यायमते अभाव- पदार्थविशेषः । स तु भेदभिन्नाभावः । स च त्रिविधः । प्रागभावः १ ध्वंसः २ अन्त्यता- भावः ३ । यथा, -- “अभावस्तु द्विधा संसर्गान्धोन्याभावभेदतः । प्रागभावस्तथा ध्वंसोऽप्यत्यन्ताभाव एव च ॥ एवं त्रैविध्यमापन्नः संसर्गाभाव इष्यते ॥” इति भाषापरिच्छेदः ॥ * ॥ भेदत्वं तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिता- काभावत्वम् । विनाश्यभावत्वं प्रागभावत्वम् १ जन्याभावत्वं ध्वंसत्वम् २ नित्यसंसर्गाभावत्व- मत्यन्ताभावत्वम् ३ । इति सिद्धान्तमुक्तावली ॥
📄 मूल मुद्रित पृष्ठ (5-205-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬