🕉️ 24 November 2026, Tuesday · 07:30:07 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

सात्त्वत
sāttvata
🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
सात्त्वत त्रि० सत्त्वमेव सात्त्वं तत्तनोति तन--ड । १ विष्णौ त्रिका० यदुवंश्ये अंशुपुत्रे २ नृपभेदे “अथांशोः सा- त्त्वतो नाम विष्णुभक्तः प्रतापवान्” कूर्मपु० २२ अ० । तद्वंश्ये ३ बलरामे हेमच० । “सत्त्वं सत्त्वाश्रयं सत्त्व- गुणं सेवेत केशवम् । योऽनन्यत्वेन मनसा सात्त्वतः स उ- दाहृतः” इत्युक्ते ४ विष्णुभक्तभेदे । ५ सात्त्वतनृपाधिष्ठितदेशे सोऽभिजनोऽस्य अण् । पित्रादिक्रमेण ६ तद्देशवासिनि च त्रिका० । यदुर्वश्योत्पन्नत्वेन ७ शिशुपालमातरि स्त्री ङीप् । “न दूये सात्त्वतीमूनुः” माघः । सा च नाट- कस्य ८ वृत्तिभेदे च । तस्या लक्षणादि सा० द० उक्तं यथा “सात्त्वती बहुला सत्त्वशौर्य्यत्यागदयार्जवैः । सहर्षा क्षुद्रशृङ्गारा विशोका सा स्मृता तथा । उत्थापकोऽथ सोघात्यः संलाप परिवर्त्तकः । विशेष इति चत्वारः सात्त्वत्याः परिकीर्त्तिताः । उत्तेजनकरी शत्रोर्वागु- त्थापक उच्यते । मन्त्रार्थदैवशक्त्यादेः सांघात्यः सङ्घभे- दनम् । संलापः स्याद् गभीरोक्तिर्नानाभावसमाश्रयः । प्रारब्ध दन्यकार्य्याणां करणं परिवर्त्तकः” । तलोपे एक- तकारोऽपि । ९ जातिभेदे पुंस्त्री० सुधन्वाचार्य्यशब्दे दृश्यम् ।
📄 मूल मुद्रित पृष्ठ (5275,a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
सात्त्व(त्व)तः, पुं, (सात्त्वतस्यापत्यं पुमानिति । सात्त्वत + अञ् ।) बलदेवः । इति हेमचन्द्रः ॥ (कृष्णः । यथा, महाभारते । १ । २१९ । १२ । “ततस्तत्र महाबाहुः शयानः शयने शुभे । आपगानां वनानाञ्च कथयामास सात्त्वते ॥” यादवमात्रे । यथा, तत्रैव । १ । २२२ । ३ । “अर्थलुब्धान् न वः पार्थो मन्यते सात्त्वतान् सदा । स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः ॥” * ॥ सत्त्वमेव सात्त्वं तत् तनोतीति । तन + डः ।) विष्णुः । इति त्रिकाण्डशेषः ॥ (सच्छब्देन सत्त्वमूर्त्तिर्भगवान् । स उपास्यतया विद्यते ऽस्येति । मतुप् । ततः स्वार्थे अण् ।) विष्णु- भक्तविशेषः । यथा, -- “सत्त्वं सत्त्वाश्रयं सत्त्वगुणं सेवेत केशवम् । योऽनन्यत्वेन मनसा सात्त्वतः समुदाहृतः ॥ विहाय काम्यकर्म्मादीन् भजेदेकाकिनं हरिम् । सत्यं सत्त्वगुणोपेतो भक्त्या तं सात्त्वतं विदुः ॥ मुकुन्दपादसेवायां तन्नामश्रवणेऽपि च । कीर्त्तने च रतो भक्तो नाम्नः स्यात् स्मरणे हरेः ॥ वन्दनार्च्चनयोर्भक्तिरनिशं दास्यसख्ययोः । रतिरात्मार्पणे यस्य दृढानन्तस्य सात्त्वतः ॥” इति पाद्मोत्तरखण्डे ९९ अध्यायः ॥ * ॥ यदुवंशीयसत्त्वतराजपुत्त्रः । यथा, -- “अनोस्तु पुरुकुत्सोऽभूदंशुस्तस्य तु रिक्- थभाक् । अथांशोः सत्त्वतो नाम विष्णुभक्तः प्रतापवान् ॥ महात्मा दाननिरतो धनुर्व्वेदविदां वरः । स नारदस्य वचनाद्वासुदेवार्च्चनान्वितः ॥ शास्त्रं प्रवर्त्तयामास कुण्डगोलादिभिः श्रुतम् । तस्य नाम्ना तु विख्यातं सात्त्वतं नाम शोभनम् ॥ प्रवर्त्तते महाशास्त्रं कुण्डादीनां हितावहम् । सात्त्वतस्तस्य पुत्त्रोऽभूत् सर्व्वशास्त्रविशारदः ॥ पुण्यश्लोको महाराजस्तेन चैतत् प्रकीर्त्तितम् । सात्त्वतः सत्त्वसम्पन्नः कौशल्यान् सुषुवे सुतात् ॥ अन्धकं वैमहं भोजं विष्णुं देवावृधं नृपम् ॥” इति कौर्म्मे पूर्व्वभागे यदुवंशानुकीर्त्तने । २४ । ३१ -- ३६ ॥ (सङ्करजातिविशेषः । यथा, मनुः । १० । २३ । [] “वैश्यात्तु जायते व्रात्यात् सुधन्वाचार्य्य एवच । कारूषश्च विजन्मा च मैत्रः सात्त्वत एवच ॥”)
📄 मूल मुद्रित पृष्ठ (5-325-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬