साध्यसम पु० १ हेत्वाभासभेदे “साध्याविशिष्टः साध्यत्वात् सा- ध्यसमः” गौ० सू० “द्रव्यं छायेति साध्यम् । गतिमत्त्वा- दिति हेतुः । साध्येनाविशिष्टः साधनीयत्वात् साध्य- समः । अयमप्यसिद्धत्वात् साध्यवत् प्रतिज्ञापयितव्यः । साध्यं तावदेतत् किं पुरुषवच्छायापि गच्छति? आहो स्विदावरकद्रव्ये संसर्पत्यावरणसंतानादसंनिघिसंतानोऽयं तेजसो गृह्यत इति? सर्पता खलु द्रव्येण यो यस्ते- जोभाग आव्रियते तस्य तस्यासंनिधिरेवावच्छिन्नो गृह्यत इति । आवरणं तु प्राप्तिप्रतिषेधः” वात्स्या० २ जात्युत्तरभेदे “उभयसाध्यत्वात् साध्यसमः” गौ० सू० “हेत्वाद्यवयवसामर्थ्ययोगी धर्मः साध्यः । तं दृष्टान्ते प्रसजतः साध्यसमः । यदि यथा लोष्टस्तथात्मा प्राप्तस्तर्हि यथात्मा तथा लोष्ट इति । साध्यश्चायमात्मा क्रियावानिति कामं लोष्टोऽपि साध्यः । अथ नैवम् । न तर्हि यथा लोष्टस्तथात्मा” वात्स्या० । तच्च “पक्षदृष्टा न्वादेः प्रकृतसाध्यतुल्यतापादनम्” गौ० पृ० दृष्टान्तस्य- पक्षतुल्यताकथनम् । यथा, आत्मा सक्रियः क्रियाहेतु- गुणवत्त्वादित्यादौ यदि यथा लोष्टस्तथात्मेति त्वयोच्यते तदा यथात्मा तथा लोष्ट इत्यप्यायातम् । तथा च यद्यात्मनि क्रियावत्त्वं साव्यते । तर्हि लोष्टेऽपि तत्- साधनीयम् । नेति चेत्तर्हि यथा लोष्टस्तथात्मेति न वाच्यम । लोष्टसदृश आत्मात्ममदृशो लोष्ट इत्यत्र निया- मकाभावादिति” नीलकण्ठः ।
📄 मूल मुद्रित पृष्ठ (5280,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।