🕉️ 25 November 2026, Wednesday · 12:28:17 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

सामुद्रक
sāmudraka
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
सामुद्रक संज्ञा पुं॰ [सं॰]
१. समुद्री नमक ।
२. सामुद्रिक विद्या । दे॰ सामुद्र ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
1. सामुद्रक mfn. oceanic, maritime g. धुमादि
सामुद्रक n. sea-salt, Suśr.
N. of a Tīrtha, MBh.
2. सामुद्रक m. an interpreter of marks or spots on the body, fortune-teller, Siṃhās.
📄 मूल मुद्रित पृष्ठ (1206,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
सामुद्रक न० समुद्रेणर्षिणा प्रोक्तम् वुण् । हस्तादिरेखादिना स्त्रीपुरुषशुभाशुभलक्षणज्ञापके समुद्रर्षिकृते १ ग्रन्थभेदे “वामभागे तु नारीणां दक्षिणे पुरुषस्य च । तिर्दिष्टं लक्षणं तेषां समुद्रेण यथोदितम् इति सामुद्रकसार- मुद्रणा” नैष० । सामुद्र स्वार्थे क । २ समुद्रलवणे राजनि०
📄 मूल मुद्रित पृष्ठ (5284,a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
सामुद्रकं, क्ली, (सामुद्रमेव । स्वार्थे कन् ।) समुद्र- लवणम् । इति राजनिर्घण्टः ॥ समुद्रोक्तस्त्रीपुं- लक्षणग्रन्थः । तद्विवरणं यथा, -- श्रीकृष्ण उवाच । “कीदृशः पुरुषो वन्द्योऽवन्द्यो वा कीदृशो भवेत् कन्या वा कीदृशी शस्या गर्हिता वापि कीदृशी ॥ महेश उवाच । शृणु कृष्ण प्रवक्ष्यामि समुद्रवचनं यथा । लक्षणन्तु मनुष्याणां एकैकेन वदाम्यहम् ॥ वामभागे तु नारीणां दक्षिणे पुरुषस्य च । निर्द्दिष्टं लक्षणं तेषां समुद्रेण यथोदितम् ॥ पूर्व्वमायुः परीक्षेत पश्चाल्लक्षणमेव च । आयुर्हीनं नराणाञ्चेत् लक्षणैः किं प्रयो- जनम् ॥” अथ पुरुषलक्षणम् । “पञ्चदीर्घं चतुर्ह्रस्वं पञ्चसूक्ष्मं षडुन्नतम् । सप्तरक्तं त्रिगम्भीरं त्रिविशालं प्रशस्यते ॥ बाहुनेत्रद्वयं कुक्षी द्वौ तु नासा तथैव च । स्तनयोरन्तरञ्चैव पञ्चदीर्घं प्रशस्यते ॥ ग्रीवाथ कर्णौ पृष्ठ ह्रस्वे जङ्घे सुपूजिते । चत्वारि यस्य ह्रस्वानि पूजां प्राप्नोति नित्यशः ॥ सूक्ष्माण्यङ्गलिपर्व्वाणि दन्तकेशनखत्वचः । पञ्च सूक्ष्माणि येषां हि ते नरा दीर्घजीविनः ॥ नासा नेत्रञ्च दन्ताश्च ललाटञ्च शिरस्तथा । हृदयञ्चैव विज्ञेयमुन्नतं षट् प्रशस्यते ॥ पाणिपादतलौ रक्तौ नेत्रान्तरनखानि च । तालुकोऽधरजिह्वा च सप्तरक्तं प्रशस्यते ॥ स्वरो बुद्धिश्च नाभिश्च त्रिगम्भीरमुदाहृतम् । उरः शिरो ललाटञ्च त्रिविस्तीर्णं प्रशस्यते ॥ कटिर्बिशाला बहुपुत्त्रभागी विशालहस्तो नरपुङ्गवः स्यात् । उरो विशालं धनधान्यभागी शिरो विशालं नरपूजितः स्यात् ॥ न श्रीस्त्यजति रक्ताङ्गं नार्थः कनकपिङ्गलम् । दीर्घबाहुं न चैश्वर्य्यं न मांसोपचितांसकम् । कदादिद्दन्तुरो मूर्खः कदाचित् लोमशः सुखी । [] कदाचित् तुन्दिलो दुःखी कदाचित् चञ्चला सती ॥ नेत्रस्नेहेन सौभाग्यं दन्तस्नेहेन भोजनम् । हस्तस्नेहेन चैश्वर्य्यं पादस्नेहेन वाहनम् ॥ अकर्म्मकठिनौ हस्तौ पादावध्वनि कोमलौ । यस्य पाणितलौ रक्तौ तस्य राज्यं विनिर्द्दिशेत् ॥ दीर्घलिङ्गेन दारिद्रं स्थूललिङ्गेन निर्धनः । कृशलिङ्गेन सौभाग्यं ह्रस्वलिङ्गेन भूपतिः ॥ रेखाभिर्बहुभिर्दुःखं स्वल्पाभिर्धनहीनता । रक्ताभिः श्रियमाप्नोति कृष्णाभिः प्रेष्यतां व्रजेत् अङ्गुष्ठोदरभध्ये तु यवो यस्य विराजितः । उन्नतं भोजनं तस्य शतं जीवति मानवः ॥ अङ्कुशं कुलिशं छत्रं यस्य पाणितले भवेत् । तस्यैश्वर्य्यं विनिर्द्दिष्टं अशीत्यायुर्भवेद्ध्रुवम् ॥ धनुर्यस्य भवेत् पाणौ पङ्कजं वाथ तोरणम् । तस्यैश्वर्य्यञ्च राज्यञ्च अशीत्यायुर्भवेद्ध्रुवम् ॥ कनिष्ठातर्जनीं यावद्रे खा भवति चाक्षता । विंशत्यब्दाधिकशतं नरो जीवत्यनामयः ॥ कनिष्ठामध्यमां यावद्रेखा भवति चाक्षता । शताब्दं वाथ वाशीतिं नरो जीवेन्न संशयः ॥ कनिष्ठानामिकायाञ्चेत् रेखा भवति चाक्षता । षष्टिं पञ्चाशदब्दं वा नरा जीवन्त्यसंशयम् ॥ रेखया भिद्यते रेखा स्वल्पायुश्च भवेन्नरः । कनिष्ठाधःस्थिता रेखाः संख्या यावतिकाः स्मृताः । तावती पुरुषाणान्तु नारी भवति निश्चितम् ॥ करमध्यगता रेखा ध्रुवा ऊर्द्धम्भवेद् यदि । नृपो वा नृपतुल्यो वा ख्यातोऽर्थवान् भवेत् ॥ मत्स्यपुच्छप्रकीर्णेन विद्यावित्तसमन्वितः । पितामहस्य वा किञ्चिद्धनञ्च लभते ध्रुवम् ॥ मध्यमायां यदि यवा दृश्यन्तेऽत्यन्तशोभनाः । तदान्यसञ्चितं वित्तं प्राप्नोत्यङ्गुष्ठके यवे ॥ यस्याथ चक्रमङ्गुष्ठे यवः पूर्णश्च दृश्यते । तदा पितामहादीनामर्ज्जितं धनमाप्नुयात् ॥ तर्जन्यामथ चक्रञ्च मित्रद्वारा धनम्भवेत् । तेनैव विपरीतन्तु व्ययो भवति निश्चितम् ॥ मध्यमायां स्थिते चक्रे देवद्वारा धनं लभेत् । तेनैव विपरीतन्तु व्ययो भवति निश्चितम् ॥ अनामिकायां भवेच्चक्रं सर्व्वद्वारा भवेद्ध
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬