सिंहलं, क्ली, (सिंहलो देशः प्रभवत्वेनास्त्यस्येति । अच् ।) रङ्गम् । इति हेमचन्द्रः ॥ रीतिः । त्वचम् । इति राजनिर्घण्टः ॥
सिंहलः, पुं, स्त्री, (सिंहं लाति प्राप्नोतीति । ला + कः ।) देशविशेषः । शिलोन इति ख्यातः । यथा, -- “दक्षिणेऽवन्तिमाहेन्द्रमलया ऋष्यमूककाः । चित्रकूटमहारण्यकाञ्चीसिंहलकोङ्कणाः ॥” इति ज्योतिस्तत्त्वम् ॥ (अयञ्च जम्बुद्वीपस्य अष्टप्रमिद्धद्वीपानामन्य- तमः । यथा, भागवते । ५ । १९ । २९ -- ३० । “जम्बुर्द्वपस्य च राजन् उपद्वीपानष्टौ हैक उपदिशन्ति सागरात्मजैरश्वान्वेषण इमां महीं परितो निखनद्भिरुपकल्पितान् । तद्यथा स्वर्णप्रस्थश्चन्द्रशुक्ल आवर्त्तनो रमणको मन्द- हरिणः पाञ्चजन्यः सिंहलो लङ्गेति ॥” * ॥ तद्देशवासिनि, पुं, भूम्नि । यथा, महाभारते । १ । १७६ । ३५ । “पौण्ड्रान् किरातान् यवनान् सिंहलान् वर्व्ववान् खशान् । ससर्ज्जफेनतः सा गौर्म्लेच्छान् बहुविधानपि ॥”)
📄 मूल मुद्रित पृष्ठ (5-345-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।