स्त्रैणं, क्ली, (स्त्रिया इदम् । स्त्री + नञ् ।) स्त्री- स्वभावः । यथा, भट्टिः । “कर्णेजपैराहितराज्यलोभा स्त्रेणेन नीता विकृतिं लघिम्ना । रामप्रवासे व्यमृषन्न दोषं जनापवादं सनरेन्द्रमृत्युम् ॥” (यथा, च भागवते । ४ । ४ । ३ । “पित्रोरगात् स्त्रैणविमूढधीर्गृहान् प्रेम्णात्मनो योऽर्द्धमदात् सतां प्रियः ॥” स्त्रीणां समूहः । स्त्री + नञ् । स्त्रीसमूहः । इति काशिका । ४ । १ । ८७ ॥ यथा, शान्तिशतके । “तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः क्वचित् पुण्येऽरण्येशिव शिव शिवेति प्रलपतः ॥)
स्त्रैणः, त्रि, (स्त्रीषु भवः । स्त्रीभ्य आगतः । स्त्रीभ्यो हितो वा । स्त्री + “स्त्रीपुंसाभ्यां नञ् स्नञौ भवनात् ।” ४ । १ । ८७ । इति नञ् ।) स्त्री- सम्बन्धी । इति मुग्धबोधव्याकरणम् ॥ स्त्रिया अपत्यं स्त्रैणः । स्त्रिया इदं स्त्रीणां समूहो वा स्त्रैणम् । इति तट्टीकायां दुर्गादासः ॥ (रमणी रतः । यथा, भागवते । १ । ११ । ४० । “तं मेनिरेऽबलामौढ्यात् स्त्रैणं चानुव्रतं रहः । अप्रमाणविदो भर्त्तुरीश्वरं मतयो यथा ॥”)
📄 मूल मुद्रित पृष्ठ (5-443-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।