स्यन्द, ऊ ङ व ऌ स्रुतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-आ०-सक०-वेट् ।) अन्तःस्थाद्ययुक्तः । ऊ, अस्यन्दिष्ट अस्यन्त । ङ, स्यन्दते । व, स्यनत्स्यति स्यन्दिष्यति । ऌ, अस्यदत् । लुतिः क्षरणम् । प्रस्यन्दन्मदगन्धलुब्धमधुपेत्यत्र गण कृतानित्यत्वमिति रमानाथः । वस्तुतस्तु प्रस्य- न्दने प्रस्यन्दः पचादित्वादन् ततः प्रस्यन्द इवाचरतीति क्वौ शत्रन्तम् । इति दुर्गादासः ॥
स्यन्दः, पुं, स्यन्दनम् । स्यन्दधातोर्घञ् प्रत्ययेन्न निप्पन्नः ॥ (यथा, राजतरङ्गिण्याम् । १ । २४ । [] “तदमन्दमजस्यन्दसुन्दरेयं निपीयताम् । श्रोत्रशुक्तिपुटैः स्पष्टसङ्गराजतरङ्गिणी ॥” रोगविशेषः । यथा, सुश्रुते । २ । ४६ । “स्यन्दाग्निसादच्छर्द्द्यादीनामयान् जनयेद्बहून् स्वेदोद्गमः । इति श्रीधरस्वामी ॥ यथा, भाग- वते । ५ । ११ । ९ । “यत्रोदिते तस्य समानसूत्रनिपाते निम्लोचति यत्र क्वचन स्यन्देनाभितपतीति ॥”)
📄 मूल मुद्रित पृष्ठ (5-464-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।