हिङ्गु, क्ली, मूलविशेषनिर्यासः । स तु पारस्य- खोरासानमूलतानादिदेशे भवति । हिं इति भाषा । तत्पर्य्यायः । सहस्रवेधि २ जतुकम् ३ वाह्लोकम् ४ रामठम् ५ । इत्यमरः । २९ । ४० ॥ वाह्लिकम् ६ रामठम् ७ । इति भरतः ॥ जन्तु- घ्नम् ८ । इति रत्नमाला ॥ पिण्याकम् ९ वाह्ली १० सहस्रवेधी ११ गृहिणो १२ मधुरा १३ सूपधूपनम् १४ जतु १५ । इति शब्दरत्नावलो ॥ केशरम् १६ । इति जटाधरः ॥ उग्रगन्धम् १७ भूतारि १८ जन्तुनाशनम् १९ सूपाङ्गम् २० रक्षोघ्नम् २१ उग्रवीर्य्यम् २२ अगूढगन्धम् २३ जरणम् २४ भेदनम् २५ दीप्तम् २६ । अस्य गुणाः । हृद्यत्वम् । कटत्वम् । उष्णत्वम् । [] कृमिवातकफविबन्धाध्मानशूलगुल्मनाशित्वम् । चक्षुष्यत्वञ्च । इति राजनिर्घण्टः ॥ अपि च ॥ “हिङ्गूष्णं पाचनं रुच्यं तीक्ष्णं वातवलासहृत् । रसे पाके च कटुकं स्निग्धञ्च वह्निदीपनम् । शूलगुल्मोदरानाहकृमिघ्नं पित्तवर्द्धनम् ॥” इति भावप्रकाशः ॥ * ॥ अन्यच्च । “हिङ्गु तीक्ष्णं कटुरसं शूलाजीर्णविबन्धनुत् । लघूष्णं पाचनं स्निग्धं दीपनं कफवातजित् ॥” इति राजवल्लभः ॥ वंशपत्री । इति भावप्रकाशः ॥ (काकादनी । तदर्थे पर्य्यायो यथा, -- “हिङ्गु काकादनी मता ।” इति गारुडे २०८ अध्याये ॥ क्वचिद्रामठार्थे, पुं । तत्पर्य्यायो यथा, -- “रामठं हिङ्गुरुच्यते ॥” इति च तत्रैव २०८ अध्याये ॥)
📄 मूल मुद्रित पृष्ठ (5-536-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।