🕉️ 20 November 2026, Friday · 10:21:38 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

हिंगुल
hiṃgula
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
हिंगुल संज्ञा पुं॰ [सं॰ हिङ्गुल]
१. ईंगुर । सिंगरफ ।
२. एक नदी का नाम ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
हिङ्गुल m. n. a preparation of mercury with sulphur, vermilion, VarBṛS.
📄 मूल मुद्रित पृष्ठ (1298,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
हिंगुलः --लं Vermilion.
हिंगुलः --लं Vermilion.
📄 मूल मुद्रित पृष्ठ (1171-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
हिङ्गुल पुंन० हिङ्गु तद्वर्णं साति सा--क । रक्तवर्णे [] वर्णकद्रव्यभेदे अमरः २ वार्त्ताक्यां ३ वृहत्याञ्च स्त्री ङीष् वर्णकभेदे तस्य शोधनाटिकं भावप्र० उक्तं यथा “मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम् । सप्त वारान् प्रयत्नेन शुद्धिमायाति निश्चितम्” । एवं शीधितस्य हिङ्गुलस्य गुणाः । “तिक्तं कृषायं कटु हिङ्गुलं स्या- न्नेत्रामयघ्नं कफपित्तहारि । हृल्लासकण्डूज्वरकाम- लांश्च प्लाहामवातौ च गरं निहन्ति” । अथ हिङ्गु- लाद्रसाकर्षणविधिः “निम्बूरसैर्निम्बपत्ररसैर्वा याम- मात्रकम् । घृष्ट्वा दरदमूर्द्धन्तु पातयेत् सूतयुक्तिवत् । तत्रोर्द्धपिठरीलग्मं गृह्णीयाद्रसमुत्तमम् । शुद्धमेव हितं सूतं सर्वकर्मसु योजयेत्” । तल्लक्षणं दरदशब्दे ३४७१ पृ० दृश्यम् । सतीदेहब्रह्मरन्ध्रपातस्थाने ४ देशविशेषे स्त्री (हिङ्लाट्) । “ब्रह्मरन्ध्रं हिङ्गुलायां देवता भीमलोचना । कोटबी सा महामाया त्रिगुणा या दिगम्बरी” पीठमा० ।
📄 मूल मुद्रित पृष्ठ (5426-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
हिङ्गुलः, पुं, क्ली, (हिङ्गु तद्वर्णं लातीति । ला + कः ।) रागद्रष्यविशेषः । तत्पर्य्यायः । हिङ्गुलुः २ । इत्यमरभरतौ । ३ । ५ । २० ॥ हिङ्गुलम् ३ रक्तम् ४ मर्क्कटशीर्षम् ५ दरदः ६ रसः ७ । इति रत्नमाला ॥ हंसपादम् ८ कुरुविन्दः ९ । [] इति हेमचन्द्रः ॥ हिङ्गुलिः १० रक्तपारदः ११ । इति जटाधरः ॥ वर्व्वरम् १२ सुरङ्गम् १३ सुपरम् १४ रञ्जनम् १५ दरदम् १६ म्लेच्छम् १७ चित्राङ्गम् १८ चूर्णपारदम् १९ चर्म्मारकम् २० मणिरागम् २१ रसोद्भवम् २२ रञ्जकम् २३ रसगर्भम् २४ । अस्य गुणाः । मधुरत्वम् । तिक्तत्वम् । उष्णत्वम् । वातकफत्रिदोषद्वन्द्वदोष- ज्वरनाशित्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अपि च । अथ हिङ्गुलस्य नामानि लक्षणानि गुणाश्च । “हिङ्गुलं दरदं म्लेच्छं वित्रास चूर्णपारदम् । दरदस्त्रिविधः प्रोक्तश्चर्म्मारः शुक्रतुण्डकः । हंसपादस्तृतीयः स्याद्गुणवानुत्तरोत्तरः ॥ चर्म्मारः शुक्लवर्णः स्यात् सपीतः शुकतुण्डकः । जवाकुसुमसङ्काशो हंसपादो महोत्तमः ॥ तिक्तं कषायं कटु हिङ्गुलं स्या- न्नेत्रामयघ्नं कफपित्तहारि । हृल्लासकुष्ठज्वरकामलांश्च प्लीहामवातौ च गरं निहन्ति ॥ ऊर्द्ध्वपातनयुक्त्या तु डमरुयन्त्रपाचितम् । हिङ्गुलं तस्य सूतं तु शुद्धमेव न शोधयेत् ॥” इति ॥ * ॥ तत्र हिङ्गुलस्य शोधनविधिः । “मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम् । सप्तवारान् प्रयत्नेन शुद्धिमायाति निश्चितम् ॥” एवं शोधितस्य हिङ्गुलस्य गुणाः । “तिक्तं कषायं कटु हिङ्गुलं स्या- न्नेत्रामयघ्नं कफपित्तहारि । हृल्लासकुष्ठज्वरकामलांश्च प्लीहामवातौ च परं निहन्ति ॥” इति ॥ * ॥ (पर्य्यायः शोधनप्रकारान्तरञ्च यथा, -- “हिङ्गले हिङ्गुलुर्याति दरदः शुकतुण्डकः । रसगन्धकसम्भूतो हिङ्गुलो दैत्यरक्तकः ॥ अम्लवर्णद्रवैः पिष्ट्वा दरदो माहिषेण च । दुग्धेन सप्तधा पिष्टः शुष्कीभूतो विशुध्यति ॥” तथाच प्रकारान्तरम् । “आद्रकैर्लकुचद्रावैः सप्तधा भावितो यदि । हिङ्गुलः शुद्धतां याति निर्द्दोषो जायते खलु ॥ विम्ब्याभं हिङ्गुलं दिव्यं रसगन्धकसम्भवम् ॥ मेहकुष्ठहरं रुच्यं बल्यं मेधाग्निवर्द्धनम् ॥” इति हिङ्गुलशुद्धिः ॥ * ॥ इति वैद्यकरसेन्द्रसारसंग्रहे जारणमरणाधि- कारे ।) अथ हिङ्गुलाद्रसाकर्षणाविधिः । “निम्बरसैर्निम्बपत्ररसैर्वा याममात्रकम् । घृष्ट्वा दरदमूर्द्धं तु पातयेत् सूतयुक्तिवत् ॥ तत्रोर्द्ध्वपिठरीलग्नं गृह्णीयाद्रममुत्तमम् । शुद्धमेव हि तत् सूतं सर्व्वकर्म्मसु योजयेत् ॥” इति च भावप्रकाशः ॥
📄 मूल मुद्रित पृष्ठ (5-536-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "हिंगुल" आता है (11)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें