हिक्का स्त्री हिगिति शब्दं करोतीति पृषो० । रोगभेदे (हेचकी) अमरः । तन्निदानादिकं भावप्र० उक्तं यथा “अथ हिक्काधिकारः । तत्र हिक्कायाः विप्रकृष्टं नि- दानमाह “विदाहिगुरुविष्टम्भिरूक्षाभिव्यन्दिभोजनैः । शीतपानाशनस्नानरजोधूमात्तथाऽनिलैः । व्यायाम- कर्मभाराध्ववेगाघातापतर्पणैः । हिक्का श्वासश्च का- सश्च नृणां समुपजायते” । अपतर्पणमनशनादि । संप्राप्तिमाह “वायुः कफेनानुगतः पञ्च हिक्काः करोति हि । अन्नजां यमलां क्षुद्रां गम्भीरां महतीं तथा” । सामान्यलक्षणमाह “मुहुर्मुहुर्वायुरुदेति सस्वनः यकृत्- प्लिहान्त्राणि मुखादिवाक्षिपन् । सदोषवानाशु हिनस्त्य शून्यतस्ततस्तु हिक्केत्यमिधीयते बुधैः” । वायुरत्न सोदानः प्राणो बोद्धव्यः । उदेति ऊर्द्ध्वं याति । सस्वनः शब्दवान् । ऊर्द्ध्वगमनंविशिनष्टि यकृदित्यादि प्लिह इति शब्दोऽप्यस्ति दीर्घत्व विकल्पात् । सुखादिति ल्यब् लोपे पञ्चमी तेन यकृत्प्लीहान्त्राणि मुखमानीय आक्षि- पन् निःसारयन् इवेत्यर्थः । वायुः दोषवान् दोषोऽत्र कफः तद्वान् वायुः कफेनानुगत इति सम्प्राप्तिः । हिन- स्त्रीति हिक्का पृषोदरादित्वाद्रूपसिद्धिः हिगिति शब्दं करोतीति वा । पूर्वरूपमाह “कण्ठोरलोर्गुरुत्थञ्च वदनस्य कपायता । हिक्कानां पूर्वरूपाणि कुक्षेराटोप एव च” । वदनस्य कषायता वातात् । अन्नजालक्षण- माह “पानान्नैरतिसंयुक्तैः सहसा पीडितोऽनलः । हिक्कयत्थूर्द्धगो भूत्वा तां विद्यादन्नजां भिषक्” अ- निलः प्राणो वायुः । यमलालिङ्गमोह “चिरेस यम- [] लैर्वेगैर्या हिक्का सम्प्रवर्त्तते । कम्पयन्ती शिरोग्रीवां यमलां तां विनिर्दिशेत्” । क्षुद्रामाह “विकृष्टकालैर्या वेगै- र्मन्दैः समभिवर्त्तते । क्षुद्रिका नाम सा हिक्का जत्रु- मूलं प्रधावति” । विकृष्टकालैः चिरेण । जत्रुः कक्षो रसोः सन्धिः । भमीरामाह “नाभिप्रवृत्ता या हिक्का घोरा गम्भीरनादिनी । अनेकोपद्रववती गम्भीरा नाम सा स्मृता” । अनेकोपद्रववती तृष्णाज्वरादियुक्ता । महतीमाह “मर्माणि पीडयन्तीव सततं या प्रवर्त्तते । महाहिक्केति सा ज्ञेया सर्वगात्रप्रकम्पिनी” । मर्माणि वस्तिहृदयशिरःप्रभृतीनि । असाध्यत्वमाह “आय- म्यते हिक्कितो यस्य देहो दृष्टिश्चोर्द्ध्वं ताम्यते नित्य- मेव । क्षीणोऽन्नद्विट् क्षौति यश्चातिमात्रं तौ द्वौ चान्त्यौ वर्जयेद्धिक्कवन्तौ । आयम्यते विस्तार्य्यत इव तौ द्वाविति आयम्यत इत्यादिना नित्यमेवेत्यन्तेनैको हिक्कमानः । क्षीण इत्यादिनाऽतिमात्रमित्यन्तेनापरः । तौ द्वौ अन्त्यौ च गम्भीरया महतीहिक्कया हिक्कमानौ वर्जयेत् । अपरञ्च “अतिसञ्चितदोषस्य भक्तद्वेष कृशस्य च । व्या- धिभिः क्षीणदेहस्य वृद्धस्यातिव्यवायिनः । आयासाच्च समुत्पन्ना हिक्का हन्त्याशु जीवितम् । यमिका च प्रलापार्तिमोहतृष्णासमन्विता” । साध्यत्वमाह “अखीण- स्याप्यदीनस्य स्थिरधात्विन्द्रियस्य च । तस्य साधयितुं शक्या यमिका हन्त्यतोऽन्यथा” ।
📄 मूल मुद्रित पृष्ठ (5426-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।