ॠ ॠकारः स्वरवर्णविशेषः मूर्द्धन्यः स च दीर्घः उदात्तानु- दात्तस्वरितभेदात् त्रिचिधः नुनः अनुनासिकानुनासिकभेदेन प्रत्येकं द्विधेति षट् । मातृकान्यासे वामनासायां तस्य न्यस्य तया वामनासाशब्देनाप्यभिधेयता । तस्य कामधेनु- तन्त्रे ध्येयस्वरूपमुक्तं यथा । “ॠकारं परमेशानि! स्वयं परमकुण्डलीम् । पीतविद्युल्लताकारं पञ्चदेवमयं [] सदा । चतुर्ज्ञानमयं वर्ण्णं पञ्चप्राणयुतं सदा । त्रि- शक्तिसहितं वर्णं प्रणमामि सदा प्रिये!” । अस्य प्लुत- त्वोक्तिश्चिन्त्या दीर्घस्य द्विमात्रत्वेन त्रिमात्रोच्चार्य्यप्लुता- द्भिन्नत्वात् आकारभेदाच्च ।
ॠ गत्यां क्र्यादि० प्वादि० पर० सक० सेट् । प्वादि० श्नाप्रत्यये ह्रस्वः । ऋणाति ऋणीतः ऋणन्ति । ऋणीयात् ऋणातु ऋणीहि । आर्ण्णात् आर्णीताम् आर्णन् । आरीत् । आर! आरतुः । अरिता । ईर्य्यात् । अरि- ष्यति । आरिष्यत् । अरितव्यः अरणीयः आर्य्यः । अरिता । ऋणन् । ईर्ण्णः । अरः ।
ॠ अव्य० ॠ--क्किप् बा० इत्वाभावः । १ वाक्यारम्भे २ रक्षायां मेदि० । ३ निन्दायां ४ भये च शब्दरत्ना० । ५ देवमातरि ६ दानवमातरि ७ स्मृतौ ८ गतौ च स्त्री० वक्षसि न० मेदि० । ९ भैरवे १० दनुजे पु० मेदि० । इति वाचस्पत्ये ॠकारादिशब्दार्थसङ्कलनम् ।
ॠ “ॠःक्रोधी तिथीशोवाणीवामनो गोमुखी धृतिः । ऊर्द्ध्व- मुखो निशानाथः पद्ममाला विनष्टधीः । शशिनी मोचिका श्रेष्ठा दैत्यमाता प्रतिष्ठिता । एकदन्ताह्वयोमाता- त्वरिता मिथुनोदया । कोमला श्यामला मेधा तारका- पतिरष्टमी । ब्रह्माण्यमरकीलाले पावकोगन्धक षणा ।
ॠ “ॠकारं परमेशानि! स्वयं परमकुण्डलीम् । पीतवि- द्युल्लताकारं पञ्चदेवमयम् सदा । चतुर्ज्ञानमयं वर्णं पञ्चप्राणयुतं सदा । त्रिशक्तिसहितं वर्णं प्रणमामि सदा प्रिये ।
📄 मूल मुद्रित पृष्ठ (1458-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।