अङ्गहीन त्रि० अङ्गेन हीनम् । साधनीभूतद्रव्यकालाद्यङ्ग- करणशून्ये कर्म्मणि “अङ्गहीनं क्रियाहीनं विधिहीनञ्च यद् भवेत् । तत् सर्व्वं पूर्णतामेतु भास्करस्य प्रसादतः” इति स्मृतिः । “अङ्गहीनो दहेद्राष्ट्रं मन्त्रहीनस्तु ऋत्वि- जम् । यजमानमदक्षिण्यो नास्ति यज्ञसमो रिपुः” इति पुरा० । विकले, छिन्नदेहे च त्रि० । अङ्गेन देहेन हीनः रहितः । कामे पु० । तस्यानङ्गत्वात्तत्त्वम् । अङ्गं हीनं यथोचितप्रमाणादल्पं यस्य । हस्तपादाद्यववयवस्य यथो- चितपरिमाणाभावयुक्ते त्रि० । “धान्यचौरोऽङ्गहीनत्वमा- तिरेक्यञ्च मिश्रक इति” मनुः । वा परनिपातेऽहीनाङ्गो- ऽप्यत्रार्थे । अङ्गस्य हीनतायां कारणमुक्तं सुश्रुते । “द्विहृदयाञ्च नारीं दौहृदिनीमाचक्षते । दौहृदविमान- [] नात् कुब्जं कुणिं खञ्जं जडं वामनं विकृताक्षमनक्षं वा नारी सुतं जनयति । तस्मात् सा यद्यदिच्छेत्तत्तस्यै दाप- येत् । लब्धदौहृदा हि वीर्य्यवन्तं चिरायुषञ्च पुत्त्रं जन- यति ॥ भवन्ति चात्र ॥ इन्द्रियार्थांस्तु यान्यान् सा भोक्तु- मिच्छति गर्भिणी । गर्भाबाधभयात्तांस्तान् भिषगाहृत्य दापयेत् । सा प्राप्तदौहृदा पुत्त्रं जनयेत गुणान्वितम् । अलब्धदौहृदा गर्भे लभेतात्मनि वा भयम् ॥ येषु येष्वि- न्द्रियार्थेषु दौहृदे वै विमानना । जायेत तत् सुतस्यार्त्ति- स्तस्मिंस्तस्मिंस्तथेन्द्रिये” इति ॥
📄 मूल मुद्रित पृष्ठ (0078-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।