अगुरु, क्ली, (न गुरु दुर्भरः अस्मात् इति । बहुब्रीहिः ।) शिंशपावृक्षः ॥ कालागुरु । स्व- नामप्रसिद्धसुगन्धिकाष्ठविशेषः । अगर इति ख्यातः । अस्य पर्य्यायः । वंशिकं १ राजार्हं २ लोहं ३ कृमिजं ४ जोङ्गकं ५ । इत्यमरः ॥ श्टङ्गजं ६ कृष्णं ७ लोहाख्यं ८ लघु ९ । इति रत्नमाला ॥ पीतकं १० वर्णप्रसादनं ११ अनार्य्यकं [] १२ असारं १३ कृमिजग्धं १४ काष्ठकं १५ । इति राजनिर्घण्टः ॥ अस्य गुणाः । तिक्तत्वं । उष्णत्वं । कटुत्वं । लेपे रूक्षत्वं । व्रणकफवायुवान्तिमुख- रोगनाशित्वञ्च । इति राजवल्लभः राजनिर्घण्टश्च ॥ अगुरुर्वापुंसीति वोपालितः ॥ पुमान् इति सर्व्वा- नन्दः ॥ गन्धद्रव्यविशेषः । यथा, -- अगुरु प्रवणं लोहं राजार्हं योगजं तथा । वंशिकं कृमिजञ्चापि कृमिजग्धमनार्य्यकं ॥ अगुरूष्णं कटुत्वं च तिक्तं तीक्ष्णञ्च पित्तलं । लघु कर्णाक्षिरोगघ्नं शीतवातकफप्रणुत् ॥ कृष्णं गुणाधिकं तत्तु लोहवद्वारि मज्जति । अगुरुप्रभवः स्नेहः कृष्णागुरुसमः स्मृतः” ॥ इति भावप्रकाशः ॥
अगुरुः, त्रि, (न गुरुः । नञ् समासः ।) गुरुभिन्नः । लघुः । इति मेदिनी ॥
📄 मूल मुद्रित पृष्ठ (1-008-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।