अजमोदा, स्त्री, (अजानां खाद्यतया मोदो हर्षो यस्याः सा अजानां मोदो गन्ध इव गन्धो यस्याः सा) यवानिका । तत्पर्य्यायः । उग्रगन्धा २ ब्रह्म- दर्भा ३ यवानिका ४ ॥ इत्यमरः । यमानी द्विविधा । एका क्षेत्रयमानी सा अजमोदेत्येव ख्याता । अपरा यमानीत्येव ख्याता । अविशेषात् द्वयो- रपीति सुभूतिः ॥ केचित्तु अजमोदादिद्वयं वन- यमान्यां । ब्रह्मदर्भादिद्वयं यमान्यामित्याहुः उग्रगन्धाजमोदाख्या स्मृतक्षेत्रयमानिकेति । य- मानी दीपको दीप्यो भूतिकश्च यमानिकेति च रत्नमाला ॥ इति भरतः ॥ * ॥ वैद्यके तु वन- यमानी इति ख्याता । तत्पर्य्यायः । खराह्वा २ वस्तमोदा ३ मर्कटी ४ मोदा ५ गन्धदला ६ [] हस्तिकारवी ७ गन्धपत्रिका ८ मायूरी ९ शि- खिमोदा १० मोदाढ्या ११ वह्निदीपिका १२ ब्रह्मकोशी १३ विशाली १४ हयगन्धा १५ उग्र- गन्धिका १६ मोदिनी १७ फलमुख्या १८ वि- शल्या १९ । अस्या गुणाः । कटुत्वं । उष्णत्वं । रूक्षत्वं । रुचिकारित्वं । कफवायुशूलाध्मानारुचि- जठरामयनाशित्वञ्च । इति राजनिर्घण्टः ॥ य- मानी । यथा, -- “अजमोदा खराश्वा च मयूरो दीप्यकस्तथा । तथा ब्रह्मकुशा प्रोक्ता कारवी लोचमस्तकः ॥ अजमोदा कदुस्तीक्ष्णा दीपनी कफवातनुत् । उष्णा विदाहिनी हृद्या वृष्या बलकरी लघुः ॥ नेत्रामयकृमिच्छर्द्दिहिध्मवस्तिरुजो हरेत्” ॥ * ॥ अथ खुरासानीयवानीनामगुणाः । “पारसीययवानी तु यवानीसदृशी गुणैः । विशेषात्पाचनी रूक्षा ग्राहिणी मादिनी गुरुः” ॥ इति भावप्रकाशः ॥
📄 मूल मुद्रित पृष्ठ (1-018-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।