अपघन पु० अपहन्यते संहत्य कर्म्म कृत्वा वियुज्यते अप + हन- अप् घनादेशः । शरीरे, हस्ताद्यवयवे च । शरीरादि हि पुरुषोपभोगाय प्रथमं संहत्य तत्तत्कर्म्म निष्पाद्य भोगादृष्ट- क्षये पुनर्वियुज्यते इति तस्य तथात्वम् । देहादेः संहत्य [] कारित्वं च पातञ्जलादौ दर्शितं यथा । “परार्थं संहत्य कारित्वादिति” पात० । इतरसाहित्येनार्थक्रियाकारित्वं संहत्यकारिता, संहननञ्च आरम्भकसंयोगभेदः । तथा च देहादिकं परार्थं (स्वेतरस्य भोगापवर्गफलकम्,) संहतत्वात् शय्यासनादिवदित्यनुमानप्रयोगः । अतएव सांख्यसूत्रे “संहतपरार्थत्वादिति” संहन्तृसिद्धिरुक्ता । संहतानां देहा दीनां स्वेतरस्य भोगादिफलकत्वात् संघातातिरिक्तः पुरुषो- ऽनुमीयते नहि अचेतनानां देहादीनां स्वतः संघातः सम्भ- वति अतः संघातसिद्धये पुरुषसिद्धिरिति समुदितार्थः । “संयोगाश्च विभागान्ता” इत्युक्तेः संयोगभेदरूपसंहननस्या- वश्यं वियोगान्तत्वात् देहादीनां तदवयवानाञ्च क्रमे- णारम्भकसंयोगनाशेन परस्परवियोग इत्यतोऽङ्गादेरवश्य- वियोगवत्त्वात् तथात्वम् अतएव “अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिण” इति गीतायामारम्भकसंयोगनाश- पूर्व्वकपरस्परवियोगेन नाश उक्तः । “लौहोद्घनघनस्कन्धा ललितापघनां स्त्रियमिति” भट्टिः । अपगतोघनोमेघो यस्मात् प्रा० ब० वा गतलोपः । मेघावरणशून्ये त्रि० वा गतलोपाभावे अपगतघनोऽप्युक्तार्थे ।
📄 मूल मुद्रित पृष्ठ (0223-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।