🕉️ 19 November 2026, Thursday · 08:11:40 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

अंग
aṃga
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📜 शब्द-रूप📗 अमरकोश
📗 अमरकोश — पर्याय
फिर (पुनः) (3.4.19)
प्रतीक (3.3.7) विपरीत · भाग
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
1. अङ्ग ind. a particle implying attention, assent or desire, and sometimes impatience; it may be rendered by well;
indeed, true; please; rather; quick
किम् अङ्ग, how much rather!
2. अङ्ग n. (√ अम्, Uṇ.), a limb of the body
a limb, member
the body
a subordinate division or department, especially of a science, as the six Vedāṅgas
hence the number six
N. of the chief sacred texts of the Jainas
a limb or subdivision of Mantra or counsel (said to be five, viz. 1. कर्मणाम् आरम्भोपायः, means of commencing operations; 2. पुरुष-द्रव्य-सम्पद्, providing men and materials; 3. देश-काल-विभाग, distribution of place and time; 4. विपत्ति-प्रतीकार, counter-action of disaster; 5. कार्य-सिद्धि, successful accomplishment; whence मन्त्र is said to be पञ्चाङ्ग)
any subdivision, a supplement
(in Gr.) the base of a word, but in the strong cases only, Pāṇ. i, 4, 13 seqq.
anything inferior or secondary, anything immaterial or unessential, See अङ्ग-ता
(in rhetoric) an illustration
(in the drama) the whole of the subordinate characters
an expedient
a mental organ, the mind, L.
अङ्ग m. sg. or pl. N. of Bengal proper or its inhabitants
अङ्ग m. (sg.), N. of a king of Aṅga
अङ्ग mfn. having members or divisions, L.
अङ्ग m. contiguous, L.
📄 मूल मुद्रित पृष्ठ (7,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
अङ्ग चिह्नयुक्तकरणे अदन्तचुरादि उभय० सकर्म्मकः सेट् । अङ्गय--ति ते आञ्जिग--त् त । मतान्तरे अङ्गापयति ते ।
अङ्ग न० अम--गत्यादौ वा० गन् । चित्ते (अङ्गजः कामः) “हिरण्यगर्भाङ्गभुवमिति” देहे “हस्तेनस्पर्श तदङ्गमिन्द्र” इति कुमा० । अङ्गशब्दस्य चेष्टावदन्त्यावयविरूपावयविवाचित्वेऽपि तदवयवेऽपि हस्तपादादौ व्यवहारः अवयवत्वसाम्यात् तेषाञ्च प्रत्यङ्गशब्देनापि व्यवहारः । तत्राङ्गशब्दस्य देहार्थत्वे तदीयस्वरूपं तदवयवभेदाश्च सुश्रुते दर्शिताः । यथा “शुक्रशोणितं गर्भाशयस्थमात्मप्रकृतिविकार- संमूर्च्छितं गर्भ इत्युच्यते तञ्च चेतनावस्थितं वायुर्विभ- जति, तेज एनं पचति, आपः क्लेदयन्ति, पृथिवी संहन्त्याकाशं विवर्द्धयति । एवं विवर्द्धितः स यदा हस्तपादजिह्वाघ्राणकर्णनितम्बादिभिरङ्गैरुपेतस्तदा शरीर- मिति संज्ञां लभते तच्च षडङ्गं शाखाश्चतस्रो, मध्यं पञ्चमं, षष्ठं शिर इति । “अतःपरं प्रत्यङ्गानि वक्ष्यन्ते । मस्तकोदरपृष्ठनाभि- ललाटनासाचिबुकवस्तिग्रीवा इत्येता एकैकाः । कर्ण- नेत्रनासाभ्रूशङ्खांसगण्डकक्षस्तनवृषपार्श्व स्फिग्जानु--बाहूरु- प्रभृतयो द्वे द्वे, विंशतिरङ्गुलयः । स्रोतांसि च वक्ष्य- माणानि । एष प्रत्यङ्गविभाग उक्तः ॥ तस्य पुनःसङ्ख्या- नम् । त्वचः कला धातवो मला दोषा यकृत्प्लीहानौ फुप्फुस उण्डुको हृदयमाशया अन्त्राणि बुक्कौ स्रोतांसि कण्डरा जालानि कूर्चा रज्जवः सेवन्यःसङ्घाताः सिमन्ता अस्थीनि सन्धयः स्नायवः पेश्यो मर्म्माणि शिरा धमन्यो योगवहानि स्रोतांसि च ॥ त्वचः सप्त । कलाः सप्त । आशयाः सप्त । धातवः सप्त । सप्त शिराशतानि । पञ्च पेशीशतानि । नव स्नायुशतानि । त्रीण्यस्थिशतानि । द्वे दशोत्तरे सन्धि- शते । सप्तोत्तरं मर्मशतम् । चतुर्विंशतिर्धमन्यः । त्रयो दोषाः, त्रयो मलाः । नव स्रोतांसीति समासः इति” ॥ अवयवे “शेषाङ्गनिर्म्माणविधौ विधातुरिति” कुमा० । अपाङ्ग इति । उपाये, “सर्व्वकार्य्यशरीरेषु मुक्त्वाङ्गस्कन्धपञ्चकमिति” “मन्त्रो योध इवाधीरः सर्व्वाङ्गैः संवृतैरपीति” च माघः । प्रधानोपयोगिनि उपकरणे, “फलवत्सन्निधावफलं तदङ्गमिति” मीमांसा । “प्रधानस्याक्रिया यत्र साङ्गं तत् क्रियते पुनः तदङ्गस्याक्रियायान्त्विति” स्मृतिः । “हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयमिति” सम्बोधने अव्य० । “त्वमङ्ग यस्याः पतिरुञ्झि तक्रम” इति नैषधम् । अङ्गमस्त्यस्य अच् । अङ्गवति [] “येनाङ्गविकार इति” पा० अङ्गस्याङ्गिन इत्यर्थः अन्तिके च त्रि० । जन्मादिलग्ने न० “अङ्गाधीशः स्वगेहे बुधगुरुकविभिः संयुतो वीक्षितो वेति” जातकम् । देशभेदे पु० । तस्य विवरणम् अङ्गाधिपशब्दे । “अङ्गेषु वङ्गेषु खसेषु योज्या” इति “अङ्गवङ्गखसेष्वेवेति” च ज्योति- षम् अङ्गानां राजा आङ्गः बह्वर्थे अङ्गाः । अङ्गदेशे भवः अण् । आङ्गः । बह्वर्थे अङ्गाः । अङ्गेन देहेन निर्वृत्तः ठक् । आङ्गिकः । अङ्गदेशस्तद्राजानो वा भक्तिरस्य अण् आङ्गः । अङ्गस्येदम् अङ्गीयः । “यस्मात् प्रत्ययविधि- स्तदादि प्रत्ययेऽङ्गमिति” पाणिनिपरिभाषिते प्रत्ययावधि- भूते शब्दभेदे, “इणः षीध्वं लुङ्लिटां धोऽङ्गादिति” पा० । अङ्गादागतम् अण् । आङ्गः अङ्गनिमित्ते कार्य्ये “वर्णा- दाङ्गं बलीय इति” परिभा० । उपकरणानि च यथा यथमुह्यानि दिङ्मात्रमत्रोच्यते । तत्र “स्वाम्यमात्यसुहृत् कोषो राष्ट्रं दुर्गं बलानि च राज्याङ्गानीत्युक्तानि” “स्वाम्य- मात्यौ पुरं राष्ट्रं कोषदण्डौ सुहृत्तथा । सप्त प्रकृतयो ह्येताः सप्ताङ्गं राज्यमुच्यते” इत्युक्तानि राज्याङ्गानि । दर्शादौ च प्रयाजादीनि, वैदिककर्म्मणाञ्च तत्तत्क्रिया- कलापाः तत्तद्द्रव्याणि चाङ्गानि “साङ्गाद्धि वैदिककर्मणः फलावश्यम्भ
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
अङ्ग, त् क पदे । (अङ्गयति चेष्टयति अङ्ग + णिच् अच् ।) लक्ष्मणि । इति कविकल्पद्रुमः ॥ कण्ठ्य- वर्गतृतीयोपधः । पदं सङ्ख्यासंस्थानं । लक्ष्म चिह्नयुक्तक्रिया । तथा च । अर्थक्रियैव धातूनां कर्तृव्यापारलक्ष्मणा । आत्मनिष्ठं क्रियार्थत्वं धात्वर्थेष्वक्रियात्मसु ॥ इति बोपदेवः । अङ्गयति अङ्गापयति, इति दुर्गादासः ॥
अङ्ग, व्य सम्बोधनं । इत्यमरः ॥ (रामायणे, -- “अङ्गावेक्षस्व सौमित्रे कस्येमां मन्यसे चमूं” । पुनरर्थः ।
अङ्गं, क्ली, शरीरादेरेकदेशः । आं इति हिन्दी- भाषा । तत्पर्य्यायः । अवयवः २ प्रतीकः ३ अप- घनः ४ । इत्यमरः ॥ गात्रं । (श्टङ्गारतिलके, -- “अङ्गानि चम्पकदलैः स विधाय धाता” ।) अप्रधानं । (साहित्यदर्पणे, -- “एक एव भवेदङ्गी शृङ्गारो वीर एव वा । अङ्गमन्ये रसाः सर्व्वे कार्य्यनिर्वहणेऽद्भुतं” ॥ उपायः । इति मेदिनी ॥ (अङ्ग्यते विषयो बुध्यते अनेन अङ्ग + करणे घञ् इति व्युत्पत्त्या) मनः । अङ्गं मनसि काये चेत्यमिधानान्तरदर्शनात् । यथा । “हिरण्यगर्भाङ्गभुवं मुनिं हरिरिति माघः” ॥ वेदाङ्गशास्त्राणि षट् । यथा, -- “शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः । ज्योतिषामयनञ्चैव वेदाङ्गानि षडेव तु” ॥ शिक्षा १ कल्पः २ व्याकरणं ३ निरुक्तं ४ ज्यो- तिषं ५ छन्दः ६ । इत्यमरः ॥ अङ्गस्य लक्षणं यथा । तदीयप्रधानफलजनकव्यापारजनकत्वे सति तदीयप्रधानफलाजनकत्वं । इति तिथ्यादितत्त्व- टीका ॥
अङ्गः, पुं, स्वनामख्यातदेशः । इति हेमचन्द्रः ॥ मे- दिनीकारमते नित्यबहुवचनान्तशब्दोऽयं । देश- विशेषः । यथा, -- “वैद्यनाथं समास्भ्य भुवनेशान्तगं शिवे । तावदङ्गाभिधो देशो यात्रायां न हि दुंष्यते ॥ इति शक्तिसङ्गमतन्त्रे ७ पटलः ॥ (अयञ्च देशः सरष्वाः सङ्गमे अवस्थितः, अत्र महादेवस्य हुङ्कारेण कामस्य अङ्गत्यागात् अयं अङ्गनाम्ना ख्यातः । यथा रामायणे, -- “अनङ्ग इति विख्यातस्ततःप्रभृति राघव । स चाङ्गविषयः श्रीमान् यत्राङ्गं स मुमोच ह” ॥
अङ्गः, त्रि, (अङ्गं विद्यतेऽस्य अङ्ग + अर्श आद्यच् तथा मेदिन्यां अङ्गं गात्रे प्रतोकोपाययोः पुं भूम्नि- नीवृति । क्लीवैकत्वे त्वप्रधाने त्रिष्वङ्गवति चा- न्तिके इति मेदिनी ।) अङ्गविशिष्टः । निकटः । इति मेदिनी ॥
📄 मूल मुद्रित पृष्ठ (1-013-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "अंग" आता है (16)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें